ततः शासनमाज्ञाय भ्रातुः शुभतरं प्रियम्।
गत्वा स प्रविवेशाशु सुयज्ञस्य निवेशनम् ॥ 2.32.1 ॥
तं विप्रमग्न्यगारस्थं वन्दित्वा लक्ष्मणोऽब्रवीत्।
सखेऽभ्यागच्छ पश्य त्वं वेश्म दुष्करकारिणः ॥ 2.32.2 ॥
ततः सन्ध्यामुपास्याशु गत्वा सौमित्रिणा सह।
जुष्टं तत्प्राविशल्लक्ष्म्या रम्यं रामनिवेशनम् ॥ 2.32.3 ॥
तमागतं वेदविदं प्राञ्जलिः सीतया सह।
सुयज्ञमभिचक्राम राघवोऽग्निमिवार्चितम् ॥ 2.32.4 ॥
जातरूपमयैर्मुख्यैरङ्गदैः कुण्डलैः शुभैः।
सहेमसूत्रैर्मणिभिः केयूरैर्वलयैरपि ॥ 2.32.5 ॥
अन्यैश्च रत्नैर्बहुभिः काकुत्स्थः प्रत्यपूजयत्।
सुयज्ञं स तदोवाच रामः सीताप्रचोदितः ॥ 2.32.6 ॥
हारं च हेमसूत्रं च भार्यायै सौम्य हारय।
रशनां चाधुना सीता दातुमिच्छति ते सखे ॥ 2.32.7 ॥
अङ्गदानि विचित्राणि केयूराणि शुभानि च।
प्रयच्छति सखे तुभ्यं भार्यायै गच्छती वनम् ॥ 2.32.8 ॥
पर्यङ्कमग्र्यास्तरणं नानारत्नविभूषितम्।
तमपीच्छति वैदही प्रतिष्ठापयितुं त्वयि ॥ 2.32.9 ॥
नागः शत्रुञ्जयो नाम मातुलोऽयं ददौ मम।
तं ते गजसहस्रेण ददामि द्विजपुङ्गव ॥ 2.32.10 ॥
इत्युक्तः स हि रामेण सुयज्ञः प्रतिगृह्य तत्।
रामलक्ष्मणसीतानां प्रयुयोजाशिषः शुभाः ॥ 2.32.11 ॥
अथ भ्रातरमव्यग्रं प्रियं रामः प्रियंवदः।
सौमित्रिं तमुवाचेदं ब्रह्मेव त्रिदशेश्वरम् ॥ 2.32.12 ॥
अगस्त्यं कौशिकञ्चैव तावुभौ ब्राह्मणोत्तमौ।
अर्चयाहूय सौमित्रे रत्नैः सस्यमिवाम्बुभिः ॥ 2.32.13 ॥
तर्पयस्व महाबाहो गोसहस्रैश्च मानद।
सुवर्णै रजतैश्चैव मणिभिश्च महाधनैः ॥ 2.32.14 ॥
कौसल्यां च य आशीर्भिभक्तः पर्युपतिष्ठति।
आचार्यस्तैत्तिरीयाणामभिरूपश्च वेदवित् ॥ 2.32.15 ॥
तस्य यानं च दासीश्च सौमित्रे सम्प्रदापय।
कौशेयानि च वस्त्राणि यावत्तुष्यति स द्विजः ॥ 2.32.16 ॥
तोषयैनं महार्हेश्च रर्त्नैर्वस्त्रैर्धनैस्तथा।
पशुकाभिश्च सर्वाभिर्गवां दशशतेन च ॥ 2.32.17 ॥
ये चेमे कठकालापा बहवो दण्डमाणवाः ॥ 2.32.18 ॥
अलसाः स्वादुकामाश्च महतां चापि सम्मताः।
तेषामशीतियानानि रत्नपूर्णानि दापय ॥ 2.32.19 ॥
शालिवाहसहस्रं च द्वे शते भद्रकांस्तथा।
व्यञ्जनार्थं च सौमित्रे गोसहस्रमुपाकुरु ॥ 2.32.20 ॥
मेखलीनां महासङ्घः कौसल्यां समुपस्थितः।
तेषां सहस्रं सौमित्रे प्रत्येकं सम्प्रदापय ॥ 2.32.21 ॥
अम्बा यथा च सा नन्देत् कौसल्या मम दक्षिणाम्।
तथा द्विजातींस्तान् सर्वाल्लँक्ष्मणार्चय सर्वशः ॥ 2.32.22 ॥
ततः स पुरुषव्याघ्रस्तद्धनं लक्ष्मणः स्वयम्।
यथोक्तं ब्राह्मणेन्द्राणामददाद्धनदो यथा ॥ 2.32.23 ॥
अथाब्रवीद्बाष्पकलांस्तिष्ठतश्चोपजीविनः।
सम्प्रदाय बहुद्रव्यमेकैकस्योपजीवनम् ॥ 2.32.24 ॥
लक्ष्मणस्य च यद्वेश्म गृहं च यदिदं मम।
अशून्यं कार्यमेकैकं यावदागमनं मम ॥ 2.32.25 ॥
इत्युक्त्वा दुःखितं सर्वं जनं तमुपजीविनम्।
उवाचेदं धनाध्यक्षं धनमानीयतामिति ॥ 2.32.26 ॥
ततोऽस्य धनमाजह्रुः सर्वमेवोपजीविनः।
स राशिः सुमहांस्तत्र दर्शनीयो ह्यदृश्यत ॥ 2.32.27 ॥
ततः स पुरुषव्याघ्रस्तद्धनं सहलक्ष्मणः।
द्विजेभ्यो बालवृद्धेभ्यः कृपणेभ्यो ह्यदापयत् ॥ 2.32.28 ॥
तत्रासीत् पिङ्गलो गार्ग्यस्त्रिजटो नाम वै द्विजः।
उञ्छवृत्तिर्वने नित्यं फालकुद्दाललाङ्गली ॥ 2.32.29 ॥
तं वृद्धं तरुणी भार्या बालानादाय दारकान्।
अब्रवीद्ब्राह्मणं वाक्यं दारिद्र्येणाभिपीडिता ॥ 2.32.30 ॥
अपास्य फालं कुद्दालं कुरुष्व वचनं मम।
रामं दर्शय धर्मज्ञं यदि किञ्चिदवाप्स्यसि ॥ 2.32.31 ॥
स भार्यावचनं श्रुत्वा शाटीमाच्छाद्य दुश्छदाम्।
स प्रातिष्ठत पन्थानं यत्र रामनिवेशनम् ॥ 2.32.32 ॥
भृग्वङ्गिरसमं दीप्त्या त्रिजटं जनसंसदि।
आ पञ्चमायाः कक्ष्यायाः नैनं कश्चिदवारयत् ॥ 2.32.33 ॥
निर्द्धनो बहुपुत्रोऽस्मि राजपुत्र महायशः।
उञ्छवृत्तिर्वने नित्यं प्रत्यवेक्षस्व मामिति ॥ 2.32.34 ॥
तमुवाच ततो रामः परिहाससमन्वितम् ॥ 2.32.35 ॥
गवां सहस्रमप्येकं न तु विश्राणितं मया।
परिक्षिपसि दण्डेन यावत्तावदवाप्स्यसि ॥ 2.32.36 ॥
स शाटीं त्वरितः कट्यां सम्भ्रान्तः परिवेष्ट्य ताम्।
आविध्य दण्डं चिक्षेप सर्वप्राणेन वेगितः ॥ 2.32.37 ॥
स तीर्त्वा सरयूपारं दण्डस्तस्य कराच्च्युतः।
गोव्रजे बहुसाहस्रे पपातोक्षणसन्निधौ ॥ 2.32.38 ॥
तं परिष्वज्य धर्मात्मा आ तस्मात् सरयूतटात्।
आनयामास ता गोपैस्त्रिजटायाश्रमं प्रति ॥ 2.32.39 ॥
उवाच च ततो रामः तं गार्ग्यमभिसान्त्वयन्।
मन्युर्न खलु कर्त्तव्यः परिहासो ह्ययं मम ॥ 2.32.40 ॥
इदं हि तेजस्तव यद्दुरत्ययं तदेव जिज्ञासितुमिच्छता मया।
इमं भवानर्थमभिप्रचोदितो वृणीष्व किं चेदपरं व्यवस्यति ॥ 2.32.41 ॥
ब्रवीमि सत्येन न तेऽस्ति यन्त्रणा धनं हि यद्यन्मम विप्रकारणात्।
भवत्सु सम्यक् प्रतिपादनेन तन्मयार्जितं प्रीतियशस्करं भवेत् ॥ 2.32.42 ॥
ततः सभार्यस्त्रिजटो महामुनिर्गवामनीकं प्रतिगृह्य मोदितः।
यशोबलप्रीतिसुखोपबृंहिणीस्तदाशिषः प्रत्यवदन्महात्मनः ॥ 2.32.43 ॥
स चापि रामः प्रतिपूर्णमानसो महद्धनं धर्मबलैरुपार्जितम्।
नियोजयामास सुहृज्जने चिराद्यथार्हसम्मानवचः प्रचोदितः ॥ 2.32.44 ॥
द्विजः सुहृद्भृत्यजनोऽथवा तदा दरिद्रभिक्षाचरणश्च योऽभवत्।
न तत्र कश्चिन्न बभूव तर्पितो यथार्हसम्माननदानसम्भ्रमैः ॥ 2.32.45 ॥