०३६ सिद्धार्थस्य कैकेय्युपदेशः

ततः सुमन्त्रमैक्ष्वाकः पीडितोऽत्र प्रतिज्ञया।
स बाष्पमतिनिश्वस्य जगादेदं पुनःपुनः ॥ 2.36.1 ॥
सूत रत्नसुसम्पूर्णा चतुर्विधबला चमूः।
राघवस्यानुयात्रार्थं क्षिप्रं प्रतिविधीयताम् ॥ 2.36.2 ॥
रूपाजीवाश्च वादिन्यो वणिजश्चमहाधनाः।
शोभयन्तु कुमारस्य वाहिनीं सुप्रसारिताः ॥ 2.36.3 ॥
ये चैनमुपजीवन्ति रमते यैश्च वीर्यतः।
तेषां बहुविधं दत्त्वा तान्यप्यत्र नियोजय ॥ 2.36.4 ॥
आयुधानि च मुख्यानि नागराः शकटानि च।
अनुगच्छन्तु काकुत्स्थं व्याधाश्चारण्यगोचराः ॥ 2.36.5 ॥
निघ्नन् मृगान् कुञ्जरांश्च पिबंश्चारण्यकं मधु।
नदीश्च विविधाः पश्यन्न राज्यस्य स्मरिष्यति ॥ 2.36.6 ॥
धान्यकोशश्च यः कश्चिद्धनकोशश्च मामकः।
तौ राममनुगच्छेतां वसन्तं निर्जने वने ॥ 2.36.7 ॥
यजन् पुण्येषु देशेषु विसृजंश्चाप्तदक्षिणाः।
ऋषिभिश्च समागम्य प्रवत्स्यति सुखं वने ॥ 2.36.8 ॥
भरतश्च महाबाहुरयोध्यां पालयिष्यति।
सर्वकामैः सह श्रीमान् रामः संसाध्यतामिति ॥ 2.36.9 ॥
एवं ब्रुवति काकुत्स्थे कैकेय्या भयमागतम्।
मुखं चाप्यगमच्छोषं स्वरश्चापि न्यरुध्यत ॥ 2.36.10 ॥
सा विषण्णा च सन्त्रस्ता मुखेन परिशुष्यता।
राजानमेवाभिमुखी कैकेयी वाक्यमब्रवीत् ॥ 2.36.11 ॥
राज्यं गतजनं साधो पीतमण्डां सुरामिव।
निरास्वाद्यतमं शून्यं भरतो नाभिपत्स्यते ॥ 2.36.12 ॥
कैकेय्यां मुक्तलज्जायां वदन्त्यामतिदारुणम्।
राजा दशरथो वाक्यमुवाचायतलोचनाम् ॥ 2.36.13 ॥
वहन्तं किं तुदसि मां नियुज्€य धुरि माऽहिते।
अनार्ये कृत्यमारब्धं किन्न पूर्वमुपारुधः ॥ 2.36.14 ॥
तस्यैतत् क्रोधसंयुक्तमुक्तं श्रुत्वा वराङ्गना।
कैकेयी द्विगुणं क्रुद्धा राजानमिदमब्रवीत् ॥ 2.36.15 ॥
तवैव वंशे सगरो ज्येष्ठपुत्रमुपारुधत्।
असमञ्ज इति ख्यातं तथाऽयं गन्तुमर्हति ॥ 2.36.16 ॥
एवमुक्तो धिगित्वेन राजा दशरथोऽब्रवीत्।
व्रीडितश्च जनः सर्वः सा च तं नावबुध्यत ॥ 2.36.17 ॥
तत्र वृद्धो महामात्रः सिद्धार्थो नाम नामतः।
शुचिर्बहुमतो राज्ञः कैकेयीमिदमब्रवीत् ॥ 2.36.18 ॥
असमञ्जो गृहीत्वा तु क्रीडतः पथि दारकान्।
सरय्वाः प्रक्षिपन्नप्सु रमते तेन दुर्मतिः ॥ 2.36.19 ॥
तं दृष्ट्वा नागराः सर्वे क्रुद्धा राजानमब्रुवन्।
असमञ्जं वृणीष्वैकमस्मान् वा राष्ट्रवर्द्धन ॥ 2.36.20 ॥
तानुवाच ततो राजा किन्निमित्तमिदं भयम्।
ताश्चापि राज्ञा सम्पृष्टा वाक्यं प्रकृतयोऽब्रुवन् ॥ 2.36.21 ॥
क्रीडतस्त्वेष नः पुत्रान् बालानुद्भ्रान्तचेतनः।
सरय्वां प्रक्षिपन् मौर्ख्यादतुलां प्रीतिमश्नुते ॥ 2.36.22 ॥
स तासां वचनं श्रुत्वा प्रकृतीनां नराधिपः।
तं तत्याजाहितं पुत्रं तासां प्रियचिकीर्षया ॥ 2.36.23 ॥
तं यानं शीघ्रमारोप्य सभार्यं सपरिच्छदम्।
यावज्जीवं विवास्योयमिति स्वानन्वशात्पिता ॥ 2.36.24 ॥
स फालपिटकं गृह्य गिरिदुर्गाण्यलोलयत्।
दिशः सर्वास्त्वनुचरन् स यथा पापकर्मकृत् ॥ 2.36.25 ॥
इत्येनमत्यजद्राजा सगरो वै सुधार्मिकः।
रामः किमकरोत्पापं येनैवमुपरुध्यते ॥ 2.36.26 ॥
न हि कञ्चन पश्यामो राघवस्यागुणं वयम्।
दुर्ल्लभो ह्यस्य निरयः शशाङ्कस्येव कल्मषम् ॥ 2.36.27 ॥
अथवा देवि दोषं त्वं कञ्चित् पश्यसि राघवे।
तमद्य ब्रूहि तत्त्वेन ततो रामो विवास्यताम् ॥ 2.36.28 ॥
अदुष्टस्य हि सन्त्यागः सत्पथे निरतस्य च।
निर्दहेदपि शक्रस्य द्युतिं धर्मनिरोधनात् ॥ 2.36.29 ॥
तदलं देवि रामस्य श्रिया विहतया त्वया।
लोकतोपि हि ते रक्ष्यः परिवादः शुभानने ॥ 2.36.30 ॥
श्रुत्वा तु सिद्धार्थवचो राजा श्रान्ततरः स्वनः।
शोकोपहतया वाचा कैकेयीमिदमब्रवीत् ॥ 2.36.31 ॥
एतद्वचो नेच्छसि पापवृत्ते हितं न जानासि ममात्मनो वा।
आस्थाय मार्गं कृपणं कुचेष्टा चेष्टा हि ते साधुपथादपेता ॥ 2.36.32 ॥
अनुव्रजिष्याम्यहमद्य रामं राज्यं परित्यज्य सुखं धनं च।
सहैव राज्ञा भरतेन च त्वं यथासुखं भुङ्क्ष्व चिराय राज्यम् ॥ 2.36.33 ॥