रामस्य तु वचः श्रुत्वा मुनिवेषधरं च तम्।
समीक्ष्य सह भार्याभी राजा विगतचेतनः ॥ 2.39.1 ॥
नैनं दुःखेन सन्तप्तः प्रत्यवैक्षत राघवम्।
न चैनमभिसम्प्रेक्ष्य प्रत्यभाषत दुर्मनाः ॥ 2.39.2 ॥
स मुहूर्तमिवासञ्ज्ञो दुःखितश्च महीपतिः।
विललाप महाबाहू राममेवानुचिन्तयन् ॥ 2.39.3 ॥
मन्ये खलु मया पूर्वं विवत्सा बहवः कृताः।
प्राणिनो हिंसिता वापि तस्मादिदमुपस्थितम् ॥ 2.39.4 ॥
न त्वेवानागते काले देहाच्च्यवति जीवितम्।
कैकेय्या क्लिश्यमानस्य मृत्युर्मम न विद्यते ॥ 2.39.5 ॥
योऽहं पावकसङ्काशं पश्यामि पुरतः स्थितम्।
विहाय वसने सूक्ष्मे तापसाच्छादमात्मजम् ॥ 2.39.6 ॥
एकस्याः खलु कैकेय्याः कृतेऽयं क्लिश्यते जनः।
स्वार्थे प्रयतमानायाः संश्रित्य निकृतिं त्विमाम् ॥ 2.39.7 ॥
एवमुक्त्वा तु वचनं बाष्पेण पिहितेन्द्रियः।
रामेति सकृदेवोक्त्वा व्याहर्तुं न शशाक ह ॥ 2.39.8 ॥
सञ्ज्ञां तु प्रतिलभ्यैव मुहूर्त्तात् स महीपतिः।
नेत्राभ्यामश्रुपूर्णाभ्यां सुमन्त्रमिदमब्रवीत् ॥ 2.39.9 ॥
औपवाह्यं रथं युक्त्वा त्वमायाहि हयोत्तमैः।
प्रापयैनं महाभागमितो जनपदात्परम् ॥ 2.39.10 ॥
एवं मन्ये गुणवतां गुणानां फलमुच्यते।
पित्रा मात्रा च यत्साधुर्वीरो निर्वास्यते वनम् ॥ 2.39.11 ॥
राज्ञो वचनमाज्ञाय सुमन्त्रः शीघ्रविक्रमः।
योजयित्वाऽऽययौ तत्र रथमश्वैरलङ्कृतम् ॥ 2.39.12 ॥
तं रथं राजपुत्राय सूतः कनकभूषितम्।
आचचक्षेऽञ्जलिं कृत्वा युक्तं परमवाजिभिः ॥ 2.39.13 ॥
राजा सत्वरमाहूय व्यापृतं वित्तसञ्चये।
उवाच देशकालज्ञं निश्चितं सर्वतः शुचिम् ॥ 2.39.14 ॥
वासांसि च महार्हाणि भूषणानि वराणि च।
वर्षाण्येतानि सङ्ख्याय वैदेह्याः क्षिप्रमानय ॥ 2.39.15 ॥
नरेन्द्रेणैवमुक्तस्तु गत्वा कोशगृहं ततः।
प्रायच्छत् सर्वमाहृत्य सीतायै सममेव तत् ॥ 2.39.16 ॥
सा सुजाता सुजातानि वैदेही प्रस्थिता वनम्।
भूषयामास गात्राणि तैर्विचित्रैर्विभूषणैः ॥ 2.39.17 ॥
व्यराजयत वैदेही वेश्म तत् सुविभूषिता।
उद्यतोऽशुमतः काले खं प्रभेव विवस्वतः ॥ 2.39.18 ॥
तां भुजाभ्यां परिष्वज्य श्वश्रूर्वचनमब्रवीत्।
अनाचरन्तीं कृपणं मूर्ध्न्युपाघ्राय मैथिलीम् ॥ 2.39.19 ॥
असत्यः सर्वलोकेऽस्मिन् सततं सत्कृताः प्रियैः।
भर्त्तारं नानुमन्यन्ते विनिपातगतं स्त्रियः ॥ 2.39.20 ॥
एष स्वभावो नारीणमनुभूय पुरा सुखम्।
अल्पामप्या पदं प्राप्य दुष्यन्ति प्रजहत्यपि ॥ 2.39.21 ॥
असत्यशीला विकृता दुर्ग्राह्यहृदयाः सदा।
युवत्यः पापसङ्कल्पाः क्षणमात्राद्विरागिणः ॥ 2.39.22 ॥
न कुलं न कृतं विद्यां न दत्तं नापि सङ्ग्रहम्।
स्त्रीणां गृह्णाति हृदयमनित्यहृदया हि ताः ॥ 2.39.23 ॥
साध्वीनां हि स्थितानां तु शीले सत्ये श्रुते शमे।
स्त्रीणां पवित्रं परमं पतिरेको विशिष्यते ॥ 2.39.24 ॥
स त्वया नावमन्तव्यः पुत्रः प्रव्राजितो मम।
तव दैवतमस्त्वेष निर्द्धनः सधनोपि वा ॥ 2.39.25 ॥
विज्ञाय वचनं सीता तस्या धर्मार्थसंहितम्।
कृताञ्जलिरुवाचेदं श्वश्रूमभिमुखे स्थिताम् ॥ 2.39.26 ॥
करिष्ये सर्वमेवाहमार्या यदनुशास्ति माम्।
अभिज्ञास्मि यथा भर्तुवर्त्तितव्यं श्रुतं च मे ॥ 2.39.27 ॥
न मामसज्जनेनार्या समानयितुमर्हति।
धर्माद्विचलितुं नाहमलं चन्द्रादिव प्रभा ॥ 2.39.28 ॥
नातन्त्री वाद्यते वीणा नाचक्रो वर्त्तते रथः।
नापतिः सुखमेधेत या स्यादपि शतात्मजा ॥ 2.39.29 ॥
मितं ददाति हि पिता मितं माता मितं सुतः।
अमितस्य हि दातारं भर्तारं का न पूजयेत् ॥ 2.39.30 ॥
साहमेवङ्गता श्रेष्ठाश्रुतधर्मपरावरा।
आर्ये किमवमन्येऽहं स्त्रीणां भर्त्ता हि दैवतम् ॥ 2.39.31 ॥
सीताया वचनं श्रुत्वा कौसल्या हृदयङ्गमम्।
शुद्धसत्त्वा मुमोचाश्रु सहसा दुःखहर्षजम् ॥ 2.39.32 ॥
तां प्राञ्जलिरभिक्रम्य मातृमध्येऽतिसत्कृताम्।
रामः परमधर्मात्मा मातरं वाक्यमब्रवीत् ॥ 2.39.33 ॥
अम्ब मा दुःखिता भूस्त्वं पश्य त्वं पितरं मम।
क्षयो हि वनवासस्य क्षिप्रमेव भविष्यति ॥ 2.39.34 ॥
सुप्तायास्ते गमिष्यन्ति नव वर्षाणि पञ्च च।
सा समग्रमिह प्राप्तं मां द्रक्ष्यसि सुहृद्वृतम् ॥ 2.39.35 ॥
एतावदभिनीतार्थमुक्त्वा स जननीं वचः।
त्रयश्शतशतार्द्धाश्च ददर्शावेक्ष्य मातरः ॥ 2.39.36 ॥
ताश्चापि स तथैवार्ता मातॄर्दशरथात्मजः।
धर्मयुक्तमिदं वाक्यं निजगाद कृताञ्जलिः ॥ 2.39.37 ॥
संवासात् परुषं किञ्चिदज्ञानाद्वापि यत्कृतम्।
तन्मे समनुजानीत सर्वाश्चामन्त्रयामि वः ॥ 2.39.38 ॥
वचनं राघवस्यैतद्धर्मयुक्तं समाहितम्।
शुश्रुवुस्ताः स्त्रियः सर्वाः शोकोपहतचेतसः ॥ 2.39.39 ॥
जज्ञेऽथ तासां सन्नादः क्रौञ्चीनामिव निस्वनः।
मानवेन्द्रस्य भार्याणामेवं वदति राघवे ॥ 2.39.40 ॥
मुरजपणमवेघघोषवद्दशरथवेश्म बभूव यत् पुरा।
विलपितपरिदेवनाकुलं व्यसनगतं तदभूत् सुदुःखितम् ॥ 2.39.41 ॥