०३० वनगमनानुज्ञा

सान्त्व्यमाना तु रामेण मैथिली जनकात्मजा।
वनवासनिमित्ताय भर्तारमिदमब्रवीत् ॥ 2.30.1 ॥
सा तमुत्तमसंविग्ना सीता विपुलवक्षसम्।
प्रणयाच्चाभिमानाच्च परिचिक्षेप राघवम् ॥ 2.30.2 ॥
किं त्वाऽमन्यत वैदेहः पिता मे मिथिलाधिपः।
राम जामातरं प्राप्य स्त्रियं पुरुषविग्रहम् ॥ 2.30.3 ॥
अनृतं बत लोकोऽयमज्ञानाद्यद्धि वक्ष्यति।
तेजो नास्ति परं रामे तपतीव दिवाकरे ॥ 2.30.4 ॥
किं हि कृत्वा विषण्णस्त्वं कुतो वा भयमस्ति ते।
यत् परित्यक्तुकामस्त्वं मामनन्यपरायणाम् ॥ 2.30.5 ॥
द्युमत्सेनसुतं वीर सत्यवन्तमनुव्रताम्।
सावित्रीमिव मां विद्धि त्वमात्मवशवर्तिनीम् ॥ 2.30.6 ॥
न त्वहं मनसाप्यन्यं द्रष्टास्मि त्वदृतेऽनघ।
त्वया राघव गच्छेयं यथान्या कुलपांसनी ॥ 2.30.7 ॥
स्वयं तु भार्यां कौमारीं चिरमध्युषितां सतीम्।
शैलूष इव मां राम परेभ्यो दातुमिच्छसि ॥ 2.30.8 ॥
यस्य पथ्यं च रामात्थ यस्य चार्थेऽवरुद्ध्यसे।
त्वं तस्य भव वश्यश्च विधेयश्च सदानघ ॥ 2.30.9 ॥
स मामनादाय वनं न त्वं प्रस्थातुमर्हसि।
तपो वा यदि वाऽरण्यं स्वर्गो वा मे सह त्वया ॥ 2.30.10 ॥
न च मे भविता तत्र कश्चित् पथि परिश्रमः।
पृष्ठतस्तव गच्छन्त्या विहारशयनेष्विव ॥ 2.30.11 ॥
कुशकाशशरेषीका ये च कण्टकिनो द्रुमाः।
तूलाजिनसमस्पर्शा मार्गे मम सह त्वया ॥ 2.30.12 ॥
महावातसमुद्धूतं यन्मामपकरिष्यति।
रजो रमण तन्मन्ये परार्द्ध्यमिव चन्दनम् ॥ 2.30.13 ॥
शाद्वलेषु यथा शिश्ये वनान्ते वनगोचर।
कुथास्तरणतल्पेषु किं स्यात् सुखतरं ततः ॥ 2.30.14 ॥
पत्रं मूलं फलं यत्त्वमल्पं वा यदि वा बहु।
दास्यसि स्वयमाहृत्य तन्मेऽमृतरसोपमम् ॥ 2.30.15 ॥
न मातुर्न पितुस्तत्र स्मरिष्यामि न वेश्मनः।
आर्त्तवान्युपभुञ्जाना पुष्पाणि च फलानि च ॥ 2.30.16 ॥
न च तत्र गतः किञ्चिद्द्रष्टुमर्हसि विप्रियम्।
मत्कृते न च ते शोको न भविष्यामि दुर्भरा ॥ 2.30.17 ॥
यस्त्वया सह स स्वर्गो निरयो यस्त्वया विना।
इति जानन् परां प्रीतिं गच्छ राम मया सह ॥ 2.30.18 ॥
अथ मामेवमव्यग्रां वनं नैव नयिष्यसि।
विषमद्यैव पास्यामि माविशं द्विषतां वशम् ॥ 2.30.19 ॥
पश्चादपि हि दुःखेन मम नैवास्ति जीवितम्।
उज्झितायास्त्वया नाथ तदैव मरणं वरम् ॥ 2.30.20 ॥
इमं हि सहितुं शोकं मुहूर्त्तमपि नोत्सहे।
किं पुनर्दशवर्षाणि त्रीणि चैकं च दुःखिता ॥ 2.30.21 ॥
इति सा शोकसन्तप्ता विलप्य करुणं बहु।
चुक्रोश पतिमायस्ता भृशमालिङ्ग्य सस्वरम् ॥ 2.30.22 ॥
सा विद्धा बहुभिर्वाक्यैर्दिग्धैरिव गजाङ्गना।
चिरसन्नियतं बाष्पं मुमोचाग्निमिवारणिः ॥ 2.30.23 ॥
तस्याः स्फटिकसङ्काशं वारि सन्तापसम्भवम्।
नेत्राभ्यां परिसुस्राव पङ्कजाभ्यामिवोदकम् ॥ 2.30.24 ॥
तच्चैवामलचन्द्राभं मुखमायतलोचनम्।
पर्यशुष्यत बाष्पेण जलोद्धृतमिवाम्बुजम् ॥ 2.30.25 ॥
तां परिष्वज्य बाहुभ्यां विसञ्ज्ञामिव दुःखिताम्।
उवाच वचनं रामः परिविश्वासयंस्तदा ॥ 2.30.26 ॥
न देवि तव दुःखेन स्वर्गमप्यभिरोचये।
न हि मेऽस्ति भयं किञ्चित्स्वयम्भोरिव सर्वतः ॥ 2.30.27 ॥
तव सर्वमभिप्रायमविज्ञाय शुभानने।
वासं न रोचयेऽरण्ये शक्तिमानपि रक्षणे ॥ 2.30.28 ॥
यत्सृष्टासि मया सार्द्धं वनवासाय मैथिलि।
न विहातुं मया शक्या कीर्तिरात्मवता यथा ॥ 2.30.29 ॥
धर्मस्तु गजनासोरु सद्भिराचरितः पुरा।
तं चाहमनुवर्त्तेऽद्य यथा सूर्यं सुवर्चला ॥ 2.30.30 ॥
न खल्वहं न गच्छेयं वनं जनकनन्दिनि।
वचनं तन्नयति मां पितुः सत्योपबृंहितम् ॥ 2.30.31 ॥
एष धर्मस्तु सुश्रोणि पितुर्मातुश्च वश्यता।
अतश्च तं व्यतिक्रम्य नाहं जीवितुमुत्सहे ॥ 2.30.32 ॥
अस्वाधीनं कथं दैवं प्रकारैरभिराध्यते।
स्वाधीनं समतिक्रम्य मातरं पितरं गुरुम् ॥ 2.30.33 ॥
यत् त्रयं तत् त्रयो लोकाः पवित्रं तत्समं भुवि।
नान्यदस्ति शुभापाङ्गे तेनेदमभिराध्यते ॥ 2.30.34 ॥
न सत्यं दानमानौ वा न यज्ञाश्चाप्तदक्षिणाः।
तथा बलकराः सीते यथा सेवा पितुर्हिता ॥ 2.30.35 ॥
स्वर्गो धनं वा धान्यं वा विद्याः पुत्राः सुखानि च।
गुरुवृत्त्यनुरोधेन न किञ्चिदपि दुर्ल्लभम् ॥ 2.30.36 ॥
देवगन्धर्वगोलोकान् ब्रह्मलोकांस्तथा नराः।
प्राप्नुवन्ति महात्मानो मातापितृपरायणाः ॥ 2.30.37 ॥
स मा पिता यथा शास्ति सत्यधर्मपथे स्थितः।
तथा वर्त्तितुमिच्छामि स हि धर्मः सनातनः ॥ 2.30.38 ॥
मम सन्ना मतिः सीते त्वां नेतुं दण्डकावनम्।
वसिष्यामीति सा त्वं मामनुयातुं सुनिश्चिता ॥ 2.30.39 ॥
सा हि सृष्टानवद्याङ्गी वनाय मदिरेक्षणे।
अनुगच्छस्व मां भीरु सहधर्मचरी भव ॥ 2.30.40 ॥
सर्वथा सदृशं सीते मम स्वस्य कुलस्य च।
व्यवसायमतिक्रान्ता कान्ते त्वमतिशोभनम् ॥ 2.30.41 ॥
आरभस्व शुभश्रोणि वनवासक्षमाः क्रियाः।
नेदानीं त्वदृते सीते स्वर्गोऽपि मम रोचते ॥ 2.30.42 ॥
ब्राह्मणेभ्यश्च रत्नानि भिक्षुकेभ्यश्च भोजनम्।
देहि चाशंसमानेभ्यः सन्त्वरस्व च मा चिरम् ॥ 2.30.43 ॥
भूषणानि महार्हाणि वरवस्त्राणि यानि च।
रमणीयाश्च ये केचित् क्रीडार्थाश्चाप्युपस्कराः ॥ 2.30.44 ॥
शयनीयानि यानानि मम चान्€यानि यानि च।
देहि स्वभृत्यवर्गस्य ब्राह्मणानामनन्तरम् ॥ 2.30.45 ॥
अनुकूलं तु सा भर्तुर्ज्ञात्वा गमनमात्मनः।
क्षिप्रं प्रमुदिता देवी दातुमेवोपचक्रमे ॥ 2.30.46 ॥
ततः प्रहृष्टा प्रतिपूर्णमानसा यशस्विनी भर्तुरवेक्ष्य भाषितम्।
धनानि रत्नानि च दातुमङ्गना प्रचक्रमे धर्मभृतां मनस्विनी ॥ 2.30.47 ॥