तस्मिंस्तु पुरुषव्याघ्रे विनिर्याते कृताञ्जलौ।
आर्तशब्दोऽथ सञ्जज्ञे स्त्रीणामन्तःपुरे महान् ॥ 2.41.1 ॥
अनाथस्य जनस्यास्य दुर्बलस्य तपस्विनः।
यो गतिः शरणं चासीत् स नाथः क्वनु गच्छति ॥ 2.41.2 ॥
न क्रुद्ध्यत्यभिशप्तोपि क्रोधनीयानि वर्जयन्।
क्रुद्धान् प्रसादयन् सर्वान् समदुःखः क्वचिद्गतः ॥ 2.41.3 ॥
कौसल्यायां महातेजा यथा मातरि वर्तते।
तथा यो वर्त्ततेऽस्मासु महात्मा क्वनु गच्छति ॥ 2.41.4 ॥
कैकेय्या क्लिश्यमानेन राज्ञा सञ्चोदितो वनम्।
परित्राता जनस्यास्य जगतः क्वनु गच्छति ॥ 2.41.5 ॥
अहो निश्चेतनो राजा जीवलोकस्य सम्प्रियम्।
धर्म्यं सत्यव्रतं रामं वनवासे प्रवत्स्यति ॥ 2.41.6 ॥
इति सर्वा महिष्यस्ता विवत्सा इव धेनवः।
रुरुदुश्चैव दुःखार्त्ताः सस्वरं च विचुक्रुशुः ॥ 2.41.7 ॥
स तमन्तःपुरे घोरमार्तशब्दं महीपतिः।
पुत्रशोकाभिसन्तप्तः श्रुत्वा चासीत् सुदुःखितः ॥ 2.41.8 ॥
नाग्निहोत्राण्यहूयन्त नापचन् गृहमेधिनः।
अकुर्वन्नप्रजाः कार्यं सूर्यश्चान्तरधीयत ॥ 2.41.9 ॥
व्यसृजन् कवलान्नागा गावो वत्सान्न पाययन्।
पुत्रं प्रथमजं लब्ध्वा जननीनाभ्यनन्दत ॥ 2.41.10 ॥
त्रिशङ्कुर्लोहिताङ्गश्च बृहस्पतिबुधावपि।
दारुणाः सोममभ्येत्य ग्रहाः सर्वे व्यवस्थिताः ॥ 2.41.11 ॥
नक्षत्राणि गतार्चीषि ग्रहाश्च गततेजसः।
विशाखास्तु सधूमाश्च नभसि प्रचकाशिरे ॥ 2.41.12 ॥
कालिकानिलवेगेन महोदधिरिवोत्थितः।
रामे वनं प्रव्रजिते नगरं प्रचचाल तत् ॥ 2.41.13 ॥
दिशः पर्याकुलाः सर्वास्तिमिरेणेव संवृताः।
न ग्रहो नापि नक्षत्रं प्रचकाशे न किञ्चन ॥ 2.41.14 ॥
अकस्मान्नागरः सर्वो जनो दैन्यमुपागमत्।
आहारे वा विहारे वा न कश्चिदकरोन्मनः ॥ 2.41.15 ॥
शोकपर्यायसन्तप्तः सततं दीर्घमुच्छ्वसन्।
अयोध्यायां जनः सर्वः शुशोच जगतीपतिम् ॥ 2.41.16 ॥
बाष्पपर्याकुलमुखो राजमार्गगतो जनः।
न हृष्टो लक्ष्यते कश्चित्सर्वः शोकपरायणः ॥ 2.41.17 ॥
न वाति पवनः शीतो न शशी सौम्यदर्शनः।
न सूर्यस्तपते लोकं सर्वं पर्याकुलं जगत् ॥ 2.41.18 ॥
अनर्थिनः सुताः स्त्रीणां भर्त्तारो भ्रातरस्तथा।
सर्वे सर्वं परित्यज्य राममेवान्वचिन्तयन् ॥ 2.41.19 ॥
ये तु रामस्य सुहृदः सर्वे ते मूढचेतसः।
शोकभारेण चाक्रान्ताः शयनं न जहुस्तदा ॥ 2.41.20 ॥
ततस्त्वयोध्या रहिता महात्मना पुरन्दरेणेव मही सपर्वता।
चचाल घोरं भयशोकपीडिता सनागयोधाश्वगणा ननाद च ॥ 2.41.21 ॥