०२४ रामं प्रति कौसल्योपदेशः

तं समीक्ष्य त्ववहितं पितुर्निर्देशपालने।
कौसल्या बाष्पसंरुद्धा वचो धर्मिष्ठमब्रवीत् ॥ 2.24.1 ॥
अदृष्टदुःखो धर्मात्मा सर्वभूतप्रियंवदः।
मयि जातो दशरथात् कथमुञ्छेन वर्त्तयेत् ॥ 2.24.2 ॥
यस्य भृत्याश्च दासाश्च मृष्टान्यन्नानि भुञ्जते।
कथं स भोक्ष्यते नाथो वने मूलफलान्ययम् ॥ 2.24.3 ॥
क एतच्छ्रद्दधेत् श्रुत्वा कस्य वा न भेवद्भयम्।
गुणवान् दयितो राजा राघवो यद्विवास्यते ॥ 2.24.4 ॥
नूनं तु बलवान् लोके कृतान्तः सर्वमादिशन्।
लोके रामाभिरामस्त्वं वनं यत्र गमिष्यसि ॥ 2.24.5 ॥
अयं तु मामात्मभवस्तवादर्शनमारुतः।
विलापदुःखसमिधो रुदिताश्रुहुताहुतिः ॥ 2.24.6 ॥
चिन्ताबाष्पमहाधूमस्तवादर्शनचित्तजः।
कर्शयित्वा भृशं पुत्र निश्वासायाससम्भवः ॥ 2.24.7 ॥
त्वया विहीनामिह मां शोकाग्निरतुलो महान्।
प्रधक्ष्यति यथा कक्षं चित्रभानुर्हिमात्यये ॥ 2.24.8 ॥
कथं हि धेनुः स्वं वत्सं गच्छन्तं नानुगच्छति।
अहं त्वाऽनुगमिष्यामि पुत्र यत्र गमिष्यसि ॥ 2.24.9 ॥
तथा निगदितं मात्रा तद्वाक्यं पुरुषर्षभः।
श्रुत्वा रामोऽब्रवीद्वाक्यं मातरं भृशदुःखिताम् ॥ 2.24.10 ॥
कैकेय्या वञ्चितो राजा मयि चारण्यमाश्रिते।
भवत्या च परित्यक्तो न नूनं वर्त्तयिष्यति ॥ 2.24.11 ॥
भर्तुः किल परित्यागो नृशंसः केवलं स्त्रियाः।
स भवत्या न कर्तव्यो मनसापि विगर्हितः ॥ 2.24.12 ॥
यावज्जीवति काकुत्स्थः पिता मे जगतीपतिः।
शुश्रूषा क्रियतां तावत् स हि धर्मस्सनातनः ॥ 2.24.13 ॥
एवमुक्ता तु रामेण कौसल्या शुभदर्शना।
तथैत्युवाच सुप्रीता राममक्लिष्टकारिणम् ॥ 2.24.14 ॥
एवमुक्तस्तु वचनं रामो धर्मभृतां वरः।
भूयस्तामब्रवीद्वाक्यं मातरं भृशदुःखिताम् ॥ 2.24.15 ॥
मया चैव भवत्या च कर्त्तव्यं वचनं पितुः।
राजा भर्त्ता गुरुः श्रेष्ठः सर्वेषामीश्वरः प्रभुः ॥ 2.24.16 ॥
इमानि तु महारण्ये विहृत्य नव पञ्च च।
वर्षाणि परमप्रीतः स्थास्यामि वचने तव ॥ 2.24.17 ॥
एवमुक्ता प्रियं पुत्रबाष्पपूर्णानना तदा।
उवाच परमार्ता तु कौसल्या पुत्रवत्सला ॥ 2.24.18 ॥
नय मामपि काकुत्स्थ वनं वन्यां मृगीमिव।
यदि ते गमने बुद्धिः कृता पितुरपेक्षया ॥ 2.24.19 ॥
तां तथा रुदतीं रामो रुदन् वचनमब्रवीत् ॥ 2.24.20 ॥
जीवन्त्या हि स्त्रिया भर्त्ता दैवतं प्रभुरेव च।
भवत्या मम चैवाद्य राजा प्रभवति प्रभुः ॥ 2.24.21 ॥
भरतश्चापि धर्मात्मा सर्वभूतप्रियंवदः।
भवती मनुवर्त्ते€त स हि धर्मरतः सदा ॥ 2.24.22 ॥
यथा मयि तु निष्क्रान्ते पुत्रशोकेन पार्थिवः।
श्रमं नावाप्नुयात्किञ्चिदप्रमत्ता तथा कुरु ॥ 2.24.23 ॥
दारुणश्चाप्ययं शोको यथैनं न विनाशयेत्।
राज्ञो वृद्धस्य सततं हितं चर समाहिता ॥ 2.24.24 ॥
व्रतोपवासनिरता या नारी परमोत्तमा।
भर्त्तारं नानुवर्त्तेत सा तु पापगतिर्भवेत् ॥ 2.24.25 ॥
भर्तृशुश्रूषया नारी लभते स्वर्गमुत्तमम्।
अपि या निर्नमस्कारा निवृत्ता देवपूजनात् ॥ 2.24.26 ॥
शुश्रूषामेव कुर्वीत भर्तुः प्रियहिते रता।
एष धर्मः पुरा दृष्टो लोके वेदे श्रुतः स्मृतः ॥ 2.24.27 ॥
अग्निकार्येषु च सदा सुमनोभिश्च देवताः।
पूज्यास्ते मत्कृते देवि ब्राह्मणाश्चैव सुव्रताः ॥ 2.24.28 ॥
एवं कालं प्रतीक्षस्व ममागमनकाङ्क्षिणी।
नियतानियताहारा भर्तृशुश्रूषणे रता ॥ 2.24.29 ॥
प्राप्स्यसे परमं कामं मयि प्रत्यागते सति।
यदि धर्मभृतां श्रेष्ठो धारयिष्यति जीवितम् ॥ 2.24.30 ॥
एवमुक्ता तु रामेण बाष्पपर्याकुलेक्षणा।
कौसल्या पुत्रशोकार्त्ता रामं वचनमब्रवीत् ॥ 2.24.31 ॥
गमने सुकृतां बुद्धिं न ते शक्नोमि पुत्रक।
विनिवर्त्तयितुं वीर नूनं कालो दुरत्ययः ॥ 2.24.32 ॥
गच्छ पुत्रत्वमेकाग्रो भद्रं तेऽस्तु सदा विभो।
पुनस्त्वयि निवृत्ते तु भविष्यामि गतक्लमा ॥ 2.24.33 ॥
प्रत्यागते महाभागे कृतार्थेचरितव्रते।
पितुरानृण्यतां प्राप्ते त्वयि लप्स्ये परं सुखम् ॥ 2.24.34 ॥
कृतान्तस्य गतिः पुत्र दुर्विभाव्या सदा भुवि।
यस्त्वां सञ्चोदयति मे वच आच्छिद्य राघव ॥ 2.24.35 ॥
गच्छेदानीं महाबाहो क्षेमेण पुनरागतः।
नन्दयिष्यसि मां पुत्र साम्ना वाक्येन चारुणा ॥ 2.24.36 ॥
अपीदानीं स कालः स्यात् वनात् प्रत्यागतं पुनः।
यत्त्वां पुत्रक पश्येयं जटावल्कलधारिणम् ॥ 2.24.37 ॥
तथा हि रामं वनवासनिश्चितं समीक्ष्य देवी परमेण चेतसा।
उवाच रामं शुभलक्षणं वचो बभूव च स्वस्त्ययनाभिकाङ्क्षिणी ॥ 2.24.38 ॥