यावत्तु निर्यतस्तस्य रजोरूपमदृश्यत।
नैवेक्ष्वाकुवरस्तावत्सञ्जहारात्मचक्षुषी ॥ 2.42.1 ॥
यावद्राजा प्रियं पुत्रं पश्यत्यत्यन्तधार्मिकम्।
तावद्व्यवर्द्धतेवास्य धरण्यां पुत्रदर्शने ॥ 2.42.2 ॥
न पश्यति रजोप्यस्य यदा रामस्य भूमिपः।
तदार्तश्च विषण्णश्च पपात धरणीतले ॥ 2.42.3 ॥
तस्य दक्षिणमन्वागात् कौसल्या बाहुमङ्गना।
वामं चास्यान्वगात् पार्श्वं कैकेयी भरतप्रिया ॥ 2.42.4 ॥
तां नयेन च सम्पन्नो धर्मेण विनयेन च।
उवाच राजा कैकेयीं समीक्ष्य व्यथितेन्द्रियः ॥ 2.42.5 ॥
कैकेयि मा ममाङ्गानि स्प्राक्षीस्त्वं दुष्टचारिणी।
न हि त्वां द्रष्टुमिच्छामि न भार्या न च बान्धवी ॥ 2.42.6 ॥
ये च त्वामनुजीवन्ति नाहं तेषां न ते मम।
केवलार्थपरां हि त्वां त्यक्तधर्मां त्यजाम्यहम् ॥ 2.42.7 ॥
अगृह्णां यच्च ते पाणिमग्निं पर्यणयं च यत्।
अनुजानामि तत्सर्वमस्मिंल्लोके परत्र च ॥ 2.42.8 ॥
भरतश्चेत् प्रतीतः स्याद्राज्यं प्राप्येदमव्ययम्।
यन्मे स दद्यात्प्रीत्यर्थं मां मा तद्दत्तमागमत् ॥ 2.42.9 ॥
अथ रेणुसमुध्वस्तं तमुत्थाप्य नराधिपम्।
न्यवर्त्तत तदा देवी कौसल्या शोककर्शिता ॥ 2.42.10 ॥
हत्वेव ब्राह्मणं कामात् स्पृष्ट्वाग्निमिव पाणिना।
अन्वतप्यत धर्मात्मा पुत्रं सञ्चिन्त्य तापसम् ॥ 2.42.11 ॥
निवृत्त्यैव निवृत्त्यैव सीदतो रथवर्त्मसु।
राज्ञो नातिबभौ रूपं ग्रस्तस्यांशुमतो यथा ॥ 2.42.12 ॥
विललाप च दुःखार्त्तः प्रियं पुत्रमनुस्मरन्।
नगरान्तमनुप्राप्तं बुद्ध्वा पुत्रमथाब्रवीत् ॥ 2.42.13 ॥
वाहनानां च मुख्यानां वहतां त ममात्मजम्।
पदानि पथि दृश्यन्ते स महात्मा न दृश्यते ॥ 2.42.14 ॥
यः सुखेषूपधानेषु शेते चन्दनरूषितः।
वीज्यमानो महार्हाभिः स्त्रीभिर्मम सुतोत्तमः ॥ 2.42.15 ॥
स नूनं क्वचिदेवाद्य वृक्षमूलमुपाश्रितः।
काष्ठं वा यदि वाश्मानमुपधाय शयिष्यते ॥ 2.42.16 ॥
उत्थास्यति च मेदिन्याः कृपणः पांसुकुण्ठितः।
विनिश्वसन् प्रस्रवणात् करेणूनामिवर्षभः ॥ 2.42.17 ॥
द्रक्ष्यन्ति नूनं पुरुषा दीर्घबाहुं वनेचराः।
राममुत्थाय गच्छन्तं लोकनाथमनाथवत् ॥ 2.42.18 ॥
सा नूनं जनकस्येष्टा सुता सुखसदोचिता।
कण्टकाक्रमणाक्रान्ता वनमद्य गमिष्यति ॥ 2.42.19 ॥
अनभिज्ञा वनानां सा नूनं भयमुपैष्यति।
श्वापदानर्दितं श्रुत्वा गम्भीरं रोमहर्षणम् ॥ 2.42.20 ॥
सकामा भव कैकेयि विधवा राज्यमावस।
न हि तं पुरुषव्याघ्रं विना जीवितुमुत्सहे ॥ 2.42.21 ॥
इत्येवं विलपन् राजा जनौघेनाभिसंवृतः।
अपस्नात इवारिष्टं प्रविवेश पुरोत्तमम् ॥ 2.42.22 ॥
शून्यचत्वरवेश्मान्तां संवृतापणदेवताम्।
क्लान्तदुर्बलदुःखार्त्तां नात्याकीर्णमहापथाम् ॥ 2.42.23 ॥
तामवेक्ष्य पुरीं सर्वां राममेवानुचिन्तयन्।
विलपन् प्राविशद्राजा गृहं सूर्य इवाम्बुदम् ॥ 2.42.24 ॥
महाह्रदमिवाक्षोभ्यं सुपर्णेन हृतोरगम्।
रामेण रहितं वेश्म वैदेह्या लक्ष्मणेन च ॥ 2.42.25 ॥
अथ गद्गदशब्दस्तु विलपन् मनुजाधिपः।
उवाच मृदु मन्दार्थं वचनं दीनमस्वरम् ॥ 2.42.26 ॥
कौसल्याया गृहं शीघ्रं राममातुर्नयन्तु माम्।
न ह्यन्यत्र ममाश्वासो हृदयस्य भविष्यति ॥ 2.42.27 ॥
इति ब्रुवन्तं राजानमनयन् द्वारदर्शिनः।
कौसल्याया गृहं तत्र न्यवेश्यत विनीतवत् ॥ 2.42.28 ॥
ततस्तस्य प्रविष्टस्य कौसल्याया निवेशनम्।
अधिरुह्यापि शयनं बभूव लुलितं मनः ॥ 2.42.29 ॥
पुत्रद्वयविहीनं च स्नुषयापि विवर्जितम्।
अपश्यद्भवनं राजा नष्टचन्द्रमिवाम्बरम् ॥ 2.42.30 ॥
तच्च दृष्ट्वा महाराजो भुजमुद्यम्य वीर्यवान्।
उच्चैः स्वरेण चुक्रोश हा राघव जहासि माम् ॥ 2.42.31 ॥
सुखिता बत तं कालं जीविष्यन्ति नरोत्तमाः।
परिष्वजन्तो ये रामं द्रक्ष्यन्ति पुनरागतम् ॥ 2.42.32 ॥
अथ रात्र्यां प्रपन्नायां कालरात्र्यामिवात्मनः।
अर्द्धरात्रे दशरथः कौसल्यामिदमब्रवीत् ॥ 2.42.33 ॥
रामं मेऽनुगता दृष्टिरद्यापि न निवर्त्तते।
न त्वा पश्यामि कौसल्ये साधु मा पाणिना स्पृश ॥ 2.42.34 ॥
तं राममेवानुविचिन्तयन्तं समीक्ष्य देवी शयने नरेन्द्रम्।
उपोपविश्याधिकमार्तरूपा विनिश्वसन्ती विललाप कृच्छ्रम् ॥ 2.42.35 ॥