एवं श्रुत्वा तु संवादं लक्ष्मणः पूर्वमागतः।
बाष्पपर्याकुलमुखः शोकं सोढुमशक्नुवन् ॥ 2.31.1 ॥
स भ्रातुश्चरणौ गाढं निपीड्य रघुनन्दनः।
सीतामुवाचातियशा राघवं च महाव्रतम् ॥ 2.31.2 ॥
यदि गन्तुं कृता बुद्धिर्वनं मृगगजायुतम्।
अहं त्वाऽनुगमिष्यामि वनमग्रे धनुर्धरः ॥ 2.31.3 ॥
मया समेतोऽरण्यानि बहूनि विचरिष्यसि।
पक्षिभिर्मृगयूथैश्च सङ्घुष्टानि समन्ततः ॥ 2.31.4 ॥
न देवलोकाक्रमणं नामरत्वमहं वृणे।
ऐश्वर्यं वापि लोकानां कामये न त्वया विना ॥ 2.31.5 ॥
एवं ब्रुवाणः सौमित्रिर्वनवासाय निश्चितः।
रामेण बहुभिः सान्त्वैर्निषिद्धः पुनरब्रवीत् ॥ 2.31.6 ॥
अनुज्ञातश्च भवता पूर्वमेव यदस्म्यहम्।
किमिदानीं पुनरिदं क्रियते मे निवारणम् ॥ 2.31.7 ॥
यदर्थं प्रतिषेधो मे क्रियते गन्तुमिच्छतः।
एतदिच्छामि विज्ञातुं संशयोऽयं ममानघ ॥ 2.31.8 ॥
ततोऽब्रवीन्महातेजा रामो लक्ष्मणमग्रतः।
स्थितं प्राग्गामिनं वीरं याचमानं कृताञ्जलिम् ॥ 2.31.9 ॥
स्निग्धो धर्मरतो वीरः सततं सत्पथे स्थितः।
प्रियः प्राणसमो वश्यो भ्राता चापि सखा च मे ॥ 2.31.10 ॥
मयाद्य सह सौमित्रे त्वयि गच्छति तद्वनम्।
को भरिष्यति कौसल्यां सुमित्रां वा यशस्विनीम् ॥ 2.31.11 ॥
अभिवर्षति कामैर्यः पर्जन्यः पृथिवीमिव।
स कामपाशपर्यस्तो महातेजा महीपतिः ॥ 2.31.12 ॥
सा हि राज्यमिदं प्राप्य नृपस्याश्वपतेः सुता।
दुःखितानां सपत्नीनां न करिष्यति शोभनम् ॥ 2.31.13 ॥
न स्मरिष्यति कौसल्यां सुमित्रां च सुदुःखिताम्।
भरतो राज्यमासाद्य कैकेय्यां पर्य्यवस्थितः ॥ 2.31.14 ॥
तामार्यां स्वयमेवेह राजानुग्रहणेन वा।
सौमित्रे भर कौसल्यामुक्तमर्थमिमं चर ॥ 2.31.15 ॥
एवं मम च ते भक्तिर्भविष्यति सुदर्शिता।
धर्मज्ञ गुरुपूजायां धर्मश्चाप्यतुलो महान् ॥ 2.31.16 ॥
एवं कुरुष्व सौमित्रे मत्कृते रघुनन्दन।
अस्माभिर्विप्रहीणाया मातुर्नो न भवेत्सुखम् ॥ 2.31.17 ॥
एवमुक्तस्तु रामेण लक्ष्मणः श्लक्ष्णया गिरा।
प्रत्युवाच तदा रामं वाक्यज्ञो वाक्यकोविदम् ॥ 2.31.18 ॥
तवैव तेजसा वीर भरतः पूजयिष्यति।
कौसल्यां च सुमित्रां च प्रयतो नात्र संशयः ॥ 2.31.19 ॥
कौसल्या बिभृयादार्या सहस्रमपि मद्विधान्।
यस्याः सहस्रं ग्रामाणां सम्प्राप्तमुपजीविनाम् ॥ 2.31.20 ॥
तदात्मभरणे चैव मम मातुस्तथैव च।
पर्याप्ता मद्विधानां च भरणाय यशस्िवनी ॥ 2.31.21 ॥
कुरुष्व मामनुचरं वैधर्म्यं नेह विद्यते।
कृतार्थोहं भविष्यामि तव चार्थः प्रकल्पते ॥ 2.31.22 ॥
धनुरादाय सशरं खनित्रपिटकाधरः।
अग्रतस्ते गमिष्यामि पन्थानमनुदर्शयन् ॥ 2.31.23 ॥
आहरिष्यामि ते नित्यं मूलानि च फलानि च।
वन्यानि यानि चान्यानि स्वाहाराणि तपस्विनाम् ॥ 2.31.24 ॥
भवांस्तु सह वैदेह्या गिरिसानुषु रंस्यते।
अहं सर्वं करिष्यामि जाग्रतः स्वपतश्च ते ॥ 2.31.25 ॥
रामस्त्वनेन वाक्येन सुप्रीतः प्रत्युवाच तम्।
व्रजापृच्छस्व सौमित्रे सर्वमेव सुहृज्जनम् ॥ 2.31.26 ॥
ये च राज्ञो ददौ दिव्ये महात्मा वरुणः स्वयम्।
जनकस्य महायज्ञे धनुषी रौद्रदर्शने ॥ 2.31.27 ॥
अभेद्ये कवचे दिव्ये तूणी चाक्षयसायकौ।
आदित्यविमलौ चोभौ खड्गौ हेमपरिष्कृतौ ॥ 2.31.28 ॥
सत्कृत्य निहितं सर्वमेतदाचार्यसद्मनि।
स त्वमायुधमादाय क्षिप्रमाव्रज लक्ष्मण ॥ 2.31.29 ॥
स सुहृज्जनमामन्त्र्य वनवासाय निश्चितः।
इक्ष्वाकुगुरुमागम्य जग्राहायुधमुत्तमम् ॥ 2.31.30 ॥
तद्दिव्यं राजशार्दूल सत्कृतं माल्यभूषितम्।
रामाय दर्शयामास सौमित्रिः सर्वमायुधम् ॥ 2.31.31 ॥
तमुवाचात्मवान् रामः प्रीत्या लक्ष्मणमागतम्।
काले त्वमागतः सौम्य काङ्क्षिते मम लक्ष्मण ॥ 2.31.32 ॥
अहं प्रदातुमिच्छामि यदिदं मामकं धनम्।
ब्राह्मणेभ्यस्तपस्विभ्यस्त्वया सह परन्तप ॥ 2.31.33 ॥
वसन्तीह दृढं भक्त्या गुरुषु द्विजसत्तमाः।
तेषामपि च मे भूयः सर्वेषां चोपजीविनाम् ॥ 2.31.34 ॥
वसिष्ठपुत्रं तु सुयज्ञमार्यं त्वमानयाशु प्रवरं द्विजानाम्।
अभिप्रयास्यामि वनं समस्तानभ्यर्च्य शिष्टानपरान् द्विजातीन् ॥ 2.31.35 ॥