०३८ रामेण दशरथप्रार्थना

तस्यां चीरं वसानायां नाथवत्यामनाथवत्।
प्रचुक्रोश जनः सर्वो धिक् त्वां दशरथं त्विति ॥ 2.38.1 ॥
तेन तत्र प्रणादेन दुःखितः स महीपतिः।
चिच्छेद जीविते श्रद्धां धर्मे यशसि चात्मनः ॥ 2.38.2 ॥
स निश्वस्योष्णमैक्ष्वाकस्तां भार्यामिदमब्रवीत्।
कैकेयि कुशचीरेण न सीता गन्तुमर्हति ॥ 2.38.3 ॥
सुकुमारी च बाला च सततं च सुखोचिता।
नेयं वनस्य योग्येति सत्यमाह गुरुर्मम ॥ 2.38.4 ॥
इयं हि कस्यापकरोति किञ्चित् तपस्विनी राजवरस्य कन्या।
या चीरमासाद्य जनस्य मध्ये स्थिता विसञ्ज्ञा श्रमणीव काचित् ॥ 2.38.5 ॥
चीराण्यपास्याज्जनकस्य कन्या नेयं प्रतिज्ञा मम दत्तपूर्वा।
यथासुखं गच्छतु राजपुत्री वनं समग्रा सह सर्वरत्नैः ॥ 2.38.6 ॥
अजीवनार्हेण मया नृशंसा कृता प्रतिज्ञा नियमेन तावत्।
त्€वया हि बाल्यात् प्रतिपन्नमेतत्तन्मां दहेद्वेणुमिवात्मपुष्पम् ॥ 2.38.7 ॥
रामेण यदि ते पापे किञ्चित्कृतमशोभनम्।
अपकारः क इह ते वैदेह्या दर्शितोऽथ मे ॥ 2.38.8 ॥
मृगीवोत्फुल्लनयना मृदुशीला तपस्विनी।
अपकारं कमिह ते करोति जनकात्मजा ॥ 2.38.9 ॥
ननु पर्याप्तमेतत्ते पापे रामविवासनम्।
किमेभिः कृपणैर्भूयः पातकैरपि ते कृतैः ॥ 2.38.10 ॥
प्रतिज्ञातं मया तावत्त्वयोक्तं देवि शृण्वता।
रामं यदभिषेकाय त्वमिहागतमब्रवीः ॥ 2.38.11 ॥
तत्त्वेतत् समतिक्रम्य निरयं गन्तुमिच्छसि।
मैथिलीमपि या हि त्वमीक्षसे चीरवासिनीम् ॥ 2.38.12 ॥
इतीव राजा विपलन् महात्मा शोकस्य नान्तं स ददर्श किञ्चित्।
भृशातुरत्वाच्च पपात भूमौ तेनैव पुत्रव्यसने निमग्नः ॥ 2.38.13 ॥
एवं ब्रुवन्तं पितरं रामः सम्प्रस्थितो वनम्।
अवाक्छिरसमासीनमिदं वचनमब्रवीत् ॥ 2.38.14 ॥
इयं धार्मिक कौसल्या मम माता यशस्विनी।
वृद्धा चाक्षुद्रशीला च न च त्वां देव गर्हते ॥ 2.38.15 ॥
मया विहीनां वरद प्रपन्नां शोकसागरम्।
अदृष्टपूर्वव्यसनां भूयः सम्मन्तुमर्हसि ॥ 2.38.16 ॥
पुत्रशोकं यथा नर्च्छेत्त्वया पूज्येन पूजिता।
मां हि सञ्चिन्तयन्तीयमपि जीवेत्तपस्विनी ॥ 2.38.17 ॥
इमां महेन्द्रोपम जातगर्धिनीं तथा विधातु जननीं ममार्हसि।
यथा वनस्थे म€यि शोककर्शिता न जीवितं न्यस्य यमक्षयं व्रजेत् ॥ 2.38.18 ॥