अथ रामश्च सीता च लक्ष्मणश्च कृताञ्जलिः।
उपसङ्गृह्य राजानं चक्रुर्दीनाः प्रदक्षिणम् ॥ 2.40.1 ॥
तं चापि समनुज्ञाप्य धर्मज्ञः सीतया सह।
राघवः शोकसम्मूढो जननीमभ्यवादयत् ॥ 2.40.2 ॥
अन्वक्षं लक्ष्मणो भ्रातुः कौसल्यामभ्यवादयत्।
अथ मातुः सुमित्राया जग्राह चरणौ पुनः ॥ 2.40.3 ॥
तं वन्दमानं रुदती माता सौमित्रिमब्रवीत्।
हितकामा महाबाहुं मूर्ध्न्युपाघ्राय लक्ष्मणम् ॥ 2.40.4 ॥
सृष्टस्त्वं वनवासाय स्वनुरक्तः सुहृज्जने।
रामे प्रमादं मा कार्षीः पुत्र भ्रातरि गच्छति ॥ 2.40.5 ॥
व्यसनी वा समृद्धो वा गतिरेष तवानघ।
एष लोके सतां धर्मो यज्ज्येष्ठवशगो भवेत् ॥ 2.40.6 ॥
इदं हि वृत्तमुचितं कुलस्यास्य सनातनम्।
दानं दीक्षा च यज्ञेषु तनुत्यागो मृधेषु च ॥ 2.40.7 ॥
लक्ष्मणं त्वेवमुक्त्वा सा संसिद्धं प्रियराघवम्।
सुमित्रा गच्छगच्छेति पुनःपुनरुवाच तम् ॥ 2.40.8 ॥
*रामं दशरथं विद्धि मां विद्धि जनकात्मजाम्।
अयोध्यामटवीं विद्धि गच्छ तात यथासुखम् ॥ 2.40.9 ॥
ततः सुमन्त्रः काकुत्स्थं प्राञ्चलिर्वाक्यमब्रवीत्।
विनीतो विनयज्ञश्च मातलिर्वासवं यथा ॥ 2.40.10 ॥
रथमारोह भद्रं ते राजपुत्र महायशः।
क्षिप्रं त्वां प्रापयिष्यामि यत्र मां राम वक्ष्यसि ॥ 2.40.11 ॥
चतुर्दश हि वर्षाणि वस्तव्यानि वने त्वया।
तान्युपक्रमितव्यानि यानि देव्याऽसि चोदितः ॥ 2.40.12 ॥
तं रथं सूर्यसङ्काशं सीता हृष्टेन चेतसा।
आरुरोह वरारोहा कृत्वालङ्कारमात्मनः ॥ 2.40.13 ॥
*अथो ज्वलनसङ्काशं चामीकरविभूषितम्।
तमारुरुहतुस्तूर्णं भ्रातरौ रामलक्ष्मणौ ॥ 2.40.14 ॥
वनवासं हि सङ्ख्याय वासांस्याभरणानि च।
भर्तारमनुगच्छन्त्यै सीतायै श्वशुरो ददौ ॥ 2.40.15 ॥
तथैवायुधजालानि भ्रातृभ्यां कवचानि च।
रथोपस्थे प्रतिन्यस्य सचर्म कठिनं च तत् ॥ 2.40.16 ॥
सीतातृतीयानारूढान् दृष्ट्वा धृष्टमचोदयत्।
सुमन्त्रः सम्मतानश्वान् वायुवेगसमान् जवे ॥ 2.40.17 ॥
प्रतियाते महारण्यं चिररात्राय राघवे।
बभूव नगरे मूर्च्छा बलमूर्च्छा जनस्य च ॥ 2.40.18 ॥
तत्समाकुलसम्भ्रान्तं मत्तसङ्कुपितद्विपम्।
हयशिञ्जितनिर्घाषं पुरमासीन्महास्वनम् ॥ 2.40.19 ॥
ततः सबालवृद्धा सा पुरी परमपीडिता।
राममेवाभिदुद्राव घर्मार्त्ता सलिलं यथा ॥ 2.40.20 ॥
पार्श्वतः पृष्ठतश्चापि लम्बमानास्तदुन्मुखाः।
बाष्पपूर्णमुखाः सर्वे तमूचुर्भृशनिस्वनाः ॥ 2.40.21 ॥
संयच्छ वाजिनां रश्मीन् सूत याहि शनैः शनैः।
मुखं द्रक्ष्याम रामस्य दुर्दर्शं नो भविष्यति ॥ 2.40.22 ॥
आयसं हृदयं नूनं राममातुरसंशयम्।
यद्देवगर्भप्रतिमे वनं यानि न भिद्यते ॥ 2.40.23 ॥
कृतकृत्या हि वैदेही छायेवानुगता पतिम्।
न जहाति रता धर्मे मेरुमर्कप्रभा यथा ॥ 2.40.24 ॥
अहो लक्ष्मण सिद्धार्थः सततं प्रियवादिनम्।
भ्रातरं देवसङ्काशं यस्त्वं परिचरिष्यसि ॥ 2.40.25 ॥
महत्येषा हि ते सिद्धिरेष चाभ्युदयो महान्।
एष स्वर्गस्य मार्गश्च यदेनमनुगच्छसि ॥ 2.40.26 ॥
एवं वदन्तस्ते सोढुं न शेकुर्बाष्पमागतम्।
नरास्तमनुगच्छन्तः प्रियमिक्ष्वाकुनन्दनम् ॥ 2.40.27 ॥
अथ राजा वृतः स्त्रीभिर्दीनाभिर्दीनचेतनः।
निर्ज्जगाम प्रियं पुत्रं द्रक्ष्यामीति ब्रुवन् गृहात् ॥ 2.40.28 ॥
शुश्रुवे चाग्रतः स्त्रीणां रुदन्तीनां महास्वनः।
यथा नादः करेणूनां बद्धे महति कुञ्जरे ॥ 2.40.29 ॥
पिता हि राजा काकुत्स्थः श्रीमान् सन्नस्तदाभवत्।
परिपूर्णः शशी काले ग्रहेणोपप्लुतो यथा ॥ 2.40.30 ॥
स च श्रीमानचिन्त्यात्मा रामो दशरथात्मजः।
सूतं सञ्चोदयामास त्वरितं वाह्यतामिति ॥ 2.40.31 ॥
रामो याहीति सूतं तं तिष्ठेति स जनस्तदा।
उभयं नाशकत् सूतं कर्तुमध्वनि चोदितः ॥ 2.40.32 ॥
निर्गच्छति महाबाहौ रामे पौरजनाश्रुभिः।
पतितैरभ्यवहितं प्रशशाम महीरजः ॥ 2.40.33 ॥
रुदिताश्रुपरिद्यूनं हाहाकृतमचेतनम्।
प्रयाणे राघवस्यासीत् पुरं परमपीडितम् ॥ 2.40.34 ॥
सुस्राव नयनैः स्त्रीणामास्रमायाससम्भवम्।
मीनसङ्क्षोभचलितैः सलिलं पङ्कजैरिव ॥ 2.40.35 ॥
दृष्ट्वा तु नृपतिः श्रीमानेकचित्तगतं पुरम्।
निपपातैव दुःखेन हतमूल इव द्रुमः ॥ 2.40.36 ॥
ततो हलहलाशब्दो जज्ञे रामस्य पृष्ठतः।
नराणां प्रेक्ष्य राजानं सीदन्तं भृशदुःखितम् ॥ 2.40.37 ॥
हा रामेति जनाः केचिद्राममातेति चापरे।
अन्तःपुरं समृद्धं च क्रोशन्तः पर्यदेवयन् ॥ 2.40.38 ॥
अन्वीक्षमाणो रामस्तु विषण्णं भ्रान्तचेतसम्।
राजानं मातरं चैव ददर्शानुगतौ पथि ॥ 2.40.39 ॥
स बद्ध इव पाशेन किशोरो मातरं यथा।
धर्मपाशेन सङ्क्षिप्तः प्रकाशं नाभ्युदैक्षत ॥ 2.40.40 ॥
पदातिनौ च यानार्हावदुःखार्हौ सुखोचितौ।
दृष्ट्वा सञ्चोदयामास शीघ्रं याहीति सारथिम् ॥ 2.40.41 ॥
न हि तत् पुरुषव्याघ्रो दुःखजं दर्शनं पितुः।
मातुश्च सहितुं शक्तस्तोत्रार्दित इव द्विपः ॥ 2.40.42 ॥
प्रत्यगारमिवायान्ती वत्सला वत्सकारणात्।
बद्धवत्सा यथा धेनू राममाताऽभ्यधावत ॥ 2.40.43 ॥
तथा रुदन्तीं कौसल्यां रथं तमनुधावतीम्।
क्रोशन्तीं रामरामेति हा सीते लक्ष्मणेति च ॥ 2.40.44 ॥
रामलक्ष्मणसीतार्थं स्रवन्तीं वारि नेत्रजम्।
असकृत् प्रैक्षत सतां नृत्यन्तीमिव मातरम् ॥ 2.40.45 ॥
तिष्ठेति राजा चुक्रोश याहियाहीति राघवः।
सुमन्त्रस्य बभूवात्मा चक्रयोरिव चान्तरा ॥ 2.40.46 ॥
नाश्रौषमिति राजानमुपालब्धोपि वक्ष्यसि।
चिरं दुःखस्य पापिष्ठमिति रामस्तमब्रवीत् ॥ 2.40.47 ॥
रामस्य स वचः कुर्वन्ननुज्ञाप्य च तं जनम्।
व्रजतोपि हयान् शीघ्रं चोदयामास सारथिः ॥ 2.40.48 ॥
न्यवर्त्तत जनो राज्ञो रामं कृत्वा प्रदक्षिणम्।
मनसाप्यश्रुवेगैश्च न न्यवर्त्तत मानुषम् ॥ 2.40.49 ॥
यमिच्छेत् पुनरायान्तं नैनं दूरमनुव्रजेत्।
इत्यमात्या महाराजमूचुर्दशरथं वचः ॥ 2.40.50 ॥
तेषां वचः सर्वगुणोपपन्नं प्रस्विन्नगात्रः प्रविषण्णरूपः।
निशम्य राजा कृपणः सभार्यो व्यवस्थितस्तं सुतमीक्षमाणः ॥ 2.40.51 ॥