ततः कमलपत्राक्षः श्यामो निरुदरो महान्।
उवाच रामस्तं सूतं पितुराख्याहि मामिति ॥ 2.34.1 ॥
स रामप्रेषितः क्षिप्रं सन्तापकलुषेन्द्रियः।
प्रविश्य नृपतिं सूतो निश्वसन्तं ददर्श ह ॥ 2.34.2 ॥
उपरक्तमिवादित्यं भस्मच्छन्नमिवानलम्।
तटाकमिव निस्तोयमपश्यज्जगतीपतिम् ॥ 2.34.3 ॥
आलोक्य तु महाप्राज्ञः परमाकुलचेतसम्।
राममेवानुशोचन्तं सूतः प्राञ्जलिरासदत् ॥ 2.34.4 ॥
तं वर्द्धयित्वा राजानं सूतः पूर्वं जयाशिषा।
भयविक्लवया वाचा मन्दया श्लक्ष्णमब्रवीत् ॥ 2.34.5 ॥
अयं स पुरुषव्याघ्रो द्वारि तिष्ठति ते सुतः।
ब्राह्मणेभ्यो धनं दत्त्वा सर्वं चैवोपजीविनाम् ॥ 2.34.6 ॥
स त्वा पश्यतु भद्रं ते रामः सत्यपराक्रमः।
सर्वान् सुहृद आपृच्छय त्वामिदानीं दिदृक्षते ॥ 2.34.7 ॥
गमिष्यति महारयण्यं तं पश्य जगतीपते।
वृतं राजगुणैः सर्वैरादित्यमिव रश्मिभिः ॥ 2.34.8 ॥
स सत्यवादी धर्मात्मा गाम्भीर्यात्सागरोपमः।
आकाश इव निष्पङ्को नरेन्द्रः प्रत्युवाच तम् ॥ 2.34.9 ॥
सुमन्त्रानय मे दारान् ये केचिदिह मामकाः।
दारैः परिवृतः सर्वैर्द्रष्टुमिच्छामि धार्मिकम् ॥ 2.34.10 ॥
सोन्तःपुरमतीत्यैव स्त्रियस्ता वाक्यमब्रवीत्।
आर्याह्वयति वो राजा गम्यतां तत्र मा चिरम् ॥ 2.34.11 ॥
एवमुक्ताः स्त्रियः सर्वाः सुमन्त्रेण नृपाज्ञया।
प्रचक्रमुस्तद्भवनं भर्तुराज्ञाय शासनम् ॥ 2.34.12 ॥
अर्द्धसप्तशतास्तास्तु प्रमदास्ताम्रलोचनाः।
कौसल्यां परिवार्याथ शनैर्जग्मुर्धृतव्रताः ॥ 2.34.13 ॥
आगतेषु च दारेषु समवेक्ष्य महीपतिः।
उवाच राजा तं सूतं सुमन्त्रानय मे सुतम् ॥ 2.34.14 ॥
स सूतो राममादाय लक्ष्मणं मैथिलीं तदा।
जगामाभिमुखस्तूर्णं सकाशं जगतीपतेः ॥ 2.34.15 ॥
स राजा पुत्रमायान्तं दृष्ट्वा दूरात् कृताञ्जलिम्।
उत्पपातासनात्तूर्णमार्त्तः स्त्रीजनसंवृतः ॥ 2.34.16 ॥
सोभिदुद्राव वेगेन रामं दृष्ट्वा विशां पतिः।
तमसम्प्राप्य दुःखार्त्तः पपात भूवि मूर्च्छितः ॥ 2.34.17 ॥
तं रामोऽभ्यपतत् क्षिप्रं लक्ष्मणश्च महारथः।
विसञ्ज्ञमिव दुःखेन सशोकं नृपतिं तदा ॥ 2.34.18 ॥
स्त्रीसहस्रनिनादश्च सञ्जज्ञे राजवेश्मनि।
हाहा रामेति सहसा भूषणध्वनिमूर्च्छितः ॥ 2.34.19 ॥
तं परिष्वज्य बाहुभ्यां तावुभौ तावुभौ रामलक्ष्मणौ।
पर्यङ्के सीतया सार्द्धं रुदन्तः समवेशयन् ॥ 2.34.20 ॥
अथ रामो मुहूर्त्तेन लब्धसञ्ज्ञं महीपतिम्।
उवाच प्राञ्जलिर्भूत्वा शोकार्णवपरिप्लुतम् ॥ 2.34.21 ॥
आपृच्छे त्वां महाराज सर्वेषामीश्वरोऽसि नः।
प्रस्थितं दण्डकारण्यं पश्य त्वं कुशलेन माम् ॥ 2.34.22 ॥
लक्ष्मणं चानुजानीहि सीता चान्वेति मां वनम्।
कारणैर्बहुभिस्तथ्यैर्वार्यमाणौ न चेच्छतः ॥ 2.34.23 ॥
अनुजानीहि सर्वान्नः शोकमुत्सृज्य मानद।
लक्ष्मण्ां मां च सीतां च प्रजापतिरिव प्रजाः ॥ 2.34.24 ॥
प्रतीक्षमाणमव्यग्रमनुज्ञां जगतीपतेः।
उवाच राजा सम्प्रेक्ष्य वनवासाय राघवम् ॥ 2.34.25 ॥
अहं राघव कैकेय्या वरदानेन मोहितः।
अयोध्यायां त्वमेवाद्य भव राजा निगृह्य माम् ॥ 2.34.26 ॥
एवमुक्तो नृपतिना रामो धर्मभृतां वरः।
प्रत्युवाचाञ्जलिं कृत्वा पितरं वाक्यकोविदः ॥ 2.34.27 ॥
भवान् वर्षसहस्राय पृथिव्या नृपते पतिः।
अहं त्वरण्ये वत्स्यामि न मे कार्यं त्वयाऽनृतम् ॥ 2.34.28 ॥
नव पञ्च च वर्षाणि वनवासे विहृत्य ते।
पुनः पादौ ग्रहीष्यामि प्रतिज्ञान्ते नराधिप ॥ 2.34.29 ॥
रुदन्नार्त्तः प्रियं पुत्रं सत्यपाशेन संयतः।
कैकेय्या चोद्यमानस्तु मिथो राजा तमब्रवीत् ॥ 2.34.30 ॥
श्रेयसे वृद्धये तात पुनरागमनाय च।
गच्छस्वारिष्टमव्यग्रः पन्थानमकुतोभयम् ॥ 2.34.31 ॥
न हि सत्यात्मनस्तात धर्माभिमनसस्तव।
विनिवर्त्तयितुं बुद्धिः शक्यते रघुनन्दन ॥ 2.34.32 ॥
अद्य त्विदानीं रजनीं पुत्र मा गच्छ सर्वथा।
एकाहदर्शनेनापि साधु तावच्चराम्यहम् ॥ 2.34.33 ॥
मातरं मां च सम्पश्यन् वसेमामद्य शर्वरीम्।
तर्पितः सर्वकामैस्त्वं श्वः काले साधयिष्यसि ॥ 2.34.34 ॥
दुष्करं क्रियते पुत्र सर्वथा राघव त्वया।
मत्प्रियार्थं प्रियांस्त्यक्त्वा यद्यासि विजनं वनम् ॥ 2.34.35 ॥
न चैतन्मे प्रियं पुत्र शपे सत्येन राघव।
छन्नया चलितस्त्वस्मि स्त्रिया च्छन्नाग्निकल्पया ॥ 2.34.36 ॥
वञ्चना या तु लब्धा मे तां त्वं निस्तर्तुमिच्छसि।
अनया वृत्तसादिन्या कैकेय्याऽभिप्रचोदितः ॥ 2.34.37 ॥
न चैतदाश्चर्यतमं यस्त्वं ज्येष्ठः सुतो मम।
अपानृतकथं पुत्र पितरं कर्तुमिच्छसि ॥ 2.34.38 ॥
अथ रामस्तथा श्रुत्वा पितुरार्त्तस्य भाषितम्।
लक्ष्मणेन सह भ्रात्रा दीनो वचनमब्रवीत् ॥ 2.34.39 ॥
प्राप्स्यामि यानद्य गुणान् को मे श्वस्तान् प्रदास्यति।
उपक्रमणमेवातः सर्वकामैरहं वृणे ॥ 2.34.40 ॥
इयं सराष्ट्रा सजना धनधान्यसमाकुला।
मया विसृष्टा वसुधा भरताय प्रदीयताम् ॥ 2.34.41 ॥
वनवासकृता बुद्धिर्न च मेऽद्य चलिष्यति ॥ 2.34.42 ॥
यस्तुष्टेन वरो दत्तः कैकेय्यै वरद त्वया।
दीयतां निखिलेनैव सत्यस्त्वं भव पार्थिव ॥ 2.34.43 ॥
अहं निदेशं भवतो यथोक्तमनुपालयन्।
चतुर्दश समा वत्स्ये वने वनचरैः सह ॥ 2.34.44 ॥
न हि मे काङ्क्षितं राज्यं सुखमात्मनि वा प्रियम्।
यथा निदेशं कर्तुं वै तवैव रघुनन्दन ॥ 2.34.45 ॥
अपगच्छतु ते दुःखं माभूर्बाष्पपरिप्लुतः।
न हि क्षुभ्यति दुर्द्धर्षः समुद्रः सरितां पतिः ॥ 2.34.46 ॥
नैवाहं राज्यमिच्छामि न सुखं न च मैथिलीम्।
नैव सर्वानिमान् कामान् न स्वर्गं नैव जीवितम् ॥ 2.34.47 ॥
त्वामहं सत्यमिच्छामि नानृतं पुरुषर्षभ।
प्रत्यक्षं तव सत्येन सुकृतेन च ते शपे ॥ 2.34.48 ॥
न च शक्यं मया तात स्थातुं क्षणमपि प्रभो।
न शोकं धारयस्वैनं न हि मेऽस्ति विपर्ययः ॥ 2.34.49 ॥
अर्थितो ह्यस्मि कैकेय्या वनं गच्छेति राघव।
मया चोक्तं व्रजामीति तत्सत्यमनुपालये ॥ 2.34.50 ॥
मा चोत्कण्ठां कृथा देव वने रंस्यामहे वयम्।
प्रशान्तहरिणाकीर्णे नानाशकुननादिते ॥ 2.34.51 ॥
पिता हि दैवतं तात देवतानामपि स्मृतम्।
तस्माद्दैवतमित्येव करिष्यामि पितुर्वचः ॥ 2.34.52 ॥
चतुर्दशसु वर्षेषु गतेषु नरसत्तम।
पुनर्द्रक्ष्यसि मां प्राप्तं सन्तापोऽयं विमुच्यताम् ॥ 2.34.53 ॥
येन संस्तम्भनीयोऽयं सर्वो बाष्पगलो जनः।
स त्वं पुरुष शार्दूल किमर्थं विक्रियां गतः ॥ 2.34.54 ॥
पुरं च राष्ट्रं च मही च केवला मया विसृष्टा भरताय दीयताम्।
अहं निदेशं भवतोऽनुपालयन् वनं गमिष्यामि चिराय सेवितुम् ॥ 2.34.55 ॥
मया निसृष्टां भरतो महीमिमां सशैलखण्डां सपुरां सकाननाम्।
शिवां सुसीमामनुशास्तु केवलं त्वया यदुक्तं नृपते तथास्तु तत् ॥ 2.34.56 ॥
न मे तथा पार्थिव धीयते मनो महत्सु कामेषु न चात्मनः प्रिये।
यथा निदेशे तव शिष्टसम्मते व्यपैतु दुःखं तव मत्कृतेऽनघ ॥ 2.34.57 ॥
तदद्य नैवानघ राज्यमव्ययं न सर्वकामान्न सुखं न मैथिलीम्।
न जीवितं त्वामनृतेन योजयन् वृणीय सत्यं व्रतमस्तु ते तथा ॥ 2.34.58 ॥
फलानि मूलानि च भक्षयन् वने गिरींश्च पश्यन् सरितः सरांसि च।
वनं प्रविश्यैव विचित्रपादपं सुखी भविष्यामि तवास्तु निर्वृतिः ॥ 2.34.59 ॥
एवं स राजा व्यसनाभिपन्नः शोकेन दुःखेन च ताम्यमानः।
आलिङ्ग्य पुत्रं सुविनष्टसञ्ज्ञो मोहं गतो नैव चिचेष्ट किञ्चित् ॥ 2.34.60 ॥
देव्यस्ततः संरुरुदुः समेतास्तां वर्जयित्वा नरदेवपत्नीम्।
रुदन् सुमन्त्रोपि जगाम मूर्च्छां हाहाकृतं तत्र बभूव सर्वम् ॥ 2.34.61 ॥