विलपन्तीं तथा तां तु कौसल्यां प्रमदोत्तमाम्।
इदं धर्म्ये स्थिता धर्म्यं सुमित्रा वाक्यमब्रवीत् ॥ 2.44.1 ॥
तवार्ये सद्गुणैर्युक्तः स पुत्रः पुरुषोत्तमः।
किं ते विलपितेनैवं कृपणं रुदितेन वा ॥ 2.44.2 ॥
यस्तवार्ये गतः पुत्रस्त्यक्त्वा राज्यं महाबलः।
साधु कुर्वन् महात्मानं पितरं सत्यवादिनम् ॥ 2.44.3 ॥
शिष्टैराचरिते सम्यक्छश्वत् प्रेत्यफलोदये।
रामो धर्मे स्थितः श्रेष्ठो न स शोच्यः कदाचन ॥ 2.44.4 ॥
वर्त्तते चोत्तमां वृत्तिं लक्ष्मणोऽस्मिन् सदाऽनघः।
दयावान् सर्वभूतेषु लाभस्तस्य महात्मनः ॥ 2.44.5 ॥
अरण्यवासेव यद्दुःखं जानती वै सुखोचिता।
अनुगच्छति वैदेही धर्मात्मानं तवात्मजम् ॥ 2.44.6 ॥
कीर्त्तिभूतां पताकां यो लोके भ्रमयति प्रभुः।
धर्मसत्यव्रतधनः किं न प्राप्तस्तवात्मजः ॥ 2.44.7 ॥
व्यक्तं रामस्य विज्ञाय शौचं माहात्म्यमुत्तमम्।
न गात्रमंशुभिः सूर्यः सन्तापयियुमर्हति ॥ 2.44.8 ॥
शिवः सर्वेषु कालेषु काननेभ्यो विनिस्सृतः।
राघवं युक्तशीतोष्णः सेविष्यति सुखोऽनिलः ॥ 2.44.9 ॥
शयानमनघं रात्रौ पितेवाभिपरिष्वजन्।
रश्मिभिः संस्पृशन् शीतैश्चन्द्रमा ह्लादयिष्यति ॥ 2.44.10 ॥
ददौ चास्त्राणि दिव्यानि यस्मै ब्रह्मा महौजसे।
दानवेन्द्रं हतं दृष्ट्वा तिमिध्वजसुतं रणे ॥ 2.44.11 ॥
स शूरः पुरुषव्याघ्रः स्वबाहुबलमाश्रितः।
असन्त्रस्तोप्यरण्यस्थो वेश्मनीव निवत्स्यति ॥ 2.44.12 ॥
यस्येषुपथमासाद्य विनाशं यान्ति शत्रवः।
कथं न पृथिवी तस्य शासने स्थातुमर्हति ॥ 2.44.13 ॥
या श्रीः शौर्यं च रामस्य या च कल्याणसत्त्वता।
निवृत्तारण्यवासः स क्षिप्रं राज्यमवाप्स्यति ॥ 2.44.14 ॥
सूर्यस्यापि भवेत् सूर्यो ह्यग्नेरग्निः प्रभोः प्रभुः।
श्रियः श्रीश्च भवेद्ग्र्या कीर्तिः कीर्त्याः क्षमाक्षमा ॥ 2.44.15 ॥
दैवतं दैवतानां च भूतानां भूतसत्तमः।
तस्य के ह्यगुणा देवि राष्ट्रे वाप्यथवा पुरे ॥ 2.44.16 ॥
पृथिव्या सह वैदेह्या श्रिया च पुरुषर्षभः।
क्षिप्रं तिसृभिरेताभिः स ह रामोऽभिषेक्ष्यते ॥ 2.44.17 ॥
दुःखजं विसृजत्यास्रं निष्क्रामन्तमुदीक्ष्य यम्।
अयोध्यायां जनाः सर्वे शोकवेगसमाहताः ॥ 2.44.18 ॥
कुशचीरधरं देवं गच्छन्तमपराजितम्।
सीतेवानुगता लक्ष्मीः तस्य किन्नाम दुर्ल्लभम् ॥ 2.44.19 ॥
धनुर्ग्रहवरो यस्य बाणखड्गास्त्रभृत्स्वयम्।
लक्ष्मणो व्रजति ह्यग्रे तस्य किन्नाम दुर्ल्लभम् ॥ 2.44.20 ॥
निवृत्तवनवासं तं द्रष्टासि पुनरागतम्।
जहि शोकं च मोहं च देवि सत्यं ब्रवीमिते ॥ 2.44.21 ॥
शिरसा चरणावेतौ वन्दमानमनिन्दिते।
पुनर्द्रक्ष्यसि कल्याणि पुत्रं चन्द्रमिवोदितम् ॥ 2.44.22 ॥
पुनः प्रविष्टं दृष्ट्वा तमभिषिक्तं महाश्रियम्।
समुत्स्रक्ष्यसि नेत्राभ्यां क्षिप्रमानन्दजं पयः ॥ 2.44.23 ॥
क्षिप्रं द्रक्ष्यसि पुत्रं तं ससीतं सहलक्ष्मणम्।
मा शोक इति।हे देवि ! रामे अशिवम् अशुभम् न दृश्यते।अतः शोकः प्रलापादिः दुःखं मनोव्यथा वा मा न कार्यमित्यर्थः** ॥ 2.44.24 ॥
त्वयाऽशेषो जनश्चैव समाश्वास्यो यदाऽनघे।
किमिदानीमिमं देवि करोषि हृदि विक्लवम् ॥ 2.44.25 ॥
नार्हा त्वं शोचितुं देवि यस्यास्ते राघवः सुतः।
न हि रामात्परो लोके विद्यते सत्पथे स्थितः ॥ 2.44.26 ॥
अभिवादयमानं तं दृष्ट्वा ससुहृदं सुतम्।
मुदाश्रु मोक्ष्यसे क्षिप्रं मेघलेखेव वार्षिकी ॥ 2.44.27 ॥
पुनस्ते वरदः क्षिप्रमयोध्यां पुनरागतः।
पाणिभ्यां मृदुपीनाभ्यां चरणौ पीडयिष्यति ॥ 2.44.28 ॥
अभिवाद्यनमस्यन्तं शूरं ससुहृदं सुतम्।
मुदास्रैः प्रोक्ष्यसि पुनर्मेघराजिरिवाचलम् ॥ 2.44.29 ॥
आश्वासयन्ती विविधैश्च वाक्यैर्वाक्योपचारे कुशलाऽनवद्या।
रामस्य तां मातरमेवमुक्त्वा देवी सुमित्रा विरराम रामा ॥ 2.44.30 ॥
निशम्य तल्लक्ष्मणमातृवाक्यं रामस्य मातुर्नरदेवपत्न्याः।
सद्यः शरीरे विननाश शोकः शरद्गतो मेघ इवाल्पतोयः ॥ 2.44.31 ॥