०२६ सीता-रामयोर्संवादः

अभिवाद्य च कौसल्यां रामः सम्प्रस्थितो वनम्।
कृतस्वस्त्ययनो मात्रा धर्मिष्ठे वर्त्मनि स्थितः ॥ 2.26.1 ॥
विराजयन् राजसुतो राजमार्गं नरैर्वृतम्।
हृदयान्याममन्थेव जनस्य गुणवत्तया ॥ 2.26.2 ॥
वैदेही चापि तत्सर्वं न शुश्राव तपस्विनी।
तदेव हृदि तस्याश्च यौवराज्याभिषेचनम् ॥ 2.26.3 ॥
देवकार्यं स्वयं कृत्वा कृत्ज्ञा हृष्टचेतना।
अभिज्ञा राजधर्माणां राजपुत्रं प्र€तीक्षते ॥ 2.26.4 ॥
प्रविवेशाथ रामस्तु स्वं वेश्म सुविभूषितम्।
प्रहृष्टजनसम्पूर्णं ह्रिया किञ्चिदवाङ्मुखः ॥ 2.26.5 ॥
अथ सीता समुत्पत्य वेपमाना च तं पतिम्।
अपश्यत् शोकसन्तप्तं चिन्ताव्याकुलितेन्द्रियम् ॥ 2.26.6 ॥
तां दृष्ट्वा सह धर्मात्मा न शशाक मनोगतम्।
तं शोकं राघवः सोढुं ततो विवृततां गतः ॥ 2.26.7 ॥
विवर्णवदनं दृष्ट्वा तं प्रस्विन्नममर्षणम्।
आह दुःखाभिसन्तप्ता किमिदानीमिदं प्रभो ॥ 2.26.8 ॥
अद्य बार्हस्पतः श्रीमानुक्तः पुष्यो नु राघव।
प्रोच्यते ब्राह्मणैः प्राज्ञैः केन त्वमसि दुर्मनाः ॥ 2.26.9 ॥
न ते शतशलाकेन जलफेननिभेन च।
आवृतं वदनं वल्गु छत्रेणापि विराजते ॥ 2.26.10 ॥
व्यजनाभ्यां च मुख्याभ्यां शतपत्रनिभेक्षणम्।
चन्द्रहंसप्रकाशाभ्यां वीज्यते न तवाननम् ॥ 2.26.11 ॥
वाग्ग्मिनो वन्दिनश्चापि प्रहृष्टास्त्वां नरर्षभ।
स्तुवन्तो नात्र दृश्यन्ते मङ्गलैः सूत मागधाः ॥ 2.26.12 ॥
न ते क्षौद्रं च दधि च ब्राह्मणा वेदपारगाः।
मूर्ध्नि मूर्द्धाभिषिक्तस्य दधति स्म विधानतः ॥ 2.26.13 ॥
न त्वां प्रकृतयः सर्वाः श्रेणीमुख्याश्च भूषिताः।
अनुव्रजितुमिच्छन्ति पौरजानपदास्तथा ॥ 2.26.14 ॥
चतुर्भिर्वेगसम्पन्नैर्हयैः काञ्चनभूषितैः।
मुख्यः पुष्यरथो युक्ताः किं न गच्छति तेऽग्रतः ॥ 2.26.15 ॥
न हस्ती चाग्रतः श्रीमांस्तव लक्षणपूजितः।
प्रयाणे लक्ष्यते वीर कृष्णमेघगिरिप्रभः ॥ 2.26.16 ॥
न च काञ्चनचित्रं ते पश्यामि प्रियदर्शन।
भद्रासनं पुरस्कृत्य यातं वीरपुरस्कृतम् ॥ 2.26.17 ॥
अभिषेको यथा सज्जः किमिदानीमिदं तव।
अपूर्वो मुखवर्णश्च न प्रहर्षश्च लक्ष्यते ॥ 2.26.18 ॥
इतीव विलपन्तीं तां प्रोवाच रघुनन्दनः।
सीते तत्रभवांस्तातः प्रव्राजयति मां वनम् ॥ 2.26.19 ॥
कुले महति सम्भूते धर्मज्ञे धर्मचारिणि।
श्रृणु जानकि येनेदं क्रमेणाभ्यागतं मम ॥ 2.26.20 ॥
राज्ञा सत्यप्रतिज्ञेन पित्रा दशरथेन च।
कैकेय्यै मम मात्रे तु पुरा दत्तौ महावरौ ॥ 2.26.21 ॥
तयाऽद्य मम सज्जेऽस्मिन्नभिषेके नृपोद्यते।
प्रचोदितः स समयो धर्मेण प्रतिनिर्जितः ॥ 2.26.22 ॥
पित्रा मे भरतश्चापि यौवराज्ये नियोजितः।
सोऽहं त्वामागतो द्रष्टुं प्रस्थितो विजनं वनम् ॥ 2.26.23 ॥
भरतस्य समीपे तु नाहं कथ्यः कदाचन ॥ 2.26.24 ॥
ऋद्धियुक्ता हि पुरुषा न सहन्ते परस्तवम्।
तस्मान्न ते गुणाः कथ्या भरतस्याग्रतो मम ॥ 2.26.25 ॥
नापि त्वं तेन भर्तव्या विशेषेण कदाचन।
अनुकूलतया शक्यं समीपे त्वस्य वर्तितुम् ॥ 2.26.26 ॥
तस्मै दत्तं नृपतिना यौवराज्यं सनातनम्।
स प्रसाद्यस्त्वया सीते नृपतिश्च विशेषतः ॥ 2.26.27 ॥
अहं चापि प्रतिज्ञां तां गुरोः समनुपालयन्।
वनमद्यैव यास्यामि स्थिरा भव मनस्विनी ॥ 2.26.28 ॥
याते च मयि कल्याणि वनं मुनिनिषेवितम्।
व्रतोपवासपरया भवितव्यं त्वयाऽनघे ॥ 2.26.29 ॥
काल्यमुत्थाय देवानां कृत्वा पूजां यथाविधि।
वन्दितव्यो दशरथः पिता मम नरेश्वरः ॥ 2.26.30 ॥
माता च मम कौसल्या वृद्धा सन्तापकर्शिता।
धर्ममेवाग्रतः कृत्वा त्वत्तः सम्मानमर्हति ॥ 2.26.31 ॥
वन्दितव्याश्च ते नित्यं याः शेषा मम मातरः।
स्नेहप्रणयसम्भोगैः समा हि मम मातरः ॥ 2.26.32 ॥
भ्रातृपुत्रसमौ चापि द्रष्टव्यौ च विशेषतः।
त्वया भरतशत्रुघ्नौ प्राणैः प्रियतरौ मम ॥ 2.26.33 ॥
विप्रिपवयं न च कर्त्तव्यं भरतस्य कदाचन।
स हि राजा प्रभुश्चैव देशस्य च कुलस्य च ॥ 2.26.34 ॥
आराधिता हि शीलेन प्रयत्नैश्चोपसेविताः।
राजानः सम्प्रसीदन्ति प्रकुप्यन्ति विपर्यये ॥ 2.26.35 ॥
औरसानपि पुत्रान् हि त्यजन्त्यहितकारिणः।
समर्थान् सम्प्रगृह्णन्ति जनानपि नराधिपाः ॥ 2.26.36 ॥
सा त्वं वसेह कल्याणि राज्ञः समनुवर्तिनी।
भरतस्य रता धर्मे सत्यव्रतपरायणा ॥ 2.26.37 ॥
अहं गमिष्यामि महावनं प्रिये त्वया हि वस्तव्यमिहैव भामिनि।
यथा व्यलीकं कुरुषे न कस्यचित्तथा त्वया कार्यमिदं वचो मम ॥ 2.26.38 ॥