महामात्रवचः श्रुत्वा रामो दशरथं तदा।
अभ्यभाषत वाक्यं तु विनयज्ञो विनीतवत् ॥ 2.37.1 ॥
त्यक्तभोगस्य मे राजन् वने वन्येन जीवतः।
किं कार्यमनुयात्रेण त्यक्तसङ्गस्य सर्वतः ॥ 2.37.2 ॥
यो हि दत्त्वा गजश्रेष्ठं कक्ष्यायां कुरुते मनः।
रज्जुस्नेहेन किं तस्य त्यजतः कुञ्जरोत्तमम् ॥ 2.37.3 ॥
तथा मम सतां श्रेष्ठ किं ध्वजिन्या जगत्पते।
सर्वाण्येवानुजानामि चीराण्येवानयन्तु मे ॥ 2.37.4 ॥
खनित्रपिटके चोभे समानयत गच्छत।
चतुर्दश वने वासं वर्षाणि वसतो मम ॥ 2.37.5 ॥
अथ चीराणि कैकेयी स्वयमाहृत्य राघवम्।
उवाच परिधत्स्वेति जनौघे निरपत्रपा ॥ 2.37.6 ॥
स चीरे पुरुषव्याघ्रः कैकेय्याः प्रतिगृह्य ते।
सूक्ष्मवस्त्रमवक्षिप्य मुनिवस्त्राण्यवस्तह ॥ 2.37.7 ॥
लक्ष्मणश्चापि तत्रैव विहाय वसने शुभे।
तापसाच्छादने चैव जग्राह पितुरग्रतः ॥ 2.37.8 ॥
अथात्मपरिधानार्थं सीता कौशेयवासिनी।
समीक्ष्य चीरं सन्त्रस्ता पृषती वागुरामिव ॥ 2.37.9 ॥
सा व्यपत्रपमाणेव प्रगृह्य च सुदुर्मनाः।
कैकेयीकुशचीरे ते जानकी शुभलक्षणा ॥ 2.37.10 ॥
अश्रुसम्पूर्णनेत्रा च धर्मज्ञा धर्मदर्शिनी।
गन्धर्वराजप्रतिमं भर्त्तारमिदमब्रवीत् ॥ 2.37.11 ॥
कथं नु चीरं बध्नन्ति मुनयो वनवासिनः।
इति ह्यकुशला सीता सा मुमोह मुहुर्मुहुः ॥ 2.37.12 ॥
कृत्वा कण्ठे च सा चीरमेकमादाय पाणिना।
तस्थौ ह्यकुशला तत्र व्रीडिता जनकात्मजा ॥ 2.37.13 ॥
तस्यास्तत् क्षिप्रमागम्य रामो धर्मभृतां वरः।
चीरं बबन्ध सीतायाः कौशेयस्योपरि स्वयम् ॥ 2.37.14 ॥
रामं प्रेक्ष्य तु सीताया बध्नन्तं चीरमुत्तमम्।
अन्तःपुरगता नार्यो मुमुचुर्वारि नेत्रजम् ॥ 2.37.15 ॥
ऊचुश्च परमायस्ता रामं ज्वलिततेजसम्।
वत्स नैवं नियुक्तेयं वनवासे मनस्विनी ॥ 2.37.16 ॥
पितुर्वाक्यानुरोधेन गतस्य विजनं वनम्।
तावद्दर्शनमस्यां नः सफलं भवतु प्रभो ॥ 2.37.17 ॥
लक्ष्मणेन सहायेन वनं गच्छस्व पुत्रक।
नेयमर्हति कल्याणी वस्तुं तापसवद्वने ॥ 2.37.18 ॥
कुरु नो याचनां पुत्र सीता तिष्ठतु भामिनी।
धर्मनित्यः स्वयं स्थातुं न हीदानीं त्वमिच्छसि ॥ 2.37.19 ॥
तासामेवंविधा वाचः शृण्वन् दशरथात्मजः।
बबन्धैव तदा चीरं सीतया तुल्यशीलया ॥ 2.37.20 ॥
चीरे गृहीते तु तया समीक्ष्य नृपतेर्गुरुः।
निवार्य सीतां कैकेयीं वसिष्ठो वाक्यमब्रवीत् ॥ 2.37.21 ॥
अतिप्रवृत्ते दुर्मेधे कैकेयि कुलपांसनि।
वञ्चयित्वा च राजानं न प्रमाणेऽवतिष्ठसे ॥ 2.37.22 ॥
न गन्तव्यं वनं देव्या सीतया शीलवर्जिते।
अनुष्ठास्यति रामस्य सीता प्रकृतमासनम् ॥ 2.37.23 ॥
आत्मा हि दाराः सर्वेषां दारसङ्ग्रहवर्तिनाम्।
आत्मेयमिति रामस्य पालयिष्यति मेदिनीम् ॥ 2.37.24 ॥
अथ यास्यति वैदेही वनं रामेण सङ्गता।
वयमप्यनुयास्यामः पुरं चेदं गमिष्यति ॥ 2.37.25 ॥
अन्तपालाश्च यास्यन्ति सदारो यत्र राघवः।
सहोपजीव्यं राष्ट्रं च पुरं च सपरिच्छदम् ॥ 2.37.26 ॥
भरतश्च सशत्रुघ्नः चीरवासा वनेचरः।
वने वसन्तं काकुत्स्थमनुवत्स्यति पूर्वजम् ॥ 2.37.27 ॥
ततः शून्यां गतजनां वसुधां पादपैः सह।
त्वमेका शाधि दुर्वृत्ता प्रजानामहिते स्थिता ॥ 2.37.28 ॥
न हि तद्भविता राष्ट्रं यत्र रामो न भूपतिः।
तद्वनं भविता राष्ट्रं यत्र रामो निवत्स्यति ॥ 2.37.29 ॥
न ह्यदत्तां महीं पित्रा भरतः शास्तुमर्हति।
त्वयि वा पुत्रवद्वस्तुं यदि जातो महीपतेः ॥ 2.37.30 ॥
यद्यपि त्वं क्षितितलाद्गगनं चोत्पतिष्यसि।
पितृवंशचरित्रज्ञः सोऽन्यथा न करिष्यति ॥ 2.37.31 ॥
तत्त्वया पुत्रगर्द्धिन्या पुत्रस्य कृतमप्रियम्।
लोके हि न स विद्येत यो न राममनुव्रतः ॥ 2.37.32 ॥
द्रक्ष्यस्यद्यैव कैकेयि पशुव्यालमृगद्विजान्।
गच्छतः सह रामेण पादपांश्च तदुन्मुखान् ॥ 2.37.33 ॥
अथोत्तमान्याभरणानि देवि देहि स्नुषायै व्यपनीय चीरम्।
न चीरमस्याः प्रविधीयतेति न्यवारयत्तद्वसनं वसिष्ठः ॥ 2.37.34 ॥
एकस्य रामस्य वने निवासस्त्वया वृतः केकयराजपुत्रि।
विभूषितेयं प्रतिकर्मनित्या वसत्वरण्ये सह राघवेण ॥ 2.37.35 ॥
यानैश्च मुख्यैः परिचारकैश्च सुसंवृता गच्छतु राजपुत्री।
वस्त्रैश्च सर्वैः सहितैर्विधानैर्नेयं वृता ते वरसम्प्रदाने ॥ 2.37.36 ॥
तस्मिंस्तथा जल्पति विप्रमुख्ये गुरौ नृपस्याप्रतिमप्रभावे।
नैव स्म सीता विनिवृत्तभावा प्रियस्य भर्तुः प्रतिकारकामा ॥ 2.37.37 ॥