०२५ कौसल्याशीर्वचनम्

साऽपनीय तमायासमुपस्पृश्य जलं शुचिः।
चकार माता रामस्य मङ्गलानि मनस्विनी ॥ 2.25.1 ॥
न शक्यसे वारयितुं गच्छेदानीं रघूत्तम।
शीघ्रं च विनिवर्त्तस्व वर्त्तस्व च सतां क्रमे ॥ 2.25.2 ॥
यं पालयसि धर्मं त्वं धृत्या च नियमेन च।
स वै राघवशार्दूल धर्मस्त्वामभिरक्षतु ॥ 2.25.3 ॥
येभ्यः प्रणमसे पुत्र चैत्येष्वायतनेषु च।
ते च त्वामभिरक्षन्तु वने सह महर्षिभिः ॥ 2.25.4 ॥
यानि दत्तानि तेऽस्त्राणि विश्वामित्रेण धीमता।
तानि त्वामभिरक्षन्तु गुणैः समुदितं सदा ॥ 2.25.5 ॥
पितृशुश्रूषया पुत्र मातृशुश्रूषया तथा।
सत्येन च महाबाहो चिरञ्जीवाभिरक्षितः ॥ 2.25.6 ॥
स्थण्डिलानि विचित्राणि शैला वृक्षाः क्षुपा ह्रदाः।
पतङ्गाः पन्नगाः सिंहास्€त्वां रक्षन्तु नरोत्तम ॥ 2.25.7 ॥
स्वस्ति साध्याश्च विश्वे च मरुतश्च महर्षयः।
स्वस्ति धाता विधाता च स्वस्ति पूषा भगोऽर्यमा ॥ 2.25.8 ॥
लोकपालाश्च ते सर्वे वासवप्रमुखास्तथा।
ऋतवश्चैव पक्षाश्च मासास्संवत्सराः क्षपाः ॥ 2.25.9 ॥
दिनानि च मुहूर्त्ताश्च स्वस्ति कुर्वन्तु ते सदा।
स्मृतिर्धृतिश्च धर्मश्च पातु त्वां पुत्र सर्वतः ॥ 2.25.10 ॥
स्कन्दश्च भगवान् देवः सोमश्च सबृहस्पतिः।
सप्तर्षयो नारदश्च ते त्वां रक्षन्तु सर्वतः ॥ 2.25.11 ॥
याश्चापि सर्वतः सिद्धा दिशश्च सदिगीश्वराः।
स्तुता मया वने तस्मिन् पान्तु त्वां पुत्र नित्यशः ॥ 2.25.12 ॥
शैलाः सर्वे समुद्राश्च राजा वरुण एव च।
द्यौरन्तरिक्षं पृथिवी नद्यः सर्वास्तथैव च ॥ 2.25.13 ॥
नक्षत्राणि च सर्वाणि ग्रहाश्च सहदेवताः।
अहोरात्रे तथा सन्ध्ये पान्तु त्वां वनमाश्रितम् ॥ 2.25.14 ॥
ऋतवश्चैव षट् पुण्या मासाः संवत्सरास्तथा।
कलाश्च काष्ठाश्च तथा तव शर्म दिशन्तु ते ॥ 2.25.15 ॥
महावने विचरतो मुनिवेषस्य धीमतः।
तवादित्याश्च दैत्याश्च भवन्तु सुखदास्सदा ॥ 2.25.16 ॥
राक्षसानां पिशाचानां रौद्राणां क्रूरकर्मणाम्।
क्रव्यादानाञ्च सर्वेषां माभूत्पुत्रक ते भयम् ॥ 2.25.17 ॥
प्लवगा वृश्चिका दंशा मशकाश्चैवकानने।
सरीसृपाश्च कीटाश्च माभूवन् गहने तव ॥ 2.25.18 ॥
महाद्विपाश्च सिंहाश्च व्याघ्रा ऋक्षाश्च दंष्ट्रिणः।
महिषाः शृङ्गिणो रौद्रा न ते द्रुह्यन्तु पुत्रक ॥ 2.25.19 ॥
नृमांसभोजना रौद्रा ये चान्ये सत्त्वजातयः।
मा च त्वां हिंसिषुः पुत्र मया सम्पूजितास्त्विह ॥ 2.25.20 ॥
आगमास्ते शिवाः सन्तु सिद्ध्यन्तु च पराक्रमाः।
सर्वसम्पत्तये राम स्वस्तिमान् गच्छ पुत्रक ॥ 2.25.21 ॥
स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यः पुनःपुनः।
सर्वेभ्यश्चैव देवेभ्यो ये च ते परिपन्थिनः ॥ 2.25.22 ॥
गुरुः सोमश्च सूर्यश्च धनदोऽथ यमस्तथा।
पान्तु त्वामर्चिता राम दण्डकारण्यवासिनम् ॥ 2.25.23 ॥
अग्निर्वायुस्तथा धूमो मन्त्राश्चर्षिमुखाच्च्युताः।
उपस्पर्शनकाले तु पान्तु त्वां रघुनन्दन ॥ 2.25.24 ॥
सर्वलोकप्रभुर्ब्रह्मा भूतभर्त्ता तथर्षयः।
ये च शेषाः सुरास्ते त्वां रक्षन्तु वनवासिनम् ॥ 2.25.25 ॥
इति माल्यैः सुरगणान् गन्धैश्चापि यशस्विनी।
स्तुतिभिश्चानुकूलाभिरानर्चायतलोचना ॥ 2.25.26 ॥
ज्वलनं समुपादाय ब्राह्मणेन महात्मना।
हावयामास विधिना राममङ्गलकारणात् ॥ 2.25.27 ॥
घृतं श्वेतानि माल्यानि समिधः श्वेतसर्षपान्।
उपसम्पादयामास कौसल्या परमाङ्गना ॥ 2.25.28 ॥
उपाध्यायः स विधिना हुत्वा शान्तिमनामयम्।
हुतहव्यावशेषेण बाह्यं बलिमकल्पयत् ॥ 2.25.29 ॥
मधुदध्यक्षतघृतैः स्वस्ति वाच्य द्विजांस्ततः।
वाचयामास रामस्य वने स्वस्त्ययनक्रियाः ॥ 2.25.30 ॥
ततस्तस्मै द्विजेन्द्राय राममाता यशस्विनी।
दक्षिणां प्रददौ काम्यां राघवं चेदमब्रवीत् ॥ 2.25.31 ॥
यन्मङ्गलं सहस्राक्षे सर्वदेवनमस्कृते।
वृत्रनाशे समभवत्तत्ते भवतु मङ्गलम् ॥ 2.25.32 ॥
यन्मङ्गलं सुपर्णस्य विनताऽकल्पयत् पुरा।
अमृतं प्रार्थयानस्य तत्ते भवतु मङ्गलम् ॥ 2.25.33 ॥
अमृतोत्पादने दैत्यान् घ्नतो वज्रधरस्य यत्।
अदितिर्मङ्गलं प्रादात्तत्ते भवतु मङ्गलम् ॥ 2.25.34 ॥
त्रीन् विक्रमान् प्रक्रमतो विष्णोरमिततेजसः।
यदासीन्मङ्गलं राम तत्ते भवतु मङ्गलम् ॥ 2.25.35 ॥
ऋतवः सागरा द्वीपा वेदा लोका दिशश्चते।
मङ्गलानि महाबाहो दिशन्तु शुभमङ्गलाः ॥ 2.25.36 ॥
इति पुत्रस्य शेषांश्च कृत्वा शिरसि भामिनी।
गन्धैश्चापि समालभ्य राममायतलोचना ॥ 2.25.37 ॥
ओषधीं चापि सिद्धार्थां विशल्यकरणीं शुभाम्।
चकार रक्षां कौसल्या मन्त्रैरभिजजाप च ॥ 2.25.38 ॥
उवाचातिप्रहृष्टेव सा दुःखवशवर्त्तिनी।
वाङ्मात्रेण न भावेन वाचा संसज्जमानया ॥ 2.25.39 ॥
आनम्य मूर्ध्नि चाघ्राय परिष्वज्य यशस्विनी।
अवदत् पुत्र सिद्धार्थो गच्छ राम यथासुखम् ॥ 2.25.40 ॥
अरोगं सर्वसिद्धार्थमयोध्यां पुनरागतम्।
पश्यामि त्वां सुखं वत्स सुस्थितं राजवर्त्मनि ॥ 2.25.41 ॥
प्रणष्टदुःखसङ्कल्पा हर्षविद्योतितानना।
द्रक्ष्यामि त्वां वनात् प्राप्तं पूर्णचन्द्रमिवोदितम् ॥ 2.25.42 ॥
भद्रासनगतं राम वनवासादिहागतम्।
द्रक्ष्यामि च पुनस्त्वां तु तीर्णवन्तं पितुर्वचः ॥ 2.25.43 ॥
मङ्गलैरुपसम्पन्नो वनवासादिहागतः।
वध्वा मम च नित्यं त्वं कामान् संवर्द्ध याहि भो ॥ 2.25.44 ॥
मयार्चिता देवगणाः शिवादयो महर्षयो भूतमहासुरोरगाः।
अभिप्रयातस्य वनं चिराय ते हितानि काङ्क्षन्तु दिशश्च राघव ॥ 2.25.45 ॥
इतीव चाश्रुप्रतिपूर्णलोचना समाप्य च स्वस्त्ययनं यथाविधि।
प्रदक्षिणं चैव चकार राघवं पुनःपुनश्चापि निपीड्य सस्वजे ॥ 2.25.46 ॥
तथा तु देव्या स कृतप्रदक्षिणो निपीड्य मातुश्चरणौ पुनःपुनः।
जगाम सीतानिलयं महायशास्स राघवः प्रज्वलितः स्वयाश्रिया ॥ 2.25.47 ॥