ततो निर्द्धूय सहसा शिरो निश्वस्य चासकृत्।
पाणिं पाणौ विनिष्पिष्य दन्तान् कटकटाप्य च ॥ 2.35.1 ॥
लोचने कोपसंरक्ते वर्णं पूर्वोचितं जहत्।
कोपाभिभूतः सहसा सन्तापमशुभं गतः ॥ 2.35.2 ॥
मनः समीक्षमाणश्च सूतो दशरथस्य सः।
कम्पयन्निव कैकेय्या हृदयं वाक्छरैः शितैः ॥ 2.35.3 ॥
वाक्यवज्रैरनुपमैर्निर्भिन्दन्निव चाशुगैः।
कैकेय्याः सर्वमर्माणि सुमन्त्रः प्रत्यभाषत ॥ 2.35.4 ॥
भर्त्ता सर्वस्य जगतः स्थावरस्य चरस्य च।
न ह्यकार्यतमं किञ्चित्तव देवीह विद्यते ॥ 2.35.5 ॥
पतिघ्नीं त्वामहं मन्ये कुलघ्नीमपि चान्ततः ॥ 2.35.6 ॥
यन्महेन्द्रमिवाजय्यं दुष्प्रकम्प्यमिवाचलम्।
महोदधिमिवाक्षोभ्यं सन्तापयसि कर्मभिः ॥ 2.35.7 ॥
मावमंस्था दशरथं भर्त्तारं वरदं पतिम्।
भर्तुरिच्छा हि नारीणां पुत्रकोट्यां विशिष्यते ॥ 2.35.8 ॥
यथावयो हि राज्यानि प्राप्नुवन्ति नृपक्षये।
इक्ष्वाकुकुलनाथेऽस्मिंस्तल्लोपयितुमिच्छसि ॥ 2.35.9 ॥
राजा भवतु ते पुत्रो भरतः शास्तु मेदिनीम्।
वयं तत्र गमिष्यामो यत्र रामो गमिष्यति ॥ 2.35.10 ॥
न हि ते विषये कश्चिद्ब्राह्मणे वस्तुमर्हति।
तादृशं त्वममर्यादमद्य कर्म चिकीर्षसि ॥ 2.35.11 ॥
आश्चर्यमिव पश्यामि यस्यास्ते वृत्तमीदृशम्।
आचरन्त्या न विवृता सद्यो भवति मेदिनी ॥ 2.35.12 ॥
महाब्रह्मर्षिजुष्टा वा ज्वलन्तो भीमदर्शनाः।
धिग्वाग्दण्डा न हिंसन्ति रामप्रव्राजने स्थिताम् ॥ 2.35.13 ॥
आम्रं छित्त्वा कुठारेण निम्बं परिचरेत्तु यः।
यश्चैनं पयसा सिञ्चेन्नैवास्य मधुरो भवेत् ॥ 2.35.14 ॥
अभिजातं हि ते मन्ये यथा मातुस्तथैव च।
न हि निम्बात् स्रवेत् क्षौद्रं लोके निगदितं वचः ॥ 2.35.15 ॥
तव मातुरसद्ग्राहं विद्मः पूर्वं यथा श्रुतम् ॥ 2.35.16 ॥
सर्वभूतरुतं तस्मात् सञ्जज्ञे वसुधाधिपः।
तेन तिर्यग्गतानां च भूतानां विदितं वचः ॥ 2.35.17 ॥
ततो जृम्भस्य शयने विरुताद्भूरिवर्चसः।
पितुस्ते विदितो भावः स तत्र बहुधाऽहसत् ॥ 2.35.18 ॥
तत्र ते जननी क्रुद्धा मृत्युपाशमभीप्सती।
हासं ते नृपतं सौम्य जिज्ञासामीति चाब्रवीत् ॥ 2.35.19 ॥
नृपश्चोवाच तां देवीं शंसामि ते यदि।
ततो मे मरणं सद्यो भविष्यति न संशयः ॥ 2.35.20 ॥
माता ते पितरं देवि ततः केकयमब्रवीत्।
शंस मे जीव वा मा वा न मामपहसिष्यसि ॥ 2.35.21 ॥
प्रियया च तथोक्तः सन् केकयः पृथिवीपतिः।
तस्मै तं वरदायार्थं कथयामास तत्त्वतः ॥ 2.35.22 ॥
ततः स वरदः साधू राजानं प्रत्यभाषत।
म्रियतां ध्वंसतां वेयं मा कृथास्त्वं महीपते ॥ 2.35.23 ॥
स तच्छ्रुत्वा वचस्तस्य प्रसन्नमनसो नृपः।
मातरं ते निरस्याशु विजहार कुबेरवत् ॥ 2.35.24 ॥
तथा त्वमपि राजानं दुर्ज्जनाचरिते पथि।
असद्ग्राहमिमं मोहात् कुरुषे पापदर्शिनि ॥ 2.35.25 ॥
सत्यश्चाद्य प्रवादोऽयं लौकिकः प्रतिभाति मा।
पितॄन् समनुजायन्ते नरा मातरमङ्गनाः ॥ 2.35.26 ॥
नैवं भव गृहाणेदं यदाह वसुधाधिपः।
भर्त्तुरिच्छामुपास्वेह जनस्यास्य गतिर्भव ॥ 2.35.27 ॥
मा त्वं प्रोत्साहिता पापैर्देवराजसमप्रभम्।
भर्त्तारं लोकभर्त्तारमसद्धर्ममुपादधाः ॥ 2.35.28 ॥
न हि मिथ्या प्रतिज्ञातं करिष्यति तवानघः।
श्रीमान् दशरथो राजा देवि राजीवलोचनः ॥ 2.35.29 ॥
ज्येष्ठो वदान्यः कर्मण्यः स्वधर्मपरिरक्षिता।
रक्षिता जीवलोकस्य बली रामोऽभिषिच्यताम् ॥ 2.35.30 ॥
परिवादो हि ते देवि महान् लोके चरिष्यति।
यदि रामो वनं याति विहाय पितरं नृपम् ॥ 2.35.31 ॥
स राज्यं राघवः पातु भव त्वं विगतज्वरा।
न हि ते राघवादन्यः क्षमः पुरवरे वसेत् ॥ 2.35.32 ॥
रामे हि यौवराज्यस्थे राजा दशरथो वनम्।
प्रवेक्ष्यति महेष्वासः पूर्ववृत्तमनुस्मरन् ॥ 2.35.33 ॥
इति सान्त्वैश्च तीक्ष्णैश्च कैकेयीं राजसंसदि।
सुमन्त्रः क्षोभयामास भूय एव कृताञ्जलिः ॥ 2.35.34 ॥
नैव सा क्षुम्यते देवी न च स्म परिदूयते।
न चास्या मुखवर्णस्य विक्रिया लक्ष्यते तदा ॥ 2.35.35 ॥