रामोऽपि रात्रिशेषेण तेनैव महदन्तरम्।
जगाम पुरुषव्याघ्रः पितुराज्ञामनुस्मरन् ॥ 2.49.1 ॥
तथैव गच्छतस्तस्य व्यपायाद्रजनी शिवा।
उपास्य स शिवां सन्ध्यां विषयान्तं व्यगाहत ॥ 2.49.2 ॥
पश्यन्नतिययौ शीघ्रं शनैरिव हयोत्तमैः।
श्रृण्वन् वाचो मनुष्याणां ग्रामसंवासवासिनाम् ॥ 2.49.3 ॥
राजानं धिग् दशरथं कामस्य वशमास्थितम्।
हा नृशंसाद्य कैकेयी पापा पापानुबन्धिनी ॥ 2.49.4 ॥
तीक्ष्णा सम्भिन्नमर्यादा तीक्ष्णकर्मणि वर्त्तते ॥ 2.49.5 ॥
या पुत्रमीदृशं राज्ञः प्रवासयति धार्मिकम्।
वनवासे महाप्रज्ञं सानुक्रोशं जितेन्द्रियम् ॥ 2.49.6 ॥
कथं नाम महाभागा सीता जनकनन्दिनी।
सदा सुखेष्वभिरता दुःखान्यनुभविष्यति ॥ 2.49.7 ॥
अहो दशरथो राजा निःस्नेहः स्वसुतं प्रियम्।
प्रजानामनघं रामं परित्यक्तुमिहेच्छति ॥ 2.49.8 ॥
एता वाचो मुनष्याणां ग्रामसंवासवासिनाम्।
श्रृण्वन्नतिययौ वीरः कोसलान् कोसलेश्वरः ॥ 2.49.9 ॥
ततो वेदश्रुतिं नाम शिववारिवहां नदीम्।
उत्तीर्याभिमुखः प्रायादगस्त्याध्युषितां दिशम् ॥ 2.49.10 ॥
गत्वा तु सुचिरं कालं ततः शिवजलां नदीम्।
गोमतीं गोयुतानूपामतरत् सागरङ्गमाम् ॥ 2.49.11 ॥
गोमतीं चाप्यतिक्रम्य राघवः शीघ्रगैर्हयैः।
मयूरहंसाभिरुतां ततार स्यन्दिकां नदीम् ॥ 2.49.12 ॥
स महीं मनुना राज्ञा दत्तामिक्ष्वाकवे पुरा।
स्फीतां राष्ट्रावृतां रामो वैदेहीमन्वदर्शयत् ॥ 2.49.13 ॥
सूत इत्येव चाभाष्य सारथिं तमभीक्ष्णशः।
हंसमत्तस्वरः श्रीमानुवाच पुरुषर्षभः ॥ 2.49.14 ॥
कदाहं पुनरागम्य सरय्वाः पुष्पिते वने।
मृगयां पर्यटिष्यामि मात्रा पित्रा च सङ्गतः ॥ 2.49.15 ॥
राजर्षीणां हि लोकेऽस्मिन् रत्यर्थं मृगया वने।
काले वृतां तां मनुजैः धन्विनामभिकाङ्क्षिताम् ॥ 2.49.16 ॥
नात्यर्थमभिकाङ्क्षामि मृगयां सरयूवने।
रतिर्ह्येषातुला लोके राजर्षिगणसम्मता ॥ 2.49.17 ॥
स तमध्वानमैक्ष्वाकः सूतं मधुरया गिरा।
तं तमर्थमभिप्रेत्य ययौ वाक्यमुदीरयन् ॥ 2.49.18 ॥