०५५ यमुनातरणम्

महर्षिमभिवाद्याथ जग्मतुस्तं गिरिं प्रति ॥ 2.55.1 ॥
तेषां चैव स्वस्त्ययनं महर्षिः स चकार ह।
प्रस्थितांश्चैव तान् प्रेक्ष्य पिता पुत्रानिवान्वगात् ॥ 2.55.2 ॥
ततः प्रचक्रमे वक्तुं वचनं स महामुनिः।
भरद्वाजो महातेजा रामं सत्यपराक्रमम् ॥ 2.55.3 ॥
गङ्गायमुनयोः सन्धिमासाद्य मनुजर्षभौ।
कालिन्दीमनुगच्छेतां नदीं पश्चान्मुखाश्रिताम् ॥ 2.55.4 ॥
अथासाद्य तु कालिन्दीं शीघ्रस्रोतसमापगाम्।
तस्यास्तीर्थं प्रचरितं पुराणं प्रेक्ष्य राघवौ ॥ 2.55.5 ॥
तत्र यूयं प्लवं कृत्वा तरतांशुमतीं नदीम्।
ततो न्यग्रोधमासाद्य महान्तं हरितच्छदम् ॥ 2.55.6 ॥
विवृद्धं बहुभिर्वृक्षैः श्यामं सिद्धोपसेवितम्।
तस्मै सीताञ्जलिं कृत्वा प्रयुञ्जीताशिषःः शिवाः ॥ 2.55.7 ॥
समासाद्य तु तं वृक्षं वसेद्वातिक्रमेत वा।
क्रोशमात्रं ततो गत्वा नीलं द्रक्ष्यथ काननम् ॥ 2.55.8 ॥
रम्यो मार्दवयुक्तश्च वनदावैर्विवर्जितः।
इति पन्थानमावेद्य महर्षिः सन्न्यवर्तत ॥ 2.55.9 ॥
अभिवाद्य तथेत्युक्त्वा रामेण विनिवर्तितः ॥ 2.55.10 ॥
उपावृत्ते मुनौ तस्मिन् रामो लक्ष्मणमब्रवीत्।
कृतपुण्याः स्म सौमित्रे मुनिर्यन्नोऽनुकम्पते ॥ 2.55.11 ॥
इति तौ पुरुषव्याघ्रौ मन्त्रयित्वा मनस्विनौ।
सीतामेवाग्रतः कृत्वा कालिन्दीं जग्मतुर्नदीम् ॥ 2.55.12 ॥
अथासाद्य तु कालिन्दीं शीघ्रस्रोतोवहां नदीम्।
चिन्तामापेदिरे सर्वे नदीजलतितीर्षवः ॥ 2.55.13 ॥
तौ काष्ठसङ्घाटमथो चक्रतुस्सुमहाप्लवम्।
शुष्कैर्वंशैः समास्तीर्णमुशीरैश्च समावृतम् ॥ 2.55.14 ॥
ततो वेतसशाखाश्च जम्बूशाखाश्च वीर्यवान्।
चकार लक्ष्मणश्छित्त्वा सीतायाः सुखमासनम् ॥ 2.55.15 ॥
तत्र श्रियमिवाचिन्त्यां रामो दाशरथिः प्रियाम्।
ईषत्संलज्जमानां तामध्यारोपयत प्लवम् ॥ 2.55.16 ॥
पार्श्वे च तत्र वैदेह्या वसने भूषणानि च।
प्लवे कठिनकाजं च रामश्चक्रे सहायुधैः ॥ 2.55.17 ॥
आरोप्य प्रथमं सीतां सङ्घाट परिगृह्य तौ।
ततः प्रतेरतुर्यत्तौ वीरौ दशरथात्मजौ ॥ 2.55.18 ॥
कालिन्दीमध्यमायाता सीता त्वेनामवन्दत।
स्वस्ति देवि तरामि त्वां पारयेन्मे पतिर्व्रतम् ॥ 2.55.19 ॥
यक्ष्ये त्वां गोसहस्रेण सुराघटशतेन च।
स्वस्ति प्रत्यागते रामे पुरीमिक्ष्वाकुपालिताम् ॥ 2.55.20 ॥
कालिन्दीमथ सीता तु याचमाना कृताञ्जलिः।
तीरमेवाभिसम्प्राप्ता दक्षिणं वरवर्णिनी ॥ 2.55.21 ॥
ततः प्लवेनांशुमतीं शीघ्रगामूर्मिमालिनीम्।
तीरजैर्बहुभिर्वृक्षैः सन्तेरुर्यमुनां नदीम् ॥ 2.55.22 ॥
ते तीर्णाः प्लवमुत्सृज्य प्रस्थाय यमुना वनात्।
श्यामं न्यग्रोधमासेदुः शीतलं हरितच्छदम् ॥ 2.55.23 ॥
न्यग्रोधं तमुपागम्य वैदेही वाक्यमब्रवीत् ॥ 2.55.24 ॥
कौसल्यां चैव पश्येयं सुमित्रां च यशस्विनीम्।
इति सीताऽञ्जलिं कृत्वा पर्यगच्छद्वनस्पतिम् ॥ 2.55.25 ॥
अवलोक्य ततः सीतामायाचन्तीमनिन्दिताम्।
दयितां च विधेयां च रामो लक्ष्मणमब्रवीत् ॥ 2.55.26 ॥
सीतामादाय गच्छ त्वमग्रतो भरताग्रज।
पृष्ठतोऽहं गमिष्यामि सायुधो द्विपदां वर ॥ 2.55.27 ॥
यद्यत्फलं प्रार्थयते पुष्पं वा जनकात्मजा।
तत्तत् प्रदद्या वैदेह्या यत्रास्या रमते मनः ॥ 2.55.28 ॥
गच्छतोस्तु तयोर्मध्ये बभूव जनकात्मजा।
मातङ्गयोर्मध्यगता शुभा नागवधूरिव ॥ 2.55.29 ॥
एकैकं पादपं गुल्मं लतां वा पुष्पशालिनीम्।
अदृष्टपूर्वां पश्यन्ती रामं पप्रच्छ साऽबला ॥ 2.55.30 ॥
रमणीयान् बहुविधान् पादपान् कुसुमोत्कटान्।
सीतावचनसंरब्ध आनयामास लक्ष्मणः ॥ 2.55.31 ॥
विचित्रवालुकजलां हंससारसनादिताम्।
रेमे जनकराजस्य तदा प्रेक्ष्य सुता नदीम् ॥ 2.55.32 ॥
क्रोशमात्रं ततो गत्वा भ्रातरौ रामलक्ष्€मणौ।
बहून् मेध्यान् मृगान् हत्वा चेरतुर्यमुनावने ॥ 2.55.33 ॥
विहृत्य ते बर्हिणपूगनादिते शुभे वने वानरवारणायुते।
समं नदीवप्रमुपेत्य सम्मतं निवासमाजग्मुरदीनदर्शनाः ॥ 2.55.34 ॥