मम त्वश्वा निवृत्तस्य न प्रावर्तन्त वर्त्मनि।
उष्णमश्रु प्रमुञ्चन्तो रामे सम्प्रस्थिते वनम् ॥ 2.59.1 ॥
उभाभ्यां राजपुत्राभ्यामथ कृत्वाहमञ्जलिम्।
प्रस्थितो रथमास्थाय तद्दुःखमपि धारयन् ॥ 2.59.2 ॥
गुहेन सार्धं तत्रैव स्थितोऽस्मि दिवसान् बहून्।
आशया यदि मां रामः पुनःशब्दापयेदिति ॥ 2.59.3 ॥
विषये ते महाराज रामव्यसनकर्शिताः।
अपि वृक्षाः परिम्लानाः सपुष्पाङ्कुरकोरकाः ॥ 2.59.4 ॥
उपतप्तोदका नद्यः पल्वलानि सरांसि च।
परिशुष्कपलाशानि वनान्युपवनानि च ॥ 2.59.5 ॥
न च सर्पन्ति सत्त्वानि व्याला न प्रचरन्ति च।
रामशोकाभिभूतं तन्निष्कूजमभवद्वनम् ॥ 2.59.6 ॥
लीनपुष्करपत्राश्च नरेन्द्र कलुषोदकाः।
सन्तप्तपद्माः पद्मिन्यो लीनमीनविहङ्गमाः ॥ 2.59.7 ॥
जलजानि च पुष्पाणि माल्यानि स्थलजानि च।
नाद्य भान्त्यल्पगन्धीनि फलानि च यथापुरम् ॥ 2.59.8 ॥
अत्रोद्यानानि शून्यानि प्रलीनविहगानि च।
न चाभिरामानारामान् पश्यामि मनुजर्षभ ॥ 2.59.9 ॥
प्रविशन्तमयोध्यां मां न कश्चिदभिनन्दति।
नरा राममपश्यन्तो निश्वसन्ति मुहुर्मुहुः ॥ 2.59.10 ॥
देव राजरथं दृष्ट्वा विना राममिहागतम्।
दुःखादश्रुमुखः सर्वो राजमार्गगतो जनः ॥ 2.59.11 ॥
हर्म्यैर्विमानैः प्रासादैरवेक्ष्य रथमागतम्।
हाहाकारकृता नार्यो रामादर्शनकर्शिताः ॥ 2.59.12 ॥
आयतैर्विमलैर्नेत्रैरश्रुवेगपरिप्लुतैः।
अन्योन्यमभिवीक्षन्तेऽव्यक्तमार्ततराः स्त्रियः ॥ 2.59.13 ॥
नामित्राणां न मित्राणामुदासीनजनस्य च।
अहमार्ततया किञ्चिद्विशेषमुपलक्षये ॥ 2.59.14 ॥
अप्रहृष्टमनुष्या च दीननागतुरङ्गमा।
आर्तस्वरपरिम्लाना विनिश्वसितनिस्वना ॥ 2.59.15 ॥
निरानन्दा महाराज राम प्रव्राजनातुरा।
कौसल्या पुत्रहीनेव अयोध्या प्रतिभाति मा ॥ 2.59.16 ॥
सूतस्य वचनं श्रुत्वा वाचा परमदीनया।
बाष्पोपहतया राजा तं सूतमिदमब्रवीत् ॥ 2.59.17 ॥
कैकेय्या विनियुक्तेन पापाभिजनभावया।
मया न मन्त्रकुशलैर्वृद्धैः सह समर्थितम् ॥ 2.59.18 ॥
न सुहृद्भिर्न चामात्यैर्मन्त्रयित्वा च नैगमैः।
मयायमर्थः सम्मोहात् स्त्रीहेतोः सहसा कृतः ॥ 2.59.19 ॥
भवितव्यतया नूनमिदं वा व्यसनं महत्।
कुलस्यास्य विनाशाय प्राप्तं सूत यदृच्छया ॥ 2.59.20 ॥
सूत यद्यस्ति ते किञ्चिन्मया तु सुकृतं कृतम्।
त्वं प्रापयाशु मां रामं प्राणाः सन्त्वरयन्ति माम् ॥ 2.59.21 ॥
यद्यद्यापि ममैवाज्ञा निवर्त्तयतु राघवम्।
न शक्ष्यामि विना रामं मुहूर्त्तमपि जीवितुम् ॥ 2.59.22 ॥
अथवापि महाबाहुर्गतो दूरं भविष्यति।
मामेव रथमारोप्य शीघ्रं रामाय दर्शय ॥ 2.59.23 ॥
वृत्तदंष्ट्रो महेष्वासः क्वासौ लक्ष्मणपूर्वजः।
यदि जीवामि साध्वेनं पश्येयं सीतया सह ॥ 2.59.24 ॥
लोहिताक्षं महाबाहुमामुक्तमणिकुण्डलम्।
रामं यदि न पश्येयं गमिष्यामि यमक्षयम् ॥ 2.59.25 ॥
अतो नु किं दुःखतरं योहमिक्ष्वाकुनन्दनम्।
इमामवस्थामापन्नो नेह पश्यामि राघवम् ॥ 2.59.26 ॥
हा राम रामानुज हा हा वैदेहि तपस्विनि।
न मां जानीत दुःखेन म्रियमाणमनाथवत् ॥ 2.59.27 ॥
स तेन राजा दुःखेन भृशमर्पितचेतनः।
आवगाढः सुदुष्पारं शोकसागरमब्रवीत् ॥ 2.59.28 ॥
रामशोकमहाभोगः सीताविरहपारगः।
श्वसितोर्मिमहावर्त्तो बाष्पफेनजलाविलः ॥ 2.59.29 ॥
बाहुविक्षेपमीनौघो विक्रन्दितमहास्वनः।
प्रकीर्णकेशशैवालः कैकेयीवडवामुखः ॥ 2.59.30 ॥
ममाश्रुवेगप्रभवः कुब्जावाक्यमहाग्रहः।
वरवेलो नृशंसाया रामप्रव्राजनायतः ॥ 2.59.31 ॥
यस्मिन् बत निमग्नोऽहं कौसल्ये राघवं विना।
दुस्तरो जीवता देवि मयायं शोकसागरः ॥ 2.59.32 ॥
अशोभनं योऽहमिहाद्य राघवं दिदृक्षमाणो न लभे सलक्ष्मणम्।
इतीव राजा विलपन् महायशाः पपात तूर्णं शयने स मूर्च्छितः ॥ 2.59.33 ॥
इति विलपति पार्थिवे प्रणष्टे करुणतरं द्विगुणं च रामहेतोः।
वचनमनुनिशम्य तस्य देवी भयमगमत् पुनरेव राममाता ॥ 2.59.34 ॥