प्रत्याश्वस्तो यदा राजा मोहात् प्रत्यागतः पुनः।
अथाजुहाव तं सूतं रामवृत्तान्तकारणात् ॥ 2.58.1 ॥
अथ सूतो महा राजं कृताञ्जलिरुपस्थितः।
राममेवानुशोचन्तं दुःखशोकसमन्वितम् ॥ 2.58.2 ॥
वृद्धं परमसन्तप्तं नवग्रहमिव द्विपम्।
विनिश्वसन्तं ध्यायन्तमस्वस्थमिव कुञ्जरम् ॥ 2.58.3 ॥
राजा तु रजसा धूतं ध्वस्ताङ्गं समुपस्थितम्।
अश्रुपूर्णमुखं दीनमुवाच परमार्तवत् ॥ 2.58.4 ॥
क्वनु वत्स्यति धर्मात्मा वृक्षमूलमुपाश्रितः।
सोऽत्यन्तसुखितः सूत किमशिष्यति राघवः ॥ 2.58.5 ॥
दुःखस्यानुचितो दुःखं सुमन्त्रशयनोचितः।
भूमिपालात्मजो भूमौ शेते कथमनाथवत् ॥ 2.58.6 ॥
यं यान्तमनुयान्ति स्म पदातिरथकुञ्जराः।
स वत्स्यति कथं रामो विजनं वनमाश्रितः ॥ 2.58.7 ॥
व्यालैर्मृगैराचरितं कृष्णसर्पनिषेवितम्।
कथं कुमारौ वैदेह्या सार्द्धं वनमुपस्थितौ ॥ 2.58.8 ॥
सुकुमार्या तपस्विन्या सुमन्त्र सह सीतया।
राजपुत्रौ कथं पादैरवरुह्य रथाद्गतौ ॥ 2.58.9 ॥
सिद्धार्थः खलु सूत त्वं येन दृष्टौ ममात्मजौ।
वनान्तं प्रविशन्तौ तावश्विनाविव मन्दरम् ॥ 2.58.10 ॥
किमुवाच वचो रामः किमुवाच च लक्ष्मणः।
सुमन्त्र वनमासाद्य किमुवाच च मैथिली ॥ 2.58.11 ॥
आसितं शयितं भुक्तं सूत रामस्य कीर्तय।
जीविष्याम्यहमेतेन ययातिरिव साधुषु ॥ 2.58.12 ॥
इति सूतो नरेन्द्रेण चोदितः सज्जमानया।
उवाच वाचा राजानं सबाष्परिरब्धया ॥ 2.58.13 ॥
अब्रवीन्मां महाराज धर्ममेवानुपालयन्।
अञ्जलिं राघवः कृत्वा शिरसाभिप्रणम्य च ॥ 2.58.14 ॥
सूत मद्वचनात्तस्य तातस्य विदितात्मनः।
शिरसा वन्दनीयस्य वन्द्यौ पादौ महात्मनः ॥ 2.58.15 ॥
सर्वमन्तःपुरं वाच्यं सूत मद्वचनात्त्वया।
आरोग्यमविशेषेण यथार्हं चाभिवादनम् ॥ 2.58.16 ॥
माता च मम कौसल्या कुशलं चाभिवादनम्।
अप्रमादं च वक्तव्या ब्रूयाश्चैनामिदं वचः ॥ 2.58.17 ॥
धर्म्मनित्या यथाकालमग्न्यगारपरा भव।
देवि देवस्य पादौ च देववत् परिपालय ॥ 2.58.18 ॥
अभिमानञ्च मानञ्च त्यक्त्वा वर्त्तस्व मातृषु।
अनु राजानमार्यां च कैकेयीमम्बकारय ॥ 2.58.19 ॥
कुमारे भरते वृत्तिर्वर्त्तितव्या च राजवत्।
अर्थज्येष्ठा हि राजानो राजधर्ममनुस्मर ॥ 2.58.20 ॥
भरतः कुशलं वाच्यो वाच्यो मद्वचनेन च।
सर्वास्वेव यथान्यायं वृत्तिं वर्त्तस्व मातृषु ॥ 2.58.21 ॥
वक्तव्यश्च महाबाहुरिक्ष्वाकुकुलनन्दनः।
पितरं यौवराज्यस्थो राज्यस्थमनुपालय ॥ 2.58.22 ॥
अतिक्रान्तवया राजा मा स्मैनं व्यवरोरुधः।
कुमारराज्ये जीव त्वं तस्यैवाज्ञाप्रवर्तनात् ॥ 2.58.23 ॥
अब्रवीच्चापि मां भूयो भृशमश्रूणि वर्तयन्।
मातेव मम माता ते द्रष्टव्या पुत्रगर्द्धिनी ॥ 2.58.24 ॥
इत्येवं मां महाराज ब्रुवन्नेव महायशाः।
रामो राजीवताम्राक्षो भृशमश्रूण्यवर्तयत् ॥ 2.58.25 ॥
लक्ष्मणस्तु सुसङ्क्रुद्धो निश्वसन् वाक्यमब्रवीत्।
केनायमपराधेन राजपुत्रो विवासितः ॥ 2.58.26 ॥
राज्ञा तु खलु कैकेय्या लघु त्वाश्रित्य शासनम्।
कृतं कार्य्यमकार्यं वा वयं येनाभिपीडिताः ॥ 2.58.27 ॥
यदि प्रव्राजितो रामो लोभकारणकारितम्।
वरदाननिमित्तं वा सर्वथा दुष्कृतं कृतम् ॥ 2.58.28 ॥
इदं तावद्यथाकाममीश्वरस्य कृते कृतम्।
रामस्य तु परित्यागे न हेतुमुपलक्षये ॥ 2.58.29 ॥
असमीक्ष्य समारब्धं विरुद्धं बुद्धिलाघवात्।
जनयिष्यति सङ्क्रोशं राघवस्य विवासनम् ॥ 2.58.30 ॥
अहं तावन्महाराजे पितृत्वं नोपलक्षये।
भ्राता भर्त्ता च बन्धुश्च पिता च मम राघवः ॥ 2.58.31 ॥
सर्वलोकप्रियं त्यक्त्वा सर्वलोकहिते रतम्।
सर्वलोकोऽनुरज्येत कथं त्वाऽनेन कर्मणा ॥ 2.58.32 ॥
सर्वप्रजाभिरामं हि रामं प्रव्राज्य धार्म्मिकम्।
सर्वलोकं विरुद्ध्येमं कथं राजा भविष्यसि ॥ 2.58.33 ॥
जानकी तु महाराज निश्वसन्ती मनस्विनी।
भूतोपहतचित्तेव विष्ठिता विस्मिता स्थिता ॥ 2.58.34 ॥
अदृष्टपूर्वव्यसमा राजपुत्री यशस्विनी।
तेन दुःखेन रुदती नैव मां किञ्चिदब्रवीत् ॥ 2.58.35 ॥
उद्वीक्षमाणा भर्तारं मुखेन परिशुष्यता।
मुमोच सहसा बाष्पं मां प्रयान्तमुदीक्ष्य सा ॥ 2.58.36 ॥
तथैव रामोऽश्रुमुखः कृताञ्जलिः स्थितोभवल्लक्ष्मणबाहुपालितः।
तथैव सीता रुदती तपस्विनी निरीक्षते राजरथं तथैव माम् ॥ 2.58.37 ॥