विशालान् कोसलान् रम्यान् यात्वा लक्ष्मणपूर्वजः।
अयोध्याभिमुखो धीमान् प्राञ्जलिर्वाक्यमब्रवीत् ॥ 2.50.1 ॥
आपृच्छे त्वां पुरिश्रेष्ठे काकुत्स्थपरिपालिते।
दैवतानि च यानि त्वां पालयन्त्यावसन्ति च ॥ 2.50.2 ॥
निवृत्तवनवासस्त्वामनृणो जगतीपतेः।
पुनर्द्रक्ष्यामि मात्रा च पित्रा च सह सङ्गतः ॥ 2.50.3 ॥
ततो रुधिरताम्राक्षो भुजमुद्यम्य दक्षिणम्।
अश्रुपूर्णमुखो दीनोऽब्रवीज्जानपदं जनम् ॥ 2.50.4 ॥
अनुक्रोशो दया चैव यथार्हं मयि वः कृतः।
चिरं दुःखस्य पापीयो गम्यतामर्थसिद्धये ॥ 2.50.5 ॥
तेऽभिवाद्य महात्मानं कृत्वा चापि प्रदक्षिणम्।
विलपन्तो नरा घोरं व्यतिष्ठन्त क्वचित्क्वचित् ॥ 2.50.6 ॥
तथा विलपतां तेषामतृप्तानां च राघवः।
अचक्षुर्विषयं प्रायाद्यथार्कः क्षणदामुखे ॥ 2.50.7 ॥
ततो धान्यधनोपेतान् दानशीनजनाञ्छिवान्।
अकुतश्चिद्भयान् रम्यांश्चैत्ययूपसमावृतान् ॥ 2.50.8 ॥
उद्यानाम्रवणोपेतान् सम्पन्नसलिलाशयान्।
तुष्टपुष्टजनाकीर्णान् गोकुलाकुलसेवितान् ॥ 2.50.9 ॥
लक्षणीयान् नरेन्द्राणां ब्रह्मघोषाभिनादितान्।
रथेन पुरुषव्याघ्रः कोसलानत्यवर्त्तत ॥ 2.50.10 ॥
मध्येन मुदितं स्फीतं रम्योद्यानसमाकुलम्।
राज्यं भोग्यं नरेन्द्राणां ययौ धृतिमतां वरः ॥ 2.50.11 ॥
तत्र त्रिपथगां दिव्यां शिवतोयामशैवलाम्।
ददर्श राघवो गङ्गां पुण्यामृषिनिषेविताम् ॥ 2.50.12 ॥
आश्रमैरविदूरस्थैः श्रीमद्भिः समलङ्कृताम्।
काले सरोभिर्हृष्टाभिः सेविताम्भो ह्रदां शिवाम् ॥ 2.50.13 ॥
देवदानवगन्धर्वैः किन्नरैरुपशोभिताम्।
नानागन्धर्वपत्नीभिः सेवितां सततं शिवाम् ॥ 2.50.14 ॥
देवाक्रीडाशताकीर्णां देवोद्यानशतायुताम्।
देवार्थमाकाशगमां विख्यातां देवपद्मिनीम् ॥ 2.50.15 ॥
जलाघाताट्टहासोग्रां फेननिर्मलहासिनीम्।
क्वचिद्वेणीकृतजलां क्वचिदावर्त्तशोभिताम् ॥ 2.50.16 ॥
क्वचित्स्तिमितगम्भीरां क्वचिद्वेगजलाकुलाम्।
क्वचिद्गम्भीरनिर्घोषां क्वचिद्भैरवनिस्वनाम् ॥ 2.50.17 ॥
देवसङ्घाप्लुतजलां निर्मलोत्पलशोभिताम्।
क्वचिदाभोगपुलिनां क्वचिन्निर्मलवालुकाम् ॥ 2.50.18 ॥
सदामत्तैश्च विहगैरभिसन्नादितान्तराम्।
क्वचित्तीररुहैर्वृक्षैर्मालाभिरुपशोभिताम् ॥ 2.50.19 ॥
क्वचित्फुल्लोत्पलच्छन्नां क्वचित्पद्मवनाकुलाम्।
क्वचित्कुमुदषण्डैश्च कुड्मलैरुपशोभिताम् ॥ 2.50.20 ॥
नानापुष्परजोध्वस्तां समदामिव च क्वचित्।
व्यपेतमलसङ्घातां मणिनिर्मलदर्शनाम् ॥ 2.50.21 ॥
दिशागजैर्वनगजैर्मत्तैश्च वरवारणैः।
देवोपवाह्यैश्च मुहुः सन्नादितवनान्तराम् ॥ 2.50.22 ॥
प्रमदामिव यत्नेन भूषितां भूषणोत्तमैः।
फलैः पुष्पैः किसलयैर्वृतां गुल्मैर्द्विजैस्तथा ॥ 2.50.23 ॥
शिंशुमारैश्च नक्रैश्च भुजङ्गैश्च निषेविताम्।
विष्णुपादच्युतां दिव्यामपापां पापनाशिनीम् ॥ 2.50.24 ॥
समुद्रमहिषीं गङ्गां सारसक्रौञ्चनादिताम्।
आससाद महाबाहुः श्रृङ्गवेरपुरं प्रति ॥ 2.50.25 ॥
तामूर्मिकलिलावर्त्तामन्ववेक्ष्य महारथः।
सुमन्त्रमब्रवीत् सूतमिहैवाद्य वसामहे ॥ 2.50.26 ॥
अविदूरादयं नद्या बहुपुष्पप्रवालवान्।
सुमहानिङ्गुदीवृक्षो वसामोऽत्रैव सारथे ॥ 2.50.27 ॥
द्रक्ष्यामः सरितां श्रेष्ठां सम्मान्यसलिलां शिवाम्।
देवदानवगन्धर्वमृगमानुषपक्षिणाम् ॥ 2.50.28 ॥
लक्ष्मणश्च सुमन्त्रश्च बाढमित्येव राघवम्।
उक्त्वा तमिङ्गुदीवृक्षं तदोपययतुर्हयैः ॥ 2.50.29 ॥
रामोऽभियाय तं रम्यं वृक्षमिक्ष्वाकुनन्दनः।
रथादवातरत्तस्मात् सभार्यः सहलक्ष्मणः ॥ 2.50.30 ॥
सुमन्त्रोप्यवतीर्य्या स्मान्मोनचयित्वा हयोत्तमान्।
वृक्षमूलगतं राममुपतस्थे कृताञ्जलिः ॥ 2.50.31 ॥
तत्र राजा गुहो नाम रामस्यात्मसमः सखा।
निषादजात्यो बलवान् स्थपतिश्चेति विश्रुतः ॥ 2.50.32 ॥
स श्रुत्वा पुरुषव्याघ्रं रामं विषयमागतम्।
वृद्धैः परिवृतोऽमात्यैर्ज्ञातिभिश्चाप्युपागतः ॥ 2.50.33 ॥
ततो निषादाधिपतिं दृष्ट्वा दूरादुपस्थितम्।
सह सौमित्रिणा रामः समागच्छद्गुहेन सः ॥ 2.50.34 ॥
तमार्तः सम्परिष्वज्य गुहो राघवमब्रवीत्।
यथायोध्या तथेयं ते राम किं करवाणि ते ॥ 2.50.35 ॥
ईदृशं हि महाबाहो कः प्राप्स्यत्यतिथिं प्रियम् ॥ 2.50.36 ॥
ततो गुणवदन्नाद्यमुपादाय पृथग्विधम्।
अर्ध्यं चोपानयत् क्षिप्रं वाक्यं चेदमुवाच ह ॥ 2.50.37 ॥
स्वागतं ते महाबाहो तवेयमखिला मही।
वयं प्रेष्या भवान् भर्त्ता साधु राज्यं प्रशाधि नः ॥ 2.50.38 ॥
भक्ष्यं भोज्यं च पेयं च लेह्यं चेदमुपस्थितम्।
शयनानि च मुख्यानि वाजिनां खादनं च ते ॥ 2.50.39 ॥
पद्भ्यामभिगमाच्चैव स्नेहसन्दर्शनेन च।
प्रशाधीति वाक्यकृतेन स्नेहप्रदर्शनेन ** ॥ 2.50.40 ॥
भुजाभ्यां साधु पीनाभ्यां पीडयन् वाक्यमब्रवीत् ॥ 2.50.41 ॥
दिष्ट्या त्वां गुह पश्यामि ह्यरोगं सह बान्धवैः।
अपि ते कुशलं राष्ट्रे मित्रेषु च धनेषु च ॥ 2.50.42 ॥
यत्त्विदं भवता किञ्चित् प्रीत्या समुपकल्पितम्।
सर्वं तदनुजानामि न हि वर्त्ते प्रतिग्रहे ॥ 2.50.43 ॥
कुशचीराजिनधरं फलमूलाशिनं च माम्।
विद्धि प्रणिहितं धर्मे तापसं वनगोचरम् ॥ 2.50.44 ॥
अश्वानां खादनेनाहमर्थी नान्येन केनचित्।
एतावतात्र भवता भविष्यामि सुपूजितः ॥ 2.50.45 ॥
एते हि दयिता राज्ञः पितुर्दशरथस्य मे।
एतैः सुविहितैरश्वैर्भविष्याम्यहमर्चितः ॥ 2.50.46 ॥
अश्वानां प्रतिपानं च खादनं चैव सोन्वशात्।
गुहस्तत्रैव पुरुषांस्त्वरितं दीयतामिति ॥ 2.50.47 ॥
ततश्चीरोत्तरासङ्गः सन्ध्यामन्वास्य पश्चिमाम्।
जलमेवाददे भोज्यं लक्ष्मणेनाहृतं स्वयम् ॥ 2.50.48 ॥
तस्य भूमौ शयानस्य पादौ प्रक्षाल्य लक्ष्मणः।
सभार्यस्य ततोऽभ्येत्य तस्थौ वृक्षमुपाश्रितः ॥ 2.50.49 ॥
गुहोपि सह सूतेन सौमित्रिमनुभाषयन्।
अन्वजाग्रत्ततो राममप्रमत्तो धनुर्द्धरः ॥ 2.50.50 ॥
तथा शयानस्य ततोऽस्य धीमतो यशस्विनो दाशरथेर्महात्मनः।
अदृष्टदुःखस्य सुखोचितस्य सा तदा व्यतीयाय चिरेण शर्वरी ॥ 2.50.51 ॥