०४६ पौरान् विहाय रामादीनां गमनम्

ततस्तु तमसातीरं रम्यमाश्रित्य राघवः।
सीतामुद्वीक्ष्य सौमित्रिमिदं वचनमब्रवीत् ॥ 2.46.1 ॥
इयमद्य निशा पूर्वा सौमित्रे प्रहिता वनम्।
वनवासस्य भद्रं ते स नोत्कण्ठितुमर्हसि ॥ 2.46.2 ॥
पश्य शून्यान्यरण्यानि रुदन्तीव समन्ततः।
यथानिलयमायद्भिर्निलीनानि मृगद्विजैः ॥ 2.46.3 ॥
अद्यायोध्या तु नगरी राजधानी पितुर्मम।
सस्त्रीपुंसागतानस्मान् शोचिष्यति न संशयः ॥ 2.46.4 ॥
अनुरक्ता हि मनुजा राजानं बहुभिर्गुणैः।
त्वां च मां च नरव्याघ्र शत्रुघ्नभरतौ तथा ॥ 2.46.5 ॥
पितरं चानुशोचामि मातरं च यशस्विनीम्।
अपि वाऽन्धौ भवेतां तु रुदन्तौ तावभीक्ष्णशः ॥ 2.46.6 ॥
भरतः खलु धर्मात्मा पितरं मातरं च मे।
धर्मार्थकामसहितैर्वाक्यैराश्वासयिष्यति ॥ 2.46.7 ॥
भरतस्यानृशंसत्वं विचिन्त्याहं पुनःपुनः।
नानुशोचामि पितरं मातरं चापि लक्ष्मण ॥ 2.46.8 ॥
त्वया कार्यं नरव्याघ्र मामनुव्रजता कृतम्।
अन्वेष्टव्या हि वैदेह्या रक्षणार्थे सहायता ॥ 2.46.9 ॥
अद्भिरेव तु सौमित्रे वत्स्याम्यद्य निशामिमाम्।
एतद्धि रोचते मह्यं वन्येऽपि विविधे सति ॥ 2.46.10 ॥
एवमुक्त्वा तु सौमित्रिं सुमन्त्रमपि राघवः।
अप्रमत्तस्त्वमश्वेषु भव सौम्येत्युवाच ह ॥ 2.46.11 ॥
सोऽश्वान् सुमन्त्रः संयम्य सूर्येऽस्तं समुपागते।
प्रभूतयवसान् कृत्वा बभूव प्रत्यनन्तरः ॥ 2.46.12 ॥
उपास्य तु शिवां सन्ध्यां दृष्ट्वा रात्रिमुपस्थिताम्।
रामस्य शयनं चक्रे सूतः सौमित्रिणा सह ॥ 2.46.13 ॥
तां शय्यां तमसातीरे वीक्ष्य वृक्षदलैः कृताम्।
रामः सौमित्रिणा सार्द्धं सभार्यः संविवेश ह ॥ 2.46.14 ॥
सभार्यं सम्प्रसुप्तं तं भ्रातरं वीक्ष्य लक्ष्मणः।
कथयामास सूताय रामस्य विविधान् गुणान् ॥ 2.46.15 ॥
जाग्रतो ह्येव तां रात्रिं सौमित्रेरुदितो रविः।
सूतस्य तमसातीरे रामस्य ब्रुवतो गुणान् ॥ 2.46.16 ॥
गोकुलाकुलतीरायास्तमसाया विदूरतः।
अवसत्तत्र तां रात्रिं रामः प्रकृतिभिः सह ॥ 2.46.17 ॥
उत्थाय तु महातेजाः प्रकृतीस्ता निशाम्य च।
अब्रवीद्भ्रातरं रामो लक्ष्मणं पुण्यलक्षणम् ॥ 2.46.18 ॥
अस्मद्व्यपेक्षान् सौमित्रे निरपेक्षान् गृहेष्वपि।
वृक्षमूलेषु संसुप्तान् पश्य लक्ष्मण साम्प्रतम् ॥ 2.46.19 ॥
यथैते नियमं पौराः कुर्वन्त्यस्मन्निवर्त्तने।
अपि प्राणानसिष्यन्ति न तु त्यक्ष्यन्ति निश्चयम् ॥ 2.46.20 ॥
यावदेव तु संसुप्तास्तावदेव वयं लघु।
रथमारुह्य गच्छाम पन्थानमकुतोभयम् ॥ 2.46.21 ॥
अतो भूयोऽपि नेदानीमिक्ष्वाकुपुरवासिनः।
स्वपेयुरमुरक्ता मां वृक्षमूलानि संश्रिताः ॥ 2.46.22 ॥
पौरा ह्यात्मकृताद्दुःखाद्विप्रमोक्ष्या नृपात्मजैः।
न ते खल्वात्मना योज्या दुःखेन पुरवासिनः ॥ 2.46.23 ॥
अब्रवील्लक्ष्मणो रामं साक्षाद्धर्ममिव स्थितम्।
रोचते मे तथा प्राज्ञ क्षिप्रमारुह्यतामिति ॥ 2.46.24 ॥
अथ रामोऽब्रवीच्छ्रीमान् सुमन्त्रं युज्यतां रथः।
गमिष्यामि ततोऽरण्यं गच्छ शीघ्रमितः प्रभो ॥ 2.46.25 ॥
सूतस्ततः सन्त्वरितः स्यन्दनं तैर्हयोत्तमैः।
योजयित्वाथ रामाय प्राञ्जलिः प्रत्यवेदयत् ॥ 2.46.26 ॥
अयं युक्तो महाबाहो रथस्ते रथिनां वर।
तमारोह सुभद्रं ते ससीतः सहलक्ष्मणः ॥ 2.46.27 ॥
तं स्यन्दनमधिष्ठाय राघवः सपरिच्छदः।
शीघ्रगामाकुलावर्त्तां तमसामतरन्नदीम् ॥ 2.46.28 ॥
स सन्तीर्य्य महाबाहुः श्रीमान् शिवमकण्टकम्।
प्रापद्यत महामार्गमभयं भयदर्शिनाम् ॥ 2.46.29 ॥
मोहनार्थं तु पौराणां सूतं रामोऽब्रवीद्वचः।
उदङ्मुखः प्रयाहि त्वं रथमास्थाय सारथे ॥ 2.46.30 ॥
मुहूर्तं त्वरितं गत्वा निवर्तय रथं पुनः।
यथा न विद्युः पौरा मां तथा कुरु समाहितः ॥ 2.46.31 ॥
रामस्य वचनं श्रुत्वा तथा चक्रे स सारथिः।
प्रत्यागम्य च रामस्य स्यन्दनं प्रत्यवेदयत् ॥ 2.46.32 ॥
तौ सम्प्रयुक्तं तु रथं समास्थितौ तदा ससीतौ रघुवंशवर्द्धनौ।
प्रचोदयामास ततस्तुरङ्गमान् स सारथिर्येन पथा तपोवनम् ॥ 2.46.33 ॥
ततः समास्थाय रथं महारथः ससारथिर्दाशरथिर्वनं ययौ।
उदङ्मुखं तं तु रथं चकार स प्रयाणमाङ्गल्यनिमित्तदर्शनात् ॥ 2.46.34 ॥