०५१ गुह-लक्ष्मणसंवादः

तं जाग्रतमदम्भेन भ्रातुरर्थाय लक्ष्मणम्।
गुहः सन्तापसन्तप्तो राघवं वाक्यमब्रवीत् ॥ 2.51.1 ॥
इयं तात सुखा शय्या त्वदर्थमुपकल्पिता।
प्रत्याश्वसिहि साध्वस्यां राजपुत्र यथासुखम् ॥ 2.51.2 ॥
उचितोऽयं जनः सर्वः क्लेशानां त्वं सुखोचितः।
गुप्त्यर्थं जागरिष्यामः काकुत्स्थस्य वयं निशाम् ॥ 2.51.3 ॥
न हि रामात्प्रियतरो ममास्ति भुवि कश्चन।
ब्रवीम्येतदहं सत्यं सत्येनैव च ते शपे ॥ 2.51.4 ॥
अस्य प्रसादादाशंसे लोकेऽस्मिन् सुमहद्यशः।
धर्मावाप्तिं च विपुलामर्थावाप्तिं च केवलाम् ॥ 2.51.5 ॥
सोऽहं प्रियतमं रामं शयानं सह सीतया।
रक्षिष्यामि धनुष्पाणिः सर्वतो ज्ञातिभिः सह ॥ 2.51.6 ॥
न हि मेऽविदितं किञ्चिद्वनेस्मिंश्चरतः सदा।
चतुरङ्गं ह्यपि बलं सुमहत् प्रसहेमहि ॥ 2.51.7 ॥
लक्ष्मणस्तं तदोवाच रक्ष्यमाणास्त्वयानघ।
नात्र भीता वयं सर्वे धर्ममेवानुपश्यता ॥ 2.51.8 ॥
€कथं दाशरथौ भूमौ शयाने सहसीतया।
शक्य निद्रा मया लब्धुं जीवितं वा सुखानि वा ॥ 2.51.9 ॥
यो न देवासुरैः सर्वैः शक्यः प्रसहितुं युधि।
तं पश्य सुखसंविष्टं तृणेषु सह सीतया ॥ 2.51.10 ॥
यो मन्त्रतपसा लब्धो विविधैश्च परिश्रमैः।
एको दशरथस्येष्टः पुत्रः सदृशलक्षणः ॥ 2.51.11 ॥
अस्मिन् प्रव्राजिते राजा न चिरं वर्तयिष्यति।
विधवा मेदिनी नूनं क्षिप्रमेव भविष्यति ॥ 2.51.12 ॥
विनद्य सुमहानादं श्रमेणोपरताः स्त्रियः।
निर्घोषोपरतं चातो मन्ये राजनिवेशनम् ॥ 2.51.13 ॥
कौसल्या चैव राजा च तथैव जननी मम।
नाशंसे यदि जीवन्ति सर्वे ते शर्वरीमिमाम् ॥ 2.51.14 ॥
जीवेदपि हि मे माता शत्रुघ्नस्यान्ववेक्षया।
तद्दुःखं यत्तु कौसल्या वीरसूर्विनशिष्यति ॥ 2.51.15 ॥
अनुरक्तजनाकीर्णा सुखा लोकप्रियावहा।
राजव्यसनसंसृष्टा सा पुरी विनशिष्यति ॥ 2.51.16 ॥
कथं पुत्रं महात्मानं ज्येष्ठं प्रियमपश्यतः।
शरीरं धारयिष्यन्ति प्राणा राज्ञो महात्मनः ॥ 2.51.17 ॥
विनष्टे नृपतौ पश्चात्कौसल्या विनशिष्यति।
अनन्तरं च मातापि मम नाशमुपैष्यति ॥ 2.51.18 ॥
अतिक्रान्तमतिक्रान्तमनवाप्य मनोरथम्।
राज्ये राममनिक्षिप्य पिता मे विनशिष्यति ॥ 2.51.19 ॥
सिद्धार्थाः पितरं वृत्तं तस्मिन् कालेप्युपस्थिते।
प्रेतकार्येषु सर्वेषु संस्करिष्यन्ति भूमिपम् ॥ 2.51.20 ॥
राम्यचत्वरसंस्थानां सुविभक्तमहापथाम्।
हर्म्यप्रासादसम्पन्नां गणिकावरशोभिताम् ॥ 2.51.21 ॥
रथाश्वगजसम्बाधां तूर्यनादविनादिताम्।
सर्वकल्याणसम्पूर्णां हृष्टपुष्टजनाकुलाम् ॥ 2.51.22 ॥
आरामोद्यानसम्पन्नां समाजोत्सवशालिनीम्।
सुखिता विचरिष्यन्ति राजधानीं पितुर्मम ॥ 2.51.23 ॥
अपि जीवेद्दशरथो वनवासात् पुनर्वयम्।
प्रत्यागम्य महात्मानमपि पश्येम सुव्रतम् ॥ 2.51.24 ॥
अपि सत्यप्रतिज्ञेन सार्द्धं कुशलिना वयम्।
निवृत्तवनवासेऽस्मिन्नयोध्यां प्रविशेमहि ॥ 2.51.25 ॥
परिदेवयमानस्य दुःखार्त्तस्य महात्मनः।
तिष्ठतो राजपुत्रस्य शर्वरी सात्यवर्तत ॥ 2.51.26 ॥
तथा हि सत्यं ब्रुवति प्रजाहिते नरेन्द्रपुत्रे गुरुसौहृदाद् गुहः।
मुमोच बाष्पं व्यसनाभिपीडितो ज्वरातुरो नाग इव व्यथातुरः ॥ 2.51.27 ॥