दत्त्वा तु सह वैदेह्या ब्राह्मणेभ्यो धनं बहु।
जग्मतुः पितरं द्रष्टुं सीतया सह राघवौ ॥ 2.33.1 ॥
ततो गृहीते दुष्प्रेक्षे त्वशोभेतां तदायुधे।
मालादामभिराबद्धे सीतया समलङ्कृते ॥ 2.33.2 ॥
ततः प्रासादहर्म्याणि विमानशिखराणि च।
अधिरुह्य जनः श्रीमानुदासीनो व्यलोकयत् ॥ 2.33.3 ॥
न हि रथ्याः स्म शक्यन्ते गन्तुं बहुजनाकुलाः।
आरुह्य तस्मात् प्रासादान् दीनाः पश्यन्ति राघवम् ॥ 2.33.4 ॥
पदातिं वर्जितच्छत्रं रामं दृष्ट्वा तदा जनाः।
ऊचुर्बहुविधा वाचः शोकोपहतचेतसः ॥ 2.33.5 ॥
यं यान्तमनुयाति स्म चतुरङ्गबलं महत्।
तमेकं सीतया सार्द्धमनुयाति स्म लक्ष्मणः ॥ 2.33.6 ॥
ऐश्वर्यस्य रसज्ञस्सन् कामिनां चैव कामदः।
नेच्छत्येवानृतं कर्तुं पितरं धर्मगौरवात् ॥ 2.33.7 ॥
या न शक्या पुरा द्रष्टुं भूतैराकाशगैरपि।
तामद्य सीतां पश्यन्ति राजमार्गगता जनाः ॥ 2.33.8 ॥
अङ्गरागोचितां सीतां रक्तचन्दनसेविनीम्।
वर्षमुष्णं च शीतं च नेष्यन्त्याशु विवर्णताम् ॥ 2.33.9 ॥
अद्य नूनं दशरथः सत्त्वमाविश्य भाषते।
न हि राजा प्रियं पुत्रं विवासयितुमिच्छति ॥ 2.33.10 ॥
निर्गुणस्यापि पुत्रस्य कथं स्याद्विप्रवासनम्।
किम्पुनर्यस्य लोकोऽयं जितो वृत्तेन केवलम् ॥ 2.33.11 ॥
आनृशंस्य मनुक्रोशः श्रुतं शीलं दमः शमः।
राघवं शोभयन्त्येते षड्गुणाः पुरुषर्षभम् ॥ 2.33.12 ॥
तस्मात्तस्योपघातेन प्रजाः परमपीडिताः।
औदकानीव सत्त्वानि ग्रीष्मे सलिलसङ्क्षयात् ॥ 2.33.13 ॥
पीडया पीडितं सर्वं जगदस्य जगत्पतेः।
मूलस्येवोपघातेन वृक्षः पुष्पफलोपगः ॥ 2.33.14 ॥
मूलं ह्येष मनुष्याणां धर्मसारो महाद्युतिः।
पुष्पं फलं च पत्रं च शाखाश्चास्येतरे जनाः ॥ 2.33.15 ॥
ते लक्ष्मण इव क्षिप्रं सपत्न्यः सहबान्धवाः।
गच्छन्तमनुगच्छामो येन गच्छति राघवः ॥ 2.33.16 ॥
उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च।
एकदुःखसुखा राममनुगच्छाम धार्मिकम् ॥ 2.33.17 ॥
समुद्धृतनिधानानि परिध्वस्ताजिराणि च।
उपात्तधनधान्यानि हृतसाराणि सर्वशः ॥ 2.33.18 ॥
रजसाभ्यवकीर्णानि परित्यक्तानि दैवतैः।
मूषकैः परिधावद्भिरुद्बिलैरावृतानि च ॥ 2.33.19 ॥
अपेतोदकधूमानि हीनसम्मार्जनानि च।
प्रणष्टबलिकर्मेज्या मन्त्रहोमजपानि च ॥ 2.33.20 ॥
दुष्कालेनेव भग्नानि भिन्नभाजनवन्ति च।
अस्मात्त्यक्तानि वेश्मानि कैकेयी प्रतिपद्यताम् ॥ 2.33.21 ॥
वनं नगरमेवास्तु येन गच्छति राघवः।
अस्माभिश्च परित्यक्तं पुरं सम्पद्यतां वनम् ॥ 2.33.22 ॥
बिलानि दंष्ट्रिणः सर्वे सानूनि मृगपक्षिणः।
त्यजन्त्यस्मद्भयाद्भीता गजाः सिंहा वनान्यपि ॥ 2.33.23 ॥
अस्मत्त्यक्तं प्रपद्यन्तां सेव्यमानं त्यजन्तु च ॥ 2.33.24 ॥
प्रपद्यतां हि कैकेयी सपुत्रा सह बान्धवैः।
राघवेण वने सर्वे सह वत्स्याम निर्वृताः ॥ 2.33.25 ॥
इत्येवं विविधा वाचो नानाजनसमीरिताः।
शुश्राव रामः श्रुत्वा च न विचक्रेऽस्य मानसम् ॥ 2.33.26 ॥
स तु वेश्म पितुर्दूरात् कैलासशिखरप्रभम्।
अभिचक्राम धर्मात्मा मत्तमातङ्गविक्रमः ॥ 2.33.27 ॥
विनीतवीरपुरुषं प्रविश्य तु नृपालयम्।
ददर्शावस्थितं दीनं सुमन्त्रमविदूरतः ॥ 2.33.28 ॥
प्रतीक्षमाणोऽपि जनं तदार्तमनार्तरूपः प्रहसन्निवाथ।
जगाम रामः पितरं दिदृक्षुः पितुर्निदेशं विधिवच्चिकीर्षुः ॥ 2.33.29 ॥
तत्पूर्वमैक्ष्वाकसुतो महात्मा रामो गमिष्यन् वनमार्त्तरूपम्।
व्यतिष्ठत प्रेक्ष्य तदा सुमन्त्रं पितुर्महात्मा प्रतिहारणार्थम् ॥ 2.33.30 ॥
पितुर्निदेशेन तु धर्मवत्सलो वनप्रदेशे कृतबुद्धिनिश्चयः।
स राघवः प्रेक्ष्य सुमन्त्रमब्रवीन्निवेदय स्वागमनं नृपाय मे ॥ 2.33.31 ॥