०५३ राम-लक्ष्मणसंवादः

स तं वृक्षं समासाद्य सन्ध्यामन्वास्य पश्चिमाम्।
रामो रमयतां श्रेष्ठ इति होवाच लक्ष्मणम् ॥ 2.53.1 ॥
अद्येयं प्रथमा रात्रिर्याता जनपदाद्बहिः।
या सुमन्त्रेण रहिता तां नोत्कण्ठितुमर्हसि ॥ 2.53.2 ॥
जागर्त्तव्यमतन्द्रिभ्यामद्यप्रभृति रात्रिषु।
योगक्षेमं हि सीताया वर्तते लक्ष्मणावयोः ॥ 2.53.3 ॥
रात्रिं कथञ्चिदेवेमां सौमित्रे वर्तयामहे।
उपावर्तामहे भूमावास्तीर्य स्वयमार्जितैः ॥ 2.53.4 ॥
स तु संविश्य मेदिन्यां महार्हशयनोचितः।
इमाः सौमित्रयो रामो व्याजहार कथाः शुभाः ॥ 2.53.5 ॥
ध्रुवमद्य महाराजो दुःखं स्वपिति लक्ष्मण।
कृतकामा तु कैकेयी तुष्टा भवितुमर्हति ॥ 2.53.6 ॥
सा हि देवी महाराजं कैकेयी राज्यकारणात्।
अपि न च्यावयेत् प्राणान् दृष्ट्वा भरतमागतम् ॥ 2.53.7 ॥
अनाथश्च हि वृद्धश्च मया चैव विनाकृतः।
किं करिष्यति कामात्मा कैकेयीवशमागतः ॥ 2.53.8 ॥
इदं व्यसनमालोक्य राज्ञश्च मतिविभ्रमम्।
काम एवार्थधर्माभ्यां गरीयानिति मे मतिः ॥ 2.53.9 ॥
को ह्यविद्वानपि पुमान् प्रमदायाः कृते त्यजेत्।
छन्दानुवर्त्तिनं पुत्रं ततो मामिव लक्ष्मण ॥ 2.53.10 ॥
सुखी बत सभार्यश्च भरतः केकयीसुतः।
मुदितान् कोसलानेको यो भोक्ष्यत्यधिराजवत् ॥ 2.53.11 ॥
स हि सर्वस्य राज्यस्य मुखमेकं भविष्यति।
ताते च वयसातीते मयि चारण्यमास्थिते ॥ 2.53.12 ॥
अर्थधर्मौ परित्यज्य यः काममनुवर्तते।
एवमापद्यते क्षिप्रं राजा दशरथो यथा ॥ 2.53.13 ॥
मन्ये दशरथान्ताय मम प्रव्राजनाय च।
कैकेयी सौम्य सम्प्राप्ता राज्याय भरतस्य च ॥ 2.53.14 ॥
अपीदानीं न कैकेयी सौभाग्यमदमोहिता।
कौसल्यां च सुमित्रां च सम्प्रबाधेत मत्कृते ॥ 2.53.15 ॥
मा स्म मत्कारणाद्देवी सुमित्रा दुःखमावसेत्।
अयोध्यामित एव त्वं काल्ये प्रविश लक्ष्मण ॥ 2.53.16 ॥
अहमेको गमिष्यामि सीतया सह दण्डकान्।
अनाथाया हि नाथस्त्वं कौसल्याया भविष्यसि ॥ 2.53.17 ॥
क्षुद्रकर्मा हि कैकेयी द्वेष्यमन्याय्यमाचरेत्।
परिदद्या हि धर्मज्ञे भरते मम मातरम् ॥ 2.53.18 ॥
नूनं जात्यन्तरे कस्मिन् स्त्रियः पुत्रैर्वियोजिताः।
जनन्या मम सौमित्रे तस्मादेतदुपस्थितम् ॥ 2.53.19 ॥
मया हि चिरपुष्टेन दुःखसंवर्द्धितेन च।
विप्रायुज्यत कौसल्या फलकाले धिगस्तु माम् ॥ 2.53.20 ॥
मा स्म सीमन्तिनी काचिज्जनयेत् पुत्रमीदृशम्।
सौमित्रे योऽहमम्बाया दद्मि शोकमनन्तकम् ॥ 2.53.21 ॥
मन्ये प्रीतिविशिष्टा सा मत्तो लक्ष्मण शारिका।
यस्यास्तच्छ्रूयते वाक्यं शुक पादमरेर्दश ॥ 2.53.22 ॥
शोचन्त्या अल्पभाग्याया न किञ्चिदुपकुर्वता।
पुत्रेण किमपुत्राया मया कार्य्यमरिन्दम ॥ 2.53.23 ॥
अल्पभाग्या हि मे माता कौसल्या रहिता मया।
शेते परमदुःखार्त्ता पतिता शोकसागरे ॥ 2.53.24 ॥
एको ह्यहमयोध्यां च पृथिवीं चापि लक्ष्मण।
तरेयमिषुभिः क्रुद्धो ननु वीर्यमकारणम् ॥ 2.53.25 ॥
अधर्मभयभीतश्च परलोकस्य चानघ।
तेन लक्ष्मण नाद्याहमात्मानमभिषेचये ॥ 2.53.26 ॥
एतदन्यच्च करुणं विलप्य विजने वने।
अश्रुपूर्णमुखो रामो निशि तूष्णीमुपाविशत् ॥ 2.53.27 ॥
विलप्योपरतं रामं गतार्चिषमिवानलम्।
समुद्रमिव निर्वेगमाश्वासयत लक्ष्मणः ॥ 2.53.28 ॥
ध्रुवमद्य पुरी राजन्नयोध्याऽऽयुधिनां वर।
निष्प्रभा त्वयि निष्क्रान्ते गतचन्द्रेव शर्वरी ॥ 2.53.29 ॥
नैतदौपयिकं राम यदिदं परितप्यसे।
विषादयसि सीतां च मां चैव पुरुषर्षभ ॥ 2.53.30 ॥
न च सीता त्वया हीना न चाहमपि राघव।
मुहूर्त्तमपि जीवावो जलान्मत्स्याविवोद्धृतौ ॥ 2.53.31 ॥
न हि तातं न शत्रुघ्नं न सुमित्रां परन्तप।
द्रष्टुमिच्छेयमद्याहं स्वर्गं वापि त्वया विना ॥ 2.53.32 ॥
ततस्तत्र सुखासीनौ नातिदूरे निरीक्ष्य ताम्।
न्यग्रोधे सुकृतां शय्यां भेजाते धर्मवत्सलौ ॥ 2.53.33 ॥
स लक्ष्मणस्योत्तमपुष्कलं वचो निशम्य चैवं वनवासमादरात्।
समाः समस्ता विदधे परन्तपः प्रपद्य धर्मं सुचिराय राघवः ॥ 2.53.34 ॥
ततस्तु तस्मिन् विजने वने तदा महाबलौ राघववंशवर्द्धनौ।
न तौ भयं सम्भ्रममभ्युपेयतुर्यथैव सिंहौ गिरिसानुगोचरौ ॥ 2.53.35 ॥