एतत्तु वचनं श्रुत्वा सीता रामस्य दुःखिता।
प्रसक्ता श्रुमुखी मन्दमिदं वचनमब्रवीत् ॥ 2.29.1 ॥
ये त्वया कीर्त्तिता दोषा वने वस्तव्यतां प्रति।
गुणानित्येव तान् विद्धि तव स्नेहपुरस्कृतान् ॥ 2.29.2 ॥
मृगाः सिंहा गजाश्चैव शार्दूलाः शरभास्तथा।
पक्षिणः सृमराश्चैव ये चान्ये वनचारिणः ॥ 2.29.3 ॥
अदृष्टपूर्वरूपत्वात् सर्वे ते तव राघव।
रूपं दृष्ट्वापसर्पेयुर्भये सर्वे हि बिभ्यति ॥ 2.29.4 ॥
त्वया च सह गन्तव्यं मया गुरुजनाज्ञया।
त्वद्वियोगेन मे राम त्यक्तव्यमिह जीवितम् ॥ 2.29.5 ॥
न च मां त्वत्समीपस्थामपि शक्नोति राघव।
सुराणामीश्वरः शक्रः प्रधर्षयितुमोजसा ॥ 2.29.6 ॥
पतिहीना तु या नारी न सा शक्ष्यति जीवितुम्।
काममेवंविधं राम त्वया मम विदर्शितम् ॥ 2.29.7 ॥
अथ चापि महाप्राज्ञ ब्राह्मणानां मया श्रुतम्।
पुरा पितृगृहे सत्यं वस्तव्यं किल मे वने ॥ 2.29.8 ॥
लक्षणिभ्यो द्विजातिभ्यः श्रुत्वाहं वचनं पुरा।
वनवासकृतोत्साहा नित्यमेव महाबल ॥ 2.29.9 ॥
आदेशो वनवासस्य प्राप्तव्यस्स मया किल।
सा त्वया सह तत्राहं यास्यामि प्रिय नान्यथा ॥ 2.29.10 ॥
कृतादेशा भविष्यामि गमिष्यामि सह त्वया।
कालश्चायं समुत्पन्नः सत्यवाग् भवतु द्विजः ॥ 2.29.11 ॥
वनवासे हि जानामि दुःखानि बहुधा किल।
प्राप्यन्ते नियतं वीर पुरुषैरकृतात्मभिः ॥ 2.29.12 ॥
कन्यया च पितुर्गेहे वनवासः श्रुतो मया।
भिक्षिण्याः साधुवृत्ताया मम मातुरिहाग्रतः ॥ 2.29.13 ॥
प्रसादितश्च वै पूर्वं त्वं वै बहुविधं प्रभो।
गमनं वनवासस्य काङ्क्षितं हि सह त्वया ॥ 2.29.14 ॥
कृतक्षणाहं भद्रते गमनं प्रति राघव।
वनवासस्य शूरस्य चर्या हि मम रोचते ॥ 2.29.15 ॥
शुद्धात्मन् प्रेमभावाद्धि भविष्यामि विकल्मषा।
भर्त्तारमनुगच्छन्ती भर्त्ता हि मम दैवतम् ॥ 2.29.16 ॥
प्रेत्यभावेऽपि कल्याणः सङ्गमो मे सह त्वया ॥ 2.29.17 ॥
इह लोके च पितृभिर्या स्त्री यस्य महामते।
अदृभिर्दत्त स्वधर्मेण प्रेत्यभावेपि तस्य सा ॥ 2.29.18 ॥
एवमस्मात् स्वकां नारीं सुवृत्तां हि पतिव्रताम्।
नाभिरोच्यसे नेतुं त्वं मां केनेह हेतुना ॥ 2.29.19 ॥
भक्तां पतिव्रतां दीनां मां समां सुखदुःखयोः।
नेतुमर्हसि काकुत्स्थ समानसुखदुःखिनीम् ॥ 2.29.20 ॥
यदि मां दुःखिता मेवं वनं नेतुं न चेच्छसि।
विषमग्निं जलं वाहमास्थास्ये मृत्युकारणात् ॥ 2.29.21 ॥
एवं बहुविधं तं सा याचते गमनं प्रति।
नानुमेने महाबाहुस्तां नेतुं विजनं वनम् ॥ 2.29.22 ॥
एवमुक्ता तु सा चिन्तां मैथिली समुपागता।
स्नापयन्तीव गामुष्णैरश्रुभिर्नयनच्युतैः ॥ 2.29.23 ॥
चिन्तयन्तीं तथा तां तु निवर्त्तयितुमात्मवान्।
ताम्रोष्ठीं स तदा सीतां काकुत्स्थो बह्वसान्त्वयत् ॥ 2.29.24 ॥