०४३ कौसल्याक्रोशः

ततः समीक्ष्य शयने सन्नं शोकेन पार्थिवम्।
कौसल्या पुत्रशोकार्त्ता तमुवाच महीपतिम् ॥ 2.43.1 ॥
राघवे नरशार्दूले विषमुप्त्वा विजिह्मताम्।
विचरिष्यति कैकेयी निर्मुक्तेव हि पन्नगी ॥ 2.43.2 ॥
विवास्य रामं सुभगा लब्धकामा समाहिता।
त्रासयिष्यति मां भूयो दुष्टाहिरिव वेश्मनि ॥ 2.43.3 ॥
अथ स्म नगरे रामश्चरन् भैक्षं गृहे वसेत्।
कामकारो वरं दातुमपि दासं ममात्मजम् ॥ 2.43.4 ॥
पातयित्वा तु कैकेय्या रामं स्थानाद्यथेष्टतः।
प्रदिष्टो रक्षसां भागः पर्वणीवाहिताग्निना ॥ 2.43.5 ॥
गजराजगतिर्वीरो महाबाहुर्धनुर्धरः।
वनमाविशते नूनं सभार्यः सहलक्ष्मणः ॥ 2.43.6 ॥
वने त्वदृष्टदुःखानां कैकेय्यानुमते त्वया।
त्यक्तानां वनवासाय कान्ववस्था भविष्यति ॥ 2.43.7 ॥
ते रत्नहीनास्तरुणाः फलकाले विवासिताः।
कथं वत्स्यन्ति कृपणः फलमूलैः कृताशनाः ॥ 2.43.8 ॥
अपीदानीं स कालः स्यान्मम शोकक्षयः शिवः।
सभार्य्यं यत्सह भ्रात्रा पश्येयमिह राघवम् ॥ 2.43.9 ॥
सुप्त्वेवोपस्थितौ वीरौ कदायोध्यां गमिष्यतः।
यशस्विनी हृष्टजना सूच्छ्रितध्वजमालिनी ॥ 2.43.10 ॥
कदा प्रेक्ष्य नरव्याघ्रावरण्यात् पुनरागतौ।
नन्दिष्यति पुरी हृष्टा समुद्र इव पर्वणि ॥ 2.43.11 ॥
कदायोध्यां महाबाहुः पुरीं वीरः प्रवेक्ष्यति।
पुरस्कृत्य रथे सीतां वृषभो गोवधूमिव ॥ 2.43.12 ॥
कदा प्राणिसहस्राणि राजमार्गे ममात्मजौ।
लाजैरवकिरिष्यन्ति प्रविशन्तावरिन्दमौ ॥ 2.43.13 ॥
प्रविशन्तौ कदायोध्यां द्रक्ष्यामि शुभकुण्डलौ।
उदग्रायुधनिस्त्रिंशौ सशृङ्गाविव पर्वतौ ॥ 2.43.14 ॥
कदा सुमनसः कन्या द्विजातीनां फलानि च।
प्रदिशन्त्यः पुरीं हृष्टाः करिष्यन्ति प्रदक्षिणम् ॥ 2.43.15 ॥
कदा परिणतो बुद्ध्या वयसा चामरप्रभः।
अभ्युपैष्यति धर्मज्ञस्त्रिवर्ष इव लालयन् ॥ 2.43.16 ॥
निस्संशयं मया मन्ये पुरा वीर कदर्यया।
पातुकामेषु वत्सेषु मातॄणां शासिताः स्तनाः ॥ 2.43.17 ॥
साहं गौरिव सिंहेन विवत्सा वत्सला कृता।
कैकेय्या पुरुषव्याघ्र बलावत्सेव गौर्बलात् ॥ 2.43.18 ॥
न हि तावद्गुणैर्जुष्टं सर्वशास्त्रविशारदम्।
एकपुत्रा विना पुत्रमहं जीवितुमुत्सहे ॥ 2.43.19 ॥
न हि मे जीविते किञ्चित् सामर्थ्यमिह कल्प्यते।
अपश्यन्त्याः प्रियः पुत्रं महाबाहुं महाबलम् ॥ 2.43.20 ॥
अयं हि मां दीपयते समुत्थितस्तनूजशोकप्रभवो हुताशनः।
महीमिमां रश्मिभिरुद्धतप्रभो यथा निदाघे भगवान् दिवाकरः ॥ 2.43.21 ॥