कथयित्वा सुदुःखार्तः सुमन्त्रेण चिरं सह।
रामे दक्षिणकूलस्थे जगाम स्वगृहं गुहः ॥ 2.57.1 ॥
भरद्वाजाभिगमनं प्रयागे च सहासनम्।
आगिरेर्गमनं तेषां तत्रस्थैरभिलक्षितम् ॥ 2.57.2 ॥
अनुज्ञातः सुमन्त्रोऽथ योजयित्वा हयोत्तमान्।
अयोध्यामेव नगरीं प्रययौ गाढदुर्मनाः ॥ 2.57.3 ॥
स वनानि सुगन्धीनि सरितश्च सरांसि च।
पश्यन्नतिययौ शीघ्रं ग्रामाणि नगराणि च ॥ 2.57.4 ॥
ततः सायाह्नसमये तृतीयेऽहनि सारथिः।
अयोध्यां समनुप्राप्य निरानन्दां ददर्श ह ॥ 2.57.5 ॥
स शून्यामिव निःशब्दां दृष्ट्वा परमदुर्मनाः।
सुमन्त्रश्चिन्तयामास शोकवेगसमाहतः ॥ 2.57.6 ॥
कच्चिन्न सगजा साश्वा सजना सजनाधिपा।
रामसन्तापदुःखेन दग्धा शोकाग्निना पुरी ॥ 2.57.7 ॥
इति चिन्तापरः सूतो वाजिभिः शीघ्रपातिभिः।
नगरद्वारमासाद्य त्वरितः प्रविवेश ह ॥ 2.57.8 ॥
सुमन्त्रमभियान्तं तं शतशोऽथ सहस्रशः।
क्व राम इति पृच्छन्तः सूतमभ्यद्रवन्नराः ॥ 2.57.9 ॥
तेषां शशंस गङ्गायामहमापृच्छ्य राघवम्।
अनुज्ञातो निवृत्तोऽस्मि धार्म्मिकेण महात्मना ॥ 2.57.10 ॥
ते तीर्णा इति विज्ञाय बाष्पपूर्णमुखा जनाः।
अहो धिगिति निश्वस्य हा रामेति च चुक्रुशुः ॥ 2.57.11 ॥
शुश्राव च वचस्तेषां वृन्दंवृन्दं च तिष्ठताम्।
हताः स्म खलु येनेह पश्याम इति राघवम् ॥ 2.57.12 ॥
दानयज्ञविवाहेषु समाजेषु महत्सु च।
न द्रक्ष्यामः पुनर्जातु धार्मिकं राममन्तरा ॥ 2.57.13 ॥
किं समर्थं जनस्यास्य किं प्रियं किं सुखावहम्।
इति रामेण नगरं पितृवत्परिपालितम् ॥ 2.57.14 ॥
वातायनगतानां च स्त्रीणामन्वन्तरापणम्।
रामशोकाभितप्तानां शुश्राव परिदेवनम् ॥ 2.57.15 ॥
स राजमार्गमध्येन सुमन्त्रः पिहिताननः।
यत्र राजा दशरथस्तदेवोपययौ गृहम् ॥ 2.57.16 ॥
सोऽवतीर्य्य रथाच्छीघ्रं राजवेश्म प्रविश्य च।
कक्ष्याः सप्ताभिचक्राम महाजनसमाकुलाः ॥ 2.57.17 ॥
हर्म्यैर्विमानैः प्रासादैरवेक्ष्याथ समागतम्।
हाहाकार कृता नार्यो रामादर्शनकर्शिताः ॥ 2.57.18 ॥
आयतैर्विमलैर्नेत्रैरश्रुवेगपरिप्लुतैः।
अन्योन्यमभिवीक्षन्तेऽव्यक्तमार्ततराः स्त्रियः ॥ 2.57.19 ॥
ततो दशरथस्त्रीणां प्रासादेभ्यस्ततस्ततः।
रामशोकाभितप्तानां मन्दं शुश्राव जल्पितम् ॥ 2.57.20 ॥
सह रामेण निर्यातो विना राममिहागतः।
सूतः किं नाम कौसल्यां शोचन्तीं प्रतिवक्ष्यति ॥ 2.57.21 ॥
यथा च मन्ये दुर्जीवमेवं न सुकरं ध्रुवम्।
आच्छिद्य पुत्रे निर्याते कौसल्या यत्र जीवति ॥ 2.57.22 ॥
सत्यरूपं तु तद्वाक्यं राज्ञः स्त्रीणां निशामयन्।
प्रदीप्त इव शोकेन विवेश सहसा गृहम् ॥ 2.57.23 ॥
स प्रविश्याष्टमीं कक्ष्यां राजानं दीनमातुरम्।
पुत्रशोकपरिद्यूनमपश्यत् पाण्डरे गृहे ॥ 2.57.24 ॥
अभिगम्य तमासीनं नरेन्द्रमभिवाद्य च।
सुमन्त्रो रामवचनं यथोक्तं प्रत्यवेदयत् ॥ 2.57.25 ॥
स तूष्णीमेव तच्छ्रुत्वा राजा विभ्रान्तचेतनः।
मूर्च्छितो न्यपतद्भूमौ रामशोकाभिपीडितः ॥ 2.57.26 ॥
ततोऽन्तःपुरमाविद्धं मूर्च्छिते पृथिवीपतौ।
उद्धृत्य बाहू चुक्रोश नृपतौ पतिते क्षितौ ॥ 2.57.27 ॥
सुमित्रया तु सहिता कौसल्या पतितं पतिम्।
उत्थापयामास तदा वचनं चेदमब्रवीत् ॥ 2.57.28 ॥
इमं तस्य महाभाग दूतं दुष्करकारिणः।
वनवासादनुप्राप्तं कस्मान्न प्रतिभाषसे ॥ 2.57.29 ॥
अद्येममनयं कृत्वा व्यपत्रपसि राघव।
उत्तिष्ठ सुकृतं तेऽस्तु शोके न स्यात् सहायता ॥ 2.57.30 ॥
देव यस्या भयाद्रामं नानुपृच्छसि सारथिम्।
नेह निष्ठति कैकेयी विस्रब्धं प्रतिभाष्यताम् ॥ 2.57.31 ॥
सा तथोक्त्वा महाराजं कौसल्या शोकलालसा।
धरण्यां निपपाताशु बाष्पविप्लुतभाषिणी ॥ 2.57.32 ॥
एवं विलपतीं दृष्ट्वा कौसल्यां पतितां भुवि।
पतिं चावेक्ष्य ताः सर्वाः सुस्वरं रुरुदुः स्त्रियः ॥ 2.57.33 ॥
ततस्तमन्तःपुरनादमुत्थितं समीक्ष्य वृद्धास्तरुणाश्च मानवाः।
स्त्रियश्च सर्वा रुरुदुः समन्ततः पुरं तदासीत् पुनरेव सङ्कुलम् ॥ 2.57.34 ॥