तेषामेवं विषण्णानां पीडितानामतीव च।
बाष्पविप्लुतनेत्राणां सशोकानां मुमूर्षया ॥ 2.48.1 ॥
अनुगम्य निवृत्तनां रामं नगरवासिनाम्।
उद्गतानीव सत्त्वानि बभूबुरमनस्विनाम् ॥ 2.48.2 ॥
स्वंस्वं निलयमागम्य पुत्रदारैः समावृताः।
अश्रूणि मुमुचुः सर्वे बाष्पेण पिहिताननाः ॥ 2.48.3 ॥
न चाहृष्यन्न चामोदन् वणिजो न प्रसारयन्।
न चाशोभन्त पुण्यानि नापचन् गृहमेधिनः ॥ 2.48.4 ॥
नष्टं दृष्ट्वा नाभ्यनन्दन् विपुलं वा धनागमम्।
पुत्रं प्रथमजं लब्ध्वा जननी नाभ्यनन्दत ॥ 2.48.5 ॥
गृहेगृहे रुदन्त्यश्च भर्तारं गृहमागतम्।
व्यगर्हयन्त दुःखार्त्ता वाग्भिस्तोत्रैरिव द्विपान् ॥ 2.48.6 ॥
किं नु तेषां गृहैः कार्य्यं किं दारैः किं धनेन वा।
पुत्रैर्वा किं सुखैर्वापि ये न पश्यन्ति राघवम् ॥ 2.48.7 ॥
एकः सत्पुरुषो लोके लक्ष्मणः सह सीतया।
योऽनुगच्छति काकुत्स्थं रामं परिचरन् वने ॥ 2.48.8 ॥
आपगाः कृतपुण्यास्ताः पद्मिन्यश्च सरांसि च।
येषु स्नास्यति काकुत्स्थो विगाह्य सलिलं शुचि ॥ 2.48.9 ॥
शोभयिष्यन्ति काकुत्स्थमटव्यो रम्यकाननाः।
आपगाश्च महानूपाः सानुमन्तश्च पर्वताः ॥ 2.48.10 ॥
काननं वापि शैलं वा यं रामोऽभिगमिष्यति।
प्रियातिथिमिव प्राप्तं नैनं शक्ष्यन्त्यनर्चितुम् ॥ 2.48.11 ॥
विचित्रकुसुमापीडा बहुमञ्जरिधारिणः।
राघवं दर्शयिष्यन्ति नगा भ्रमरशालिनः ॥ 2.48.12 ॥
अकाले चापि मुख्यानि पुष्पाणि च फलानि च।
दर्शयिष्यन्त्यनुक्रोशाद्गिरयो राममागतम् ॥ 2.48.13 ॥
विदर्शयन्तो विविधान् भूयश्चित्रांश्च निर्झरान्।
पादपाः पर्वताग्रेषु रमयिष्यन्ति राघवम् ॥ 2.48.14 ॥
यत्र रामो भयं नात्र नास्ति तत्र पराभवः।
स हि शूरो महाबाहुः पुत्रो दशरथस्य च ॥ 2.48.15 ॥
पुराभवति नो दूरादनुगच्छाम राघवम् ॥ 2.48.16 ॥
पादच्छाया सुखा भर्तुस्तादृशस्य महात्मनः।
स हि नाथो जनस्यास्य स गतिः स परायणम् ॥ 2.48.17 ॥
वयं परिचरिष्यामः सीतां यूयं तु राघवम्।
इति पौरस्त्रियो भर्तॄन् दुःखार्तास्तत्तदब्रुवन् ॥ 2.48.18 ॥
युष्माकं राघवोऽरण्ये योगक्षेमं विधास्यति।
सीता नारीजनस्यास्य योगक्षेमं करिष्यति ॥ 2.48.19 ॥
को न्वनेनाप्रतीतेन सोत्कण्ठितजनेन च।
सम्प्रीयेतामनोज्ञेन वासेन हृतचेतसा ॥ 2.48.20 ॥
कैकेय्या यदि चेद्राज्यं स्यादधर्म्यमनाथवत्।
न हि नो जीवितेनार्थः कुतः पुत्रैः कुतो धनैः ॥ 2.48.21 ॥
यया पुत्रश्च भर्ता च त्यक्तावैश्वर्यकारणात्।
कं सा परिहरेदन्यं कैकेयी कुलपांसनी ॥ 2.48.22 ॥
कैकेय्या न वयं राज्ये भृतका निवसेम हि।
जीवन्त्या जातु जीवन्त्यः पुत्रैरपि शपामहे ॥ 2.48.23 ॥
या पुत्रं पार्थिवेन्द्रस्य प्रवासयति निर्घृणा।
कस्तां प्राप्य सुखं जीवेदधर्म्यां दुष्टचारिणीम् ॥ 2.48.24 ॥
उपद्रुतमिदं सर्वमनालम्बमनायकम्।
कैकेय्या हि कृते सर्वं विनाशमुपयास्यति ॥ 2.48.25 ॥
न हि प्रव्रजिते रामे जीविष्यति महीपतिः।
मृते दशरथे व्यक्तं विलापस्तदनन्तरम् ॥ 2.48.26 ॥
ते विषं पिबतालोड्य क्षीणपुण्याः सुदुर्गताः।
राघवं वानुगच्छध्वमश्रुतिं वापि गच्छत ॥ 2.48.27 ॥
मिथ्या प्रव्राजितो रामः सभार्य्यः सह लक्ष्मणः।
भरते सन्निसृष्टाः स्मः सौनिके पशवो यथा ॥ 2.48.28 ॥
पूर्णचन्द्राननः श्यामो गूढजत्रुररिन्दमः।
आजानुबाहुः पद्माक्षो रामो लक्ष्मणपूर्वजः ॥ 2.48.29 ॥
पूर्वाभिभाषी मधुरः सत्यवादी महाबलः।
सौम्यश्च सर्वलोकस्य चन्द्रवत्प्रियदर्शनः ॥ 2.48.30 ॥
नूनं पुरुषशार्दूलो मत्तमातङ्गविक्रमः।
शोभयिष्यत्यरण्यानि विचरन् स महारथः ॥ 2.48.31 ॥
तास्तथा विलपन्त्यस्तु नगरे नागरस्त्रियः।
चुक्रुशुर्दुःखसन्तप्ता मृत्योरिव भयागमे ॥ 2.48.32 ॥
इत्येवं विलपन्तीनां स्त्रीणां वेश्मसु राघवम्।
जगामास्तं दिनकरो रजनी चाभ्यवर्त्तत ॥ 2.48.33 ॥
नष्टज्वलनसम्पाता प्रशान्ताध्यायसत्कथा।
तिमिरेणाभिलिप्तेव सा तदा नगरी बभौ ॥ 2.48.34 ॥
उपशान्तवणिक्पण्या नष्टहर्षा निराश्रया।
अयोध्या नगरी चासीन्नष्टतारमिवाम्बरम् ॥ 2.48.35 ॥
तथा स्त्रियो रामनिमित्तमातुरा यथा सुते भ्रातरि वा विवासिते।
विलप्य दीना रुरुदुर्विचेतसः सुतैर्हि तासामधिको हि सोऽभवत् ॥ 2.48.36 ॥
प्रशान्तगीतोत्सवनृत्तवादना व्यपास्तहर्षा पिहितापणोदया।
तदा ह्ययोध्या नगरी बभूव सा महार्णवः सङ्क्षपितोदको यथा ॥ 2.48.37 ॥