०५४ भरद्वाजाश्रमगमनम्

ते तु तस्मिन् महावृक्ष उषित्वा रजनीं शिवाम्।
विमलेऽभ्युदिते सूर्ये तस्माद्देशात् प्रतस्थिरे ॥ 2.54.1 ॥
यत्र भागीरथीं गङ्गां यमुनाभिप्रवर्त्तते।
जग्मुस्तं देशमुद्दिश्य विगाह्य सुमहद्वनम् ॥ 2.54.2 ॥
ते भूमिभागान् विविधान् देशांश्चापि मनोरमान्।
अदृष्टपूर्वान् पश्यन्तस्तत्रतत्र यशस्वि€नः ॥ 2.54.3 ॥
यथाक्षेमेण गच्छन् स पश्यंश्च विविधान् द्रुमान्।
निवृत्तमात्रे दिवसे रामः सौमित्रिमब्रवीत् ॥ 2.54.4 ॥
प्रयागमभितः पश्य सौमित्रे धूममुन्नतम्।
अग्नेर्भगवतः केतुं मन्ये सन्निहितो मुनिः ॥ 2.54.5 ॥
नूनं प्राप्ताः स्म सम्भेदं मङ्गायमुनयोर्वयम्।
तथा हि श्रूयते शब्दो वारिणो वारिघट्टितः ॥ 2.54.6 ॥
दारूणि परिभिन्नानि वनजैरुपजीविभिः।
भरद्वाजाश्रमे चैते दृश्यन्ते विविधा द्रुमाः ॥ 2.54.7 ॥
धन्विनौ तौ सुखं गत्वा लम्बमाने दिवाकरे।
गङ्गायमुनयोः सन्धौ प्रापतुर्निलयं मुनेः ॥ 2.54.8 ॥
रामस्त्वाश्रममासाद्य त्रासयन् मृगपक्षिणः।
गत्वा मुहूर्त्तमध्वानं भरद्वाजमुपागमत् ॥ 2.54.9 ॥
ततस्त्वाश्रममासाद्य मुनेर्दर्शनकाङ्क्षिणौ।
सीतयानुगतौ वीरौ दूरादेवावतस्थतुः ॥ 2.54.10 ॥
स प्रविश्य महात्मानमृषिं शिष्यगणैर्वृतम्।
संशितव्रतमेकाग्रं तपसा लब्धचक्षुषम् ॥ 2.54.11 ॥
हुताग्निहोत्रं दृष्ट्वैव महाभागं कृताञ्जलिः।
रामः सौमित्रिणा सार्द्धं सीतया चाम्यवादयत् ॥ 2.54.12 ॥
न्यवेदयत चात्मानं तस्मै लक्ष्मण पूर्वजः।
पुत्रौ दशरथस्यावां भगवन् रामलक्ष्मणौ ॥ 2.54.13 ॥
भार्या ममेयं वैदेही कल्याणी जनकात्मजा।
मां चानुयाता विजनं तपोवनमनिन्दिता ॥ 2.54.14 ॥
पित्रा प्रव्राज्यमानं मां सौमित्रिरनुजः प्रियः।
अयमन्वगमद्भ्राता वनमेव दृढब्रतः ॥ 2.54.15 ॥
पित्रा नियुक्ता भगवन् प्रवेक्ष्यामस्तपोवनम्।
धर्ममेव चरिष्यामस्तत्र मूलफलाशनाः ॥ 2.54.16 ॥
तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः।
उपानयत धर्मात्मा गामर्घ्यमुदकं ततः ॥ 2.54.17 ॥
नानाविधानन्नरसान् वन्यमूलफलाश्रयान्।
तेभ्यो ददौ तप्ततपा वासं चैवाम्यकल्पयत् ॥ 2.54.18 ॥
मृगपक्षिभिरासीनो मुनिभिश्च समन्ततः।
राममागतमभ्यर्च्य स्वागतेनाह तं मुनिः ॥ 2.54.19 ॥
प्रतिगृह्य च तामर्चामुपविष्टं स राघवम्।
भरद्वाजोऽब्रवीद्वाक्यं धर्मयुक्तमिदं तदा ॥ 2.54.20 ॥
चिरस्य खलु काकुत्स्थ पश्यामि त्वामिहागतम्।
श्रुतं तव मया चेदं विवासनमकारणम् ॥ 2.54.21 ॥
अवकाशो विविक्तोऽयं महानद्योः समागमे।
पुण्यश्च रमणीयश्च वसत्विह भवान् सुखम् ॥ 2.54.22 ॥
एवमुक्तस्तु वचनं भरद्वाजेन राघवः।
प्रत्युवाच शुभं वाक्यं रामः सर्वहिते रतः ॥ 2.54.23 ॥
भगवन्नित आसन्नः पौरजानपदो जनः।
सुदर्शमिह मां प्रेक्ष्य मन्येऽहमिममाश्रमम् ॥ 2.54.24 ॥
आगमिष्यति वैदेहीं मां चापि प्रेक्षको जनः।
अनेन कारणेनाहमिह वासं न रोचये ॥ 2.54.25 ॥
एकान्ते पश्य भगवन्नाश्रमस्थानमुत्तमम्।
रमेत यत्र वैदेही सुखार्हा जनकात्मजा ॥ 2.54.26 ॥
एतच्छ्रुत्वा शुभं वाक्यं भरद्वाजो महामुनिः।
राघवस्य ततो वाक्यमर्थग्राहकमब्रवीत् ॥ 2.54.27 ॥
दशक्रोश इतस्तात गिरिर्यस्मिन्निवत्स्यसि।
महर्षिसेवितः पुण्यः सर्वतः सुखदर्शनः ॥ 2.54.28 ॥
गोलाङ्गूलानुचरितो वानरर्क्षनि€षेवितः।
चित्रकूट इति ख्यातो गन्धमादनसन्निभः ॥ 2.54.29 ॥
यावता चित्रकूटस्य नरः श्रृङ्गाण्यवेक्षते।
कल्याणानि समाधत्ते न पापे कुरुते मनः ॥ 2.54.30 ॥
ऋषयस्तत्र बहवो विहृत्य शरदां शतम्।
तपसा दिवमारूढाः कपालशिरसा सह ॥ 2.54.31 ॥
प्रविविक्तमहं मन्ये तं वासं भवतः सुखम्।
इह वा वनवासाय वस राम मया सह ॥ 2.54.32 ॥
स रामं सर्वकामैस्तं भरद्वाजः प्रियातिथिम्।
सभार्यं सह च भ्रात्रा प्रतिजग्राह धर्मवित् ॥ 2.54.33 ॥
तस्य प्रयागे रामस्य तं महर्षिमुपेयुषः।
प्रपन्ना रजनी पुण्या चित्राः कथयतः कथाः ॥ 2.54.34 ॥
सीतातृतीयः काकुत्स्थः परिश्रान्तः सुखोचितः।
भरद्वाजाश्रमे रम्ये तां रात्रिमवसत्सुखम् ॥ 2.54.35 ॥
प्रभातायां रजन्यां तु भरद्वाजमुपागमत्।
उवाच नरशार्दूलो मुनिं ज्वलिततेजसम् ॥ 2.54.36 ॥
शर्वरीं भगवन्नद्य सत्यशील तवाश्रमे।
उषिताः स्मेह वसतिमनुजानातु नो भवान् ॥ 2.54.37 ॥
रात्र्यां तु तस्यां व्युष्टायां भरद्वाजोऽब्रवीदिदम्।
मधुमूलफलोपेतं चित्रकूटं व्रजेति ह ॥ 2.54.38 ॥
वासमौपयिकं मन्ये तव राम महाबल।
नानानगगणोपेतः किन्नरोरगसेवितः ॥ 2.54.39 ॥
गम्यतां भवता शैलश्चित्रकूटः स विश्रुतः।
पुण्यश्च रमणीयश्च बहुमूलफलायुतः ॥ 2.54.40 ॥
तत्र कुञ्जरयूथानि मृगयूथानि चाभितः।
विचरन्ति वनान्तेऽस्मिन् €तानि द्रक्ष्यसि राघव ॥ 2.54.41 ॥
सरित्प्रस्रवणप्रस्थान् दरीकन्दरनिर्द्दरान्।
चरतः सीतया सार्द्धं नन्दिष्यति मनस्तव ॥ 2.54.42 ॥
प्रहृष्टकोयष्टिककोकिलस्वनैर्विनादितं तं वसुधाधरं शिवम्।
मृगैश्च मत्तैर्बहुभिश्च कुञ्जरैः सुरम्यमासाद्य समावसाश्रमम् ॥ 2.54.43 ॥