प्रभातायां तु शर्वर्यां पौरास्ते राघवं विना।
शोकोपहतनिश्चेष्टा बभूवुर्हतचेतसः ॥ 2.47.1 ॥
शोकजाश्रुपरिद्यूना वीक्षमाणास्ततस्ततः।
आलोकमपि रामस्य न पश्यन्ति स्म दुःखिताः ॥ 2.47.2 ॥
ते विषादार्तवदना रहितास्तेन धीमता।
कृपणाः करुणा वाचो वदन्ति स्म मनस्विनः ॥ 2.47.3 ॥
धिगस्तु खलु निद्रां तां ययापहृतचेतसः।
नाद्य पश्यामहे रामं पृथूरस्कं महाभुजम् ॥ 2.47.4 ॥
कथं नाम महाबाहुः स तथा वितथक्रियः।
भक्तं जनं परित्यज्य प्रवासं राघवो गतः ॥ 2.47.5 ॥
यो नः सदा पालयति पिता पुत्रानिवौरसान्।
कथं रघूणां स श्रेष्ठस्त्यक्त्वा नो विपिनं गतः ॥ 2.47.6 ॥
इहैव निधनं यामो महाप्रस्थानमेव वा।
रामेण रहितानां हि किमर्थं जीवितं हि नः ॥ 2.47.7 ॥
सन्ति शुष्काणि काष्ठानि प्रभूतानि महान्ति च।
तैः प्रज्वाल्य चितां सर्वे प्रविशामोऽथ पावकम् ॥ 2.47.8 ॥
किं वक्ष्यामौ महाबाहुरनसूयः प्रियंवदः।
नीतः स राघवोऽस्माभिरिति वक्तुं कथं क्षमम् ॥ 2.47.9 ॥
सा नूनं नगरी दीना दृष्ट्वास्मान् राघवं विना।
भविष्यति निरानन्दा सस्त्रीबालवयोधिका ॥ 2.47.10 ॥
निर्यातस्तेन वीरेण सह नित्यं जितात्मना।
विहीनास्तेन च पुनः कथं पश्याम तां पुरीम् ॥ 2.47.11 ॥
इतीव बहुधा वाचो बाहुमुद्यम्य ते जनाः।
विलपन्ति स्म दुःखार्ता विवत्सा इव धेनवः ॥ 2.47.12 ॥
ततो मार्गानुसारेण गत्वा किञ्चित्क्षणं पुनः।
मार्गनाशाद् विषादेन महता समभिप्लुताः ॥ 2.47.13 ॥
रथस्य मार्गनाशेन न्यवर्तन्त मनस्विनः।
किमिदं किं करिष्यामो दैवेनोपहता इति ॥ 2.47.14 ॥
ततो यथागतेनैव मार्गेण क्लान्तचेतसः।
अयोध्यामगमन् सर्वे पुरीं व्यथितसज्जनाम् ॥ 2.47.15 ॥
आलोक्य नगरीं तां च क्षयव्याकुलमानसाः।
अवर्तयन्त तेऽश्रूणि नयनैश्शोकपीडितैः ॥ 2.47.16 ॥
एषा रामेण नगरी रहिता नातिशोभते।
आपगा गरुडेनेव ह्रदादुद्धृतपन्नगा ॥ 2.47.17 ॥
चन्द्रहीनमिवाकाशं तोयहीनमिवार्णवम्।
अपश्यन्निहतानन्दं नगरं ते विचेतसः ॥ 2.47.18 ॥
ते तानि वेश्मानि महाधनानि दुःखेन दुःखोपहता विशन्तः।
नैव प्रजज्ञुः स्वजनं जनं वा निरीक्षमाणाः प्रविनष्टहर्षाः ॥ 2.47.19 ॥