०५६ चित्रकूटदर्शनम्

अथ रात्र्यां व्यतीतायामवसुप्तमनन्तरम्।
प्रबोधयामास शनैर्लक्ष्मणं रघुनन्दनः ॥ 2.56.1 ॥
सौमित्रे शृणु वन्यानां वल्गु व्याहरतां स्वनम्।
सम्प्रतिष्ठामहे कालः प्रस्थानस्य परन्तप ॥ 2.56.2 ॥
स सुप्तः समये भ्रात्रा लक्ष्मणः प्रतिबोधितः।
जहौ निद्रां च तन्द्रीं च प्रसक्तं च प€थि श्रमम् ॥ 2.56.3 ॥
तत उत्थाय ते सर्वे स्पृष्ट्वा नद्याः शिवं जलम्।
पन्थानमृषिणाऽऽदिष्टं चित्रकूटस्य तं ययुः ॥ 2.56.4 ॥
ततः सम्प्रस्थितः काले रामः सौमित्रिणा सह।
सीतां कमलपत्राक्षीमिदं वचनमब्रवीत् ॥ 2.56.5 ॥
आदीप्तानिव वैदेहि सर्वतः पुष्पितान्नगान्।
स्वैः पुष्पैः किंशुकान् पश्य मालिनः शिशिरात्यये ॥ 2.56.6 ॥
पश्य भल्लातकान् फुल्लान्नरैरनुपसेवितान्।
फलत्रैरवनतान्नूनं शक्ष्यामि जीवितुम् ॥ 2.56.7 ॥
पश्य द्रोणप्रमाणानि लम्बमानानि लक्ष्मण।
मधूनि मधुकारीभिः सम्भृतानि नगेनगे ॥ 2.56.8 ॥
एष क्रोशति नत्यूहस्तं शिखी प्रतिकूजति।
रमणीये वनोद्देशे पुष्पसंस्तरसङ्कटे ॥ 2.56.9 ॥
मातङ्गयूथानुसृतं पक्षिसङ्घानुनादितम्।
चित्रकूटमिमं पश्य प्रवृद्धशिखरं गिरिम् ॥ 2.56.10 ॥
समभूमितले रम्ये द्रुमैर्बहुभिरावृते।
पुण्ये रंस्यामहे तात चित्रकूटस्य कानने ॥ 2.56.11 ॥
ततस्तौ पादचारेण गच्छन्तौ सह सीतया।
रम्यमासेदतुः शैलं चित्रकूटं मनोरमम् ॥ 2.56.12 ॥
तं तु पर्वतमासाद्य नानापक्षिगणायुतम्।
बहुमूलफलं रम्यं सम्पन्नं सरसोदकम् ॥ 2.56.13 ॥
मनोज्ञोऽयं गिरिः सौम्य नानाद्रुमलतायुतः।
बहुमूलफलो रम्यः स्वाजीवः प्रतिभाति मे ॥ 2.56.14 ॥
मुनयश्च महात्मानो वसन्त्यस्मिन् शिलोच्चये।
अयं वासो भवेत्तावदत्र सौम्य रमेमहि ॥ 2.56.15 ॥
इति सीता च रामश्च लक्ष्मणश्€च कृताञ्जलिः।
अभिगम्याश्रमं सर्वे वाल्मीकिमभिवादयन् ॥ 2.56.16 ॥
तान् महर्षिः प्रमुदितः पूजयामास धर्मवित्।
आस्यतामिति चोवाच स्वागतं तु निवेद्य च ॥ 2.56.17 ॥
ततोऽब्रवीन्महाबाहुर्लक्ष्मणं लक्ष्मणाग्रजः।
सन्निवेद्य यथान्यायमात्मानमृषये प्रभुः ॥ 2.56.18 ॥
लक्ष्मणानय दारूणि दृढानि च वराणि च।
कुरुष्वावसथं सौम्य वासे मेऽभिरतं मनः ॥ 2.56.19 ॥
तस्य तद्वचनं श्रुत्वा सौमित्रिर्विविधान् द्रुमान्।
आजहार ततश्चक्रे पर्णशालामरिन्दमः ॥ 2.56.20 ॥
तां निष्ठितां बद्धकटां दृष्ट्वा रामः सुदर्शनाम्।
शुश्रूषमाणमेकाग्रमिदं वचनमब्रवीत् ॥ 2.56.21 ॥
ऐणेयं मांसमाहृत्य शालां यक्ष्यामहे वयम्।
कर्त्तव्यं वास्तुशमनं सौमित्रे चिरजीविभिः ॥ 2.56.22 ॥
मृगं हत्वानय क्षिप्रं लक्ष्मणेह शुभेक्षण।
कर्त्तव्यः शास्त्रदृष्टो हि विधिर्धर्ममनुस्मर ॥ 2.56.23 ॥
भ्रातुर्वचनमाज्ञाय लक्ष्मणः परवीरहा।
चकार स यथोक्तं च तं रामः पुनरब्रवीत् ॥ 2.56.24 ॥
ऐणेयं श्रपयस्वैतच्छालां यक्ष्यामहे वयम्।
त्वर सौम्य मुहूर्तोऽयं ध्रुवश्च दिवसोऽप्ययम् ॥ 2.56.25 ॥
स लक्ष्मणः कृष्णमृगं हत्वा मेध्यं प्रतापवान्।
अथ चिक्षेप सौमित्रिः समिद्धे जातवेदसि ॥ 2.56.26 ॥
तं तु पक्वं समाज्ञाय निष्टप्तं छिन्नशोणितम्।
लक्ष्मणः पुरुषव्याघ्रमथ राघवमब्रवीत् ॥ 2.56.27 ॥
अयं कृष्णः समाप्ताङ्गः श्रृतः कृष्णमृगो यथा।
देवतां देवसङ्काश यजस्व कुशलो ह्यसि ॥ 2.56.28 ॥
रामः स्नात्वा तु नियतो गुणवाञ्जप्यकोविदः।
सङ्हेणाकरोत् सर्वान् मन्त्रान् सत्रावसानिकान् ॥ 2.56.29 ॥
इष्ट्वा देवगणान् सर्वान् विवेशावसथं शुचिः।
बभूव च मनोह्लादो रामस्यामिततेजसः ॥ 2.56.30 ॥
वैश्वदेवबलिं कृत्वा रौद्रं वैष्णवमेव च।
वास्तुसंशमनीयानि मङ्गलानि प्रवर्तयन् ॥ 2.56.31 ॥
जपं च न्यायतः कृत्वा स्नात्वा नद्यां यथाविधि।
पापसंशमनं रामश्चकार बलिमुत्तमम् ॥ 2.56.32 ॥
वेदिस्थलविधानानि चैत्यान्यायतनानि च।
आश्रमस्यानुरूपाणि स्थापयामास राघवः ॥ 2.56.33 ॥
वन्यैर्माल्यैः फलैर्मूलैः पक्वैर्मांसैर्यथाविधि।
अद्भिर्जपैश्च वेदोक्तैर्दर्भैश्च ससमित्कुशैः ॥ 2.56.34 ॥
तौ तर्पयित्वा भूतानि राघवौ सह सीतया।
तदा विविशतुः शालां सुशुभां शुभलक्षणौ ॥ 2.56.35 ॥
तां वृक्षपर्णच्छदनां मनोज्ञां यथाप्रदेशं सुकृतां निवाताम्।
वासाय सर्वे विविशुः समेताः सभां यथा देवगणाः सुधर्माम् ॥ 2.56.36 ॥
अनेकनानामृगपक्षिसङ्कुले विचित्रपुष्पस्तबकैर्द्रुमैर्युते।
वनोत्तमे व्यालमृगानुनादिते तदा विजर्ह्रुः सुसुखं जितेन्द्रियाः ॥ 2.56.37 ॥
सुरम्यमासाद्य तु चित्रकूटं नदीं च तां माल्यवतीं सुतीर्थाम्।
ननन्द हृष्टो मृगपक्षिजुष्टां जहौ च दुःखं पुरविप्रवासात् ॥ 2.56.38 ॥