स एव ब्रुवतीं सीतां धर्मज्ञो धर्मवत्सलः।
न नेतुं कुरुते बुद्धिं वने दुःखानि चिन्तयन् ॥ 2.28.1 ॥
सान्त्वयित्वा पुनस्तां तु बाष्पदूषितलोचनाम्।
निवर्त्तनार्थे ध्ार्मात्मा वाक्यमेतदुवाच ह ॥ 2.28.2 ॥
सीते महाकुलीनासि धर्मे च निरता सदा।
इहाचरस्व धर्मं त्वं मा यथा मनसः सुखम् ॥ 2.28.3 ॥
सीते यथा त्वां वक्ष्यामि तथा कार्यं त्वयाबले।
वने दोषा हि बहवो वदतस्तान्निबोध मे ॥ 2.28.4 ॥
सीते विमुच्यतामेषा वनवासकृता मतिः।
बहुदोषं हि कान्तारं वनमित्यभिधीयते ॥ 2.28.5 ॥
हितबुद्ध्या खलु वचो मयैतदभिधीयते।
सदा सुखं न जानामि दुःखमेव सदा वनम् ॥ 2.28.6 ॥
गिरिनिर्झरसम्भूता गिरिकन्दरवासिनाम्।
सिंहानां निनदा दुःखाः श्रोतुं दुःखमतो वनम् ॥ 2.28.7 ॥
क्रीडमानाश्च विस्रब्धा मत्ताः शून्ये महामृगाः।
दृष्ट्वा समभिवर्त्तन्ते सीते दुःखमतो वनम् ॥ 2.28.8 ॥
सग्राहाः सरितश्चैव पङ्कवत्यश्च दुस्तराः।
मत्तैरपि गजैर्नित्यमतो दुःखतरं वनम् ॥ 2.28.9 ॥
लताकण्टकसङ्कीर्णाः कृकवाकूपनादिताः।
निरपाश्च सुदुर्गाश्च मार्गा दुःखमतो वनम् ॥ 2.28.10 ॥
सुप्यते पर्णशय्यासु स्वयम्भग्नासु भूतले।
रात्रिषु श्रमखिन्नेन तस्माद्दुःखतरं वनम् ॥ 2.28.11 ॥
अहोरात्रं च सन्तोषः कर्त्तव्यो नियतात्मना।
फलैर्वृक्षावपतितैः सीते दुःखमतो वनम् ॥ 2.28.12 ॥
उपवासश्च कर्तव्यो यथाप्राणेन मैथिलि।
जटाभारश्च कर्त्तव्यो वल्कलाम्बरधारिणा ॥ 2.28.13 ॥
देवतानां पितॄणां च कर्तव्यं विधिपूर्वकम्।
प्राप्तानामतिथीनां च नित्यशः प्रतिपूजनम् ॥ 2.28.14 ॥
कार्यस्त्रिरभिषेकश्च कालेकाले च नित्यशः।
चरता नियमेनैव तस्माद्दुःखतरं वनम् ॥ 2.28.15 ॥
उपहारश्च कर्तव्यः कुसुमैः स्वयमाहृतैः।
आर्षेण विधिना वेद्यां बाले दुःखमतो वनम् ॥ 2.28.16 ॥
यथालब्धपेन सन्तोषः कर्त्तव्यस्तेन मैथिलि।
यताहारैर्वचनरैर्नित्यं दुःखमतो वनम् ॥ 2.28.17 ॥
अतीव वातास्तिमिरं बुभुक्षा चात्र नित्यशः।
भयानि च महान्त्यत्र ततो दुःखतरं वनम् ॥ 2.28.18 ॥
सरीसृपाश्च बहवो बहुरूपाश्च भामिनि।
चरन्ति पृथिवीं दर्पात्ततो दुःखतरं वनम् ॥ 2.28.19 ॥
नदीनिलयनाः सर्पा नदीकुटिलगामिनः।
तिष्ठन्त्यावृत्य पन्थानं ततो दुःखतरं वनम् ॥ 2.28.20 ॥
पतङ्गा वृश्चिकाः कीटा दंशाश्च मशकैः सह।
बाधन्ते नित्यमबले सर्वं दुःखमतो वनम् ॥ 2.28.21 ॥
द्रुमाः कण्टकिनश्चैव कुशकाशाश्च भामिनि।
वने व्याकुलशाखाग्रास्तेन दुःखतरं वनम् ॥ 2.28.22 ॥
कायक्लेशाश्च बहवो भयानि विविधानि च।
अरण्यवासे वसतो दुःखमेव ततो वनम् ॥ 2.28.23 ॥
क्रोधलोभौ विमोक्तव्यौ कर्त्तव्या तपसे मतिः।
न भेतव्यं च भेतव्ये नित्यं दुःखमतो वनम् ॥ 2.28.24 ॥
तदलं ते वनं गत्वा क्षमं न हि वनं तव।
विमृशन्निह पश्यामि बहुदोषतरं वनम् ॥ 2.28.25 ॥
वनं तु नेतुं न कृता मतिस्तदा बभूव रामेण यदा महात्मना।
न तस्य सीता वचनं चकार तत् ततोऽब्रवीद्राममिदं सुदुःखिता ॥ 2.28.26 ॥