०२७ सीतायाः वनगमननिश्चयः

एवमुक्ता तु वैदेही प्रियार्हा प्रियवादिनी।
प्रणयादेव सङ्क्रुद्धा भर्त्तारमिदमब्रवीत् ॥ 2.27.1 ॥
किमिदं भाषसे राम वाक्यं लघुतया ध्रुवम्।
त्वया यदपहास्यं मे श्रुत्वा नरवरात्मज ॥ 2.27.2 ॥
आर्यपुत्र पिता माता भ्राता पुत्रस्तथा स्नुषा।
स्वानि पुण्यानि भुञ्जानाः स्वस्वं भाग्यमुपासते ॥ 2.27.3 ॥
भर्तुर्भाग्यं तु भार्य्यैका प्राप्नोति पुरुषर्षभ।
अतश्चैवाहमादिष्टा वने वस्तव्यमित्यपि ॥ 2.27.4 ॥
न पिता नात्मजो राम न माता न सखीजनः।
इह प्रेत्य च नारीणां पतिरेको गतिः सदा ॥ 2.27.5 ॥
यदि त्वं प्रस्थितो दुर्गं वनमद्यैव राघव।
अग्रतस्ते गमिष्यामि मृद्नन्ती कुशकण्टकान् ॥ 2.27.6 ॥
ईर्ष्यारोषौ बहिष्कृत्य भुक्तशेषमिवोदकम्।
नय मां वीर विस्रब्धः पापं मयि न विद्यते ॥ 2.27.7 ॥
प्रासादाग्रैर्विमानैर्वा वैहायसगतेन वा।
सर्वावस्थागता भर्तुः पादच्छाया विशिष्यते ॥ 2.27.8 ॥
अनुशिष्टाऽस्मि मात्रा च पित्रा च विविधाश्रयम्।
नास्मि सम्प्रति वक्तव्या वर्त्तितव्यं यथा मया ॥ 2.27.9 ॥
अहं दुर्गं गमिष्यामि वनं पुरुषवर्जितम्।
नानामृगगणाकीर्णं शार्दूलवृकसेवितम् ॥ 2.27.10 ॥
सुखं वने निवत्स्यामि यथैव भवने पितुः।
अचिन्तयन्ती त्रीन् लोकान् चिन्तयन्ती पतिव्रतम् ॥ 2.27.11 ॥
शुश्रूषमाणा ते नित्यं नियता ब्रह्मचारिणी।
सह रंस्ये त्वया वीर वनेषु मधुगन्धिषु ॥ 2.27.12 ॥
त्वं हि कर्तुं वने शक्तो राम सम्परिपालनम्।
अन्यस्यापि जनस्येह किम्पुनर्मम मानद ॥ 2.27.13 ॥
सह त्वया गमिष्यामि वनमद्य न संशयः।
नाहं शक्या महाभाग निवर्त्तयितुमुद्यता ॥ 2.27.14 ॥
फलमूलाशना नित्यं भविष्यामि न संशयः।
न ते दुःखं करिष्यामि निवसन्ती सह त्वया ॥ 2.27.15 ॥
इच्€छामि सरितः शैलान् पल्वलानि वनानि च।
द्रष्टुं सर्वत्र निर्भीता त्वया नाथेन धीमता ॥ 2.27.16 ॥
हंसकारण्डवाकीर्णाः पद्मिनीः साधु पुष्पिताः।
इच्छेयं सुखिनी द्रष्टुं त्वया वीरेण सङ्गता ॥ 2.27.17 ॥
अभिषेकं करिष्यामि तासु नित्यं यतव्रता।
सह त्वया विशालाक्ष रंस्ये परमनन्दिनी ॥ 2.27.18 ॥
एवं वर्षसहस्राणां शतं वाऽहं त्वया सह।
व्यतिक्रमं न वेत्स्यामि स्वर्गोऽपि न हि मे मतः ॥ 2.27.19 ॥
स्वर्गोऽपि च विना वासो भविता यदि राघव।
त्वया मम नरव्याघ्र नाहं तमपि रोचये ॥ 2.27.20 ॥
अहं गमिष्यामि वनं सुदुर्गमं मृगायुतं वानरवारणैर्युतम्।
वने निवत्स्यामि यथा पितुर्गृहे तवैव पादावुपगृह्य संयता ॥ 2.27.21 ॥
अनन्यभावामनुरक्तचेतसं त्वया वियुक्तां मरणाय निश्चिताम्।
नयस्व मां साधु कुरुष्व याचनां न ते मयाऽतो गुरुता भविष्यति ॥ 2.27.22 ॥
तथा ब्रुवाणामपि धर्मवत्सलो न च स्म सीतां नृवरो निनीषति।
उवाच चैनां बहु सन्निवर्त्तने वने निवासस्य च दुःखितां प्रति ॥ 2.27.23 ॥