प्रभातायां तु शर्वर्यां पृथुवक्षा महायशाः।
उवाच रामः सौमित्रिं लक्ष्मणं शुभलक्षणम् ॥ 2.52.1 ॥
भास्करोदयकालोऽयं गता भगवती निशा।
असौ सुकृष्णो विहगः कोकिलस्तात कूजति ॥ 2.52.2 ॥
बर्हिणानां च निर्घोषः श्रूयते नदतां वने।
तराम जाह्नवीं सौम्य शीघ्रगां सागरङ्गमाम् ॥ 2.52.3 ॥
विज्ञाय रामस्य वचः सौमित्रिर्मित्रनन्दनः।
गुहमामन्त्र्य सूतं च सोऽतिष्ठद्भ्रातुरग्रतः ॥ 2.52.4 ॥
स तु रामस्य वचनं निशम्य प्रतिगृह्य च।
स्थपतिस्तूर्णमाहूय सचिवानिदमब्रवीत् ॥ 2.52.5 ॥
अस्य वाहनसंयुक्तां कर्णग्राहवतीं शुभाम्।
सुप्रतारां दृढां तीर्थे शीघ्रं नावमुपाहर ॥ 2.52.6 ॥
तं निशम्य गुहादेशं गुहामात्यगणो महान्।
उपोह्य रुचिरां नावं गुहाय प्रत्यवेदयत् ॥ 2.52.7 ॥
ततः स प्राञ्जलिर्भूत्वा गुहो राघवमब्रवीत्।
उपस्थितेयं नौर्देव भूयः किं करवाणि ते ॥ 2.52.8 ॥
तवामरसुतप्रख्य तर्तुं सागरगां नदीम्।
नौरियं पुरुषव्याघ्र तां त्वमारोह सुव्रत ॥ 2.52.9 ॥
अथोवाच महातेजा रामो गुहमिदं वचः।
कृतकामोऽस्मि भवता शीघ्रमारोप्यतामिति ॥ 2.52.10 ॥
ततः कलापान् सन्नह्य खड्गौ बद्ध्वा च धन्विनौ।
जग्मतुर्येन तौ गङ्गां सीतया सह राघवौ ॥ 2.52.11 ॥
राममेवं तु धर्मज्ञमुपगम्य विनीतवत्।
किमहं करवाणीति सूतः प्राञ्जलिरब्रवीत् ॥ 2.52.12 ॥
ततोऽब्रवीद्दाशरथिः सुमन्त्रं स्पृशन् करेणोत्तम दक्षिणेन।
सुमन्त्र शीघ्रं पुनरेव याहि राज्ञः सकाशे भव चाप्रमत्तः ॥ 2.52.13 ॥
निवर्त्तस्वेत्युवाचैनमेतावद्धि कृतं मम।
रथं विहाय पद्भ्यां तु गमिष्यामो महावनम् ॥ 2.52.14 ॥
आत्मानं त्वभ्यनुज्ञातमवेक्ष्यार्तः स सारथिः।
सुमन्त्रः पुरुषव्याघ्रमैक्ष्वाकमिदमब्रवीत् ॥ 2.52.15 ॥
नातिक्रान्तमिदं लोके पुरुषेणेह केनचित्।
तव सभ्रातृभार्यस्य वासः प्राकृतवद्वने ॥ 2.52.16 ॥
न मन्ये ब्रह्मचर्येऽस्ति स्वधीते वा फलोदयः।
मार्द्दवार्जवयोर्वापि त्वां चेद्व्यसनमागतम् ॥ 2.52.17 ॥
सह राघववैदेह्या भ्रात्रा चैव वने वसन्।
त्वं गतिं प्राप्स्यसे वीर त्रील्लोँकांस्तु जयन्निव ॥ 2.52.18 ॥
वयं खलु हता राम ये त्वयाप्युपवञ्चिताः।
कैकेय्या वशमेष्यामः पापाया दुःखभागिनः ॥ 2.52.19 ॥
इति ब्रुवन्नात्मसमं सुमन्त्रः सारथिस्तदा।
दृष्ट्वा दूरगतं रामं दुःखार्त्तो रुरुदे चिरम् ॥ 2.52.20 ॥
ततस्तु विगते बाष्पे सूतं स्पृष्टोदकं शुचिम्।
रामस्तु मधुरं वाक्यं पुनःपुनरुवाच तम् ॥ 2.52.21 ॥
इक्ष्वाकूणां त्वया तुल्यं सुहृदं नोपलक्षये।
यथा दशरथो राजा मां न शोचेत्तथा कुरु ॥ 2.52.22 ॥
शोकोपहतचेताश्च वृद्धश्च जगतीपतिः।
कामभारावसन्नश्च तस्मादेतद्ब्रवीमि ते ॥ 2.52.23 ॥
यद्यदाज्ञापयेत्किञ्चित् स महात्मा महीपतिः।
कैकेय्याः प्रियकामार्थं कार्यं तदविकाङ्क्षया ॥ 2.52.24 ॥
एतदर्थं हि राज्यानि प्रशासति नरेश्वराः।
यदेषां सर्वकृत्येषु मनो न प्रतिहन्यते ॥ 2.52.25 ॥
यद्यथा स महाराजो नालीकमधिगच्छति।
न च ताम्यति दुःखेन सुमन्त्र कुरु तत्तथा ॥ 2.52.26 ॥
अदृष्टदुःखं राजानं वृद्धमार्यं जितेन्द्रियम्।
ब्रूयास्त्वमभिवाद्यैव मम हेतोरिदं वचः ॥ 2.52.27 ॥
नैवाहमनुशोचामि लक्ष्मणो न च मैथिली।
अयोध्यायाश्च्युताश्चेति वने वत्स्यामहेति च ॥ 2.52.28 ॥
चतुर्दशसु वर्षेषु निवृत्तेषु पुनःपुनः।
लक्ष्मणं मां च सीतां च द्रक्ष्यसि क्षिप्रमागतान् ॥ 2.52.29 ॥
एवमुक्त्वा तु राजानं मातरं च सुमन्त्र मे।
अन्याश्च देवीः सहिताः कैकेयीं च पुनःपुनः ॥ 2.52.30 ॥
आरोग्यं ब्रूहि कौसल्यामथ पादाभिवन्दनम्।
सीताया मम चार्यस्य वचनाल्लक्ष्मणस्य च ॥ 2.52.31 ॥
ब्रूयाश्च हि महाराजं भरतं क्षिप्रमानय।
आगतश्चापि भरतः स्थाप्यो नृपमते पदे ॥ 2.52.32 ॥
भरतं च परिष्वज्य यौवराज्येऽभिषिच्य च।
अस्मत्सन्तापजं दुःखं न त्वामभिभविष्यति ॥ 2.52.33 ॥
भरतश्चापि वक्तव्यो यथा राजनि वर्त्तसे।
तथा मातृषु वर्तेथाः सर्वास्वेवाविशेषतः ॥ 2.52.34 ॥
यथा च तव कैकेयी सुमित्रा च विशेषतः।
तथैव देवी कौसल्या मम माता विशेषतः ॥ 2.52.35 ॥
तातस्य प्रियकामेन यौवराज्यमवेक्षता।
लोकयोरुभयोः शक्यं नित्यदा सुखमेधितुम् ॥ 2.52.36 ॥
निवर्त्यमानो रामेण सुमन्त्रः शोककर्शितः।
तत्सर्वं वचनं श्रुत्वा स्नेहात् काकुत्स्थमब्रवीत् ॥ 2.52.37 ॥
यदहं नोपचारेण ब्रूयां स्नेहादविक्लवः।
भक्तिमानिति तत्तावद्वाक्यं त्वं क्षन्तुमर्हसि ॥ 2.52.38 ॥
कथं हि त्वद्विहीनोऽहं प्रतियास्यामि तां पुरीम्।
तव तावद्वियोगेन पुत्रशोकाकुलामिव ॥ 2.52.39 ॥
सराममपि तावन्मे रथं दृष्ट्वा तदा जनः।
विना रामं रथं दृष्ट्वा विदीर्य्येतापि सा पुरी ॥ 2.52.40 ॥
दैन्यं हि नगरी गच्छेद्दृष्ट्वा शून्यमिमं रथम्।
सूतावशेषं स्वं सैन्यं हतवीरमिवाहवे ॥ 2.52.41 ॥
दूरेपि निवसन्तं त्वां मानसेनाग्रतः स्थितम्।
चिन्तयन्त्योऽद्य नूनं त्वां निराहाराः कृताः प्रजाः ॥ 2.52.42 ॥
दृष्टं तद्धि त्वया राम यादृशं त्वत्प्रवासने।
प्रजानां सङ्कुलं वृत्तं त्वच्छोकक्लान्तचेतसाम् ॥ 2.52.43 ॥
आर्तनादो हि यः पौरैर्मुक्तस्त्वद्विप्रवासने।
सरथं मां निशाम्यैव कुर्युः शतगुणं ततः ॥ 2.52.44 ॥
अहं किं चापि वक्ष्यामि देवीं तव सुतो मया।
नीतोऽसौ मातुलकुलं सन्तापं मा कृथा इति ॥ 2.52.45 ॥
असत्यमपि नैवाहं ब्रूयां वचनमीदृशम्।
कथमप्रियमेवाहं ब्रूयां सत्यमिदं वचः ॥ 2.52.46 ॥
मम तावन्नियोगस्थास्त्वद्बन्धुजनवाहिनः।
कथं रथं त्वया हीनं प्रवक्ष्यन्ति हयोत्तमाः ॥ 2.52.47 ॥
तन्न शक्ष्याम्यहं गन्तुमयोध्यां त्वदृतेऽनघ।
वनवासानुयानाय मामनुज्ञातुमर्हसि ॥ 2.52.48 ॥
यदि मे याचमानस्य त्यागमेव करिष्यसि।
सरथोऽग्निं प्रवेक्ष्यामि त्यक्तमात्र इह त्वया ॥ 2.52.49 ॥
भविष्यन्ति वने यानि तपोविघ्नकराणि ते।
रथेन प्रतिबाधिष्ये तानि सत्त्वानि राघव ॥ 2.52.50 ॥
त्वत्कृतेन मयावाप्तं रथचर्याकृतं सुखम्।
आशंसे त्वत्कृतेनाहं वनवासकृतं सुखम् ॥ 2.52.51 ॥
प्रसीदेच्छामि तेऽरण्ये भवितुं प्रत्यनन्तरः।
प्रीत्याभिहितमिच्छामि भव मे प्रत्यनन्तरः ॥ 2.52.52 ॥
इमे चापि हया वीर यदि ते वनवासिनः।
परिचर्यां करिष्यन्ति प्राप्स्यन्ति परमां गतिम् ॥ 2.52.53 ॥
तव शुश्रूषणं मूर्ध्ना करिष्यामि वने वसन्।
अयोध्यां देवलोकं वा सर्वथा प्रजहाम्यहम् ॥ 2.52.54 ॥
न हि शक्या प्रवेष्टुं सा मयायोध्या त्वया विना।
राजधानी महेन्द्रस्य यथा दुष्कृतकर्मणा ॥ 2.52.55 ॥
वनवासे क्षयं प्राप्ते ममैष हि मनोरथः।
यदनेन रथेनैव त्वां वहेयं पुरीं पुनः ॥ 2.52.56 ॥
चतुर्दश हि वर्षाणि सहितस्य त्वया वने।
क्षणभूतानि यास्यन्ति शतसङ्ख्याऽन्यतोऽन्यथा ॥ 2.52.57 ॥
भृत्यवत्सल तिष्ठन्तं भर्त्तृपुत्रगते पथि।
भक्तं भृत्यं स्थितं स्थित्यां त्वं न मां हातुमर्हसि ॥ 2.52.58 ॥
एवं बहुविधं दीनं याचमानं पुनःपुनः।
रामो भृत्यानुकम्पी तु सुमन्त्रमिदमब्रवीत् ॥ 2.52.59 ॥
जानामि परमां भक्तिं मयि ते भर्तृवत्सल।
शृणु चापि यदर्थं त्वां प्रेषयामि पुरीमितः ॥ 2.52.60 ॥
नगरीं त्वां गतं दृष्ट्वा जननी मे यवीयसी कैकेयी प्रत्ययं गच्छेदिति रामो वनं गतः ॥ 2.52.61 ॥
परितुष्टा हि सा देवी वनवासं गते मयि।
राजानं नातिशङ्केत मिथ्यावादीति धार्मिकम् ॥ 2.52.62 ॥
एष मे प्रथमः कल्पो यदम्बा मे यवीयसी।
भरतारक्षितं स्फीतं पुत्रराज्यमवाप्नुयात् ॥ 2.52.63 ॥
मम प्रियार्थं राज्ञश्च सरथस्त्वं पुरीं व्रज।
सन्दिष्टश्चासि यानर्थांस्तांस्तान् ब्रूयास्तथातथा ॥ 2.52.64 ॥
इत्युक्त्वा वचनं सूतं सान्त्वयित्वा पुनःपुनः।
गुहं वचनमक्लीबो रामो हेतुमदब्रवीत् ॥ 2.52.65 ॥
नेदानीं गुह योग्योऽयं वासो मे सजने वने।
अवश्यं ह्याश्रमे वासः कर्त्तव्यस्तद्गतो विधिः ॥ 2.52.66 ॥
हितकामः पितुर्भूयः सीताया लक्ष्मणस्य च।
जटाः कृत्वा गमिष्यामि न्यग्रोधक्षीरमानय ॥ 2.52.67 ॥
तत्क्षीरं राजपुत्राय गुहः क्षिप्रमुपाहरत्।
लक्ष्मणस्यात्मनश्चैव रामस्तेनाकरोज्जटाः ॥ 2.52.68 ॥
दीर्घबाहुर्नरव्याघ्रो जटिलत्वमधारयत् ॥ 2.52.69 ॥
तौ तदा चीरवसनौ जटामण्डलधारिणौ।
अशोभेतामृषिसमौ भ्रातरौ रामलक्ष्मणौ ॥ 2.52.70 ॥
ततो वैखानसं मार्गमास्थितः सहलक्ष्मणः।
व्रतमादिष्टवान् रामः सहायं गुहमब्रवीत् ॥ 2.52.71 ॥
अप्रमत्तो बले कोशे दुर्गे जनपदे तथा।
भवेथा गुह राज्यं हि दुरारक्षतमं मतम् ॥ 2.52.72 ॥
ततस्तं समनुज्ञाय गुहमिक्ष्वाकुनन्दनः।
जगाम तूर्णमव्यग्रः सभार्यः सहलक्ष्मणः ॥ 2.52.73 ॥
स तु दृष्ट्वा नदीतीरे नावमिक्ष्वाकुनन्दनः।
तितीर्षुः शीघ्रगां गङ्गामिदं लक्ष्मणमब्रवीत् ॥ 2.52.74 ॥
आरोहं त्वं नरव्याघ्र स्थितां नावमिमां शनैः।
सीतां चारोपयान्वक्षं परिगृह्य मनस्विनीम् ॥ 2.52.75 ॥
स भ्रातुः शासनं श्रुत्वा सर्वमप्रतिकूलयन्।
आरोप्य मैथिलीं पूर्वमारुरोहात्मवांस्ततः ॥ 2.52.76 ॥
अथारुरोह तेजस्वी स्वयं लक्ष्मणपूर्वजः।
ततो निषादाधिपतिर्गुहो ज्ञातीनचोदयत् ॥ 2.52.77 ॥
राघवोऽपि महातेजा नावमारुह्य तां ततः।
ब्रह्मवत् क्षत्त्रवच्चैव जजाप हितमात्मनः ॥ 2.52.78 ॥
आचम्य च यथाशास्त्रं नदीं तां सह सीतया।
प्राणमत् प्रीतिसंहृष्टो लक्ष्मणश्चामितप्रभः ॥ 2.52.79 ॥
अनुज्ञाय सुमन्त्रं च सबलं चैवं तं गुहम्।
आस्थाय नावं रामस्तु चोदयामास नाविकान् ॥ 2.52.80 ॥
ततस्तैश्चोदिता सा नौः कर्णधारसमाहिता।
शुभस्फ्यवेगाभिहता शीघ्रं सलिलमत्यगात् ॥ 2.52.81 ॥
मध्यं तु समनुप्राप्य भागीरथ्यास्त्वनिन्दिता।
वैदेही प्राञ्जलिर्भूत्वा तां नदीमिदमब्रवीत् ॥ 2.52.82 ॥
पुत्रो दशरथस्यायं महाराजस्य धीमतः।
निदेशं पारयित्वेमं गङ्ग त्वदभिरक्षितः ॥ 2.52.83 ॥
चतुर्दश हि वर्षाणि समग्राण्युष्यकानने।
भ्रात्रा सह मया चैव पुनः प्रत्यागमिष्यति ॥ 2.52.84 ॥
ततस्त्वां देवि सुभगे क्षेमेण पुनरागता।
यक्ष्ये प्रमुदिता गङ्गे सर्वकामसमृद्धिनी ॥ 2.52.85 ॥
त्वं हि त्रिपथगा देवि ब्रह्मलोकं समीक्षसे।
भार्या चोदधिराजस्य लोकेऽस्मिन् सम्प्रदृश्यसे ॥ 2.52.86 ॥
सा त्वां देवि नमस्यामि प्रशंसामि च शोभने।
प्राप्तराज्ये नरव्याघ्रे शिवेन पुनरागते ॥ 2.52.87 ॥
गवां शतशहस्रं च वस्त्राण्यन्नं च पेशलम्।
ब्राह्मणेभ्यः प्रदास्यामि तव प्रियचिकीर्षया ॥ 2.52.88 ॥
सुराघटसहस्रेण मांसभूतौदनेन च।
यक्ष्ये त्वां प्रयता देवि पुरीं पुनरुपागता ॥ 2.52.89 ॥
यानि त्वत्तीरवासीनि दैवतानि वसन्ति च।
तानि सर्वाणि यक्ष्यामि तीर्थान्यायतनानि च ॥ 2.52.90 ॥
पुनरेव महाबाहुर्मया भ्रात्रा च सङ्गतः।
अयोध्यां वनवासात्तु प्रविशत्वनघोऽनघे ॥ 2.52.91 ॥
तथा सम्भाषमाणा सा सीता गङ्गामनिन्दिता।
दक्षिणा दक्षिणं तीरं क्षिप्रमेवाभ्युपागमत् ॥ 2.52.92 ॥
तीरं तु समनुप्राप्य नावं हित्वा नरर्षभः।
प्रातिष्ठत सह भ्रात्रा वैदेह्या च परन्तपः ॥ 2.52.93 ॥
अथाब्रवीन्महाबाहुः सुमित्रानन्दवर्द्धनम्।
भव संरक्षणार्थाय सजने विजनेऽपि वा ॥ 2.52.94 ॥
अवश्यं रक्षणं कार्यमदृष्टे विजने वने।
अग्रतो गच्छ सौमित्रे सीता त्वामनुगच्छतु ॥ 2.52.95 ॥
पृष्ठतोऽहं गमिष्यामि त्वां च सीतां च पालयन्।
अन्योन्यस्येह नो रक्षा कर्त्तव्या पुरुषर्षभ ॥ 2.52.96 ॥
न हि तावदतिक्रान्ता सुकरा काचन क्रिया।
अद्य दुःखं तु वैदेही वनवासस्य वेत्स्यति ॥ 2.52.97 ॥
प्रनष्ट जनसम्बाधं क्षेत्रारामविवर्जितम्।
विषमं च प्रपातं च वनं ह्यद्य प्रवेक्ष्यति ॥ 2.52.98 ॥
श्रुत्वा रामस्य वचनं प्रतस्थे लक्ष्मणोऽग्रतः।
अनन्तरं च सीताया राघवो रघुनन्दनः ॥ 2.52.99 ॥
गतं तु गङ्गापरपारमाशु रामं सुमन्त्रः प्रततं निरीक्ष्य।
अध्वप्रकर्षाद्विनिवृत्तदृष्टिर्मुमोच बाष्पं व्यथितस्तपस्वी ॥ 2.52.100 ॥
स लोकपालप्रतिमप्रभाववांस्तीर्त्वा महात्मा वरदो महानदीम्।
ततः समृद्धाञ्छुभसस्यमालिनः क्रमेण वत्सान् मुदितानुपागमत् ॥ 2.52.101 ॥
तौ तत्र हत्वा चतुरो महामृगान् वराहमृश्यं पृषतं महारुरुम्।
आदाय मेध्यं त्वरितं बुभुक्षितौ वासाय काले ययतुर्वनस्पतिम् ॥ 2.52.102 ॥