इति ब्रुवति रामे तु लक्ष्मणोऽधश्शिरा मुहुः।
श्रुत्वा मध्यं जगामेव मनसा दुःखहर्षयोः ॥ 2.23.1 ॥
तदा तु बद्ध्वा भ्रुकुटीं भ्रुवोर्मध्ये नरर्षभः।
निशश्वास महासर्पो बिलस्थ इव रोषितः ॥ 2.23.2 ॥
तस्य दुष्प्रतिवीक्षं तद्भ्रुकुटीसहितं तदा।
बभौ क्रुद्धस्य सिंहस्य मुखस्य सदृशं मुखम् ॥ 2.23.3 ॥
तिर्यगूर्ध्वं शरीरे च पातयित्वा शिरोधराम्।
अग्राक्ष्णा वीक्षमाणस्तु तिर्यग् भ्रातरमब्रवीत् ॥ 2.23.4 ॥
अस्थाने सम्भ्रमो यस्य जातो वै सुमहानयम्।
धर्मदोषप्रसङ्गेन लोकस्यानतिशङ्कया ॥ 2.23.5 ॥
कथं ह्येतदसम्भ्रान्तस्त्वद्विधो वक्तुमर्हति।
यथा दैवमशौण्डीरं शौण्डीर क्षत्रियर्षभ ॥ 2.23.6 ॥
किन्नाम कृपणं दैवमशक्तमभिशंससि।
पापयोस्ते कथं नाम तयोः शङ्का न विद्यते ॥ 2.23.7 ॥
सन्ति धर्मोपधाः श्लक्ष्णा धर्मात्मन् किं न बुध्यसे।
तयोः सुचरितं स्वार्थं शाठ्यात् परिजिहीर्षतोः ॥ 2.23.8 ॥
यदि नैवं व्यवसितं स्याद्धि प्रागेव राघव।
तयोः प्रागेव दत्तश्च स्याद्वरः प्रकृतश्च सः ॥ 2.23.9 ॥
लोकविद्विष्टमारब्धं त्वदन्यस्याभिषेचनम्।
नोत्सहे सहितुं वीर तत्र मे क्षन्तुमर्हसि ॥ 2.23.10 ॥
येनेयमागता द्वैधं तव बुद्धिर्महामते।
स हि धर्मो मम द्वेष्यः प्रसङ्गाद्यस्य मुह्यसि ॥ 2.23.11 ॥
कथं त्वं कर्मणा शक्तः कैकेयीवशवर्त्तिनः।
करिष्यसि पितुर्वाक्यमधर्मिष्ठं विगर्हितम् ॥ 2.23.12 ॥
यद्ययं किल्बिषाद्भेदः कृतोऽप्येवं न गृह्यते।
जायते तत्र मे दुःखं धर्मसङ्गश्च गर्हितः ॥ 2.23.13 ॥
मनसापि कथं कामं कुर्यास्त्वं कामवृत्तयोः।
तयोस्त्वहितयोर्नित्यं शत्र्वोः पित्रभिधानयोः ॥ 2.23.14 ॥
यद्यपि प्रतिपत्तिस्ते दैवी चापि तयोर्मतम्।
तथाप्युपेक्षणीयं ते न मे तदपि रोचते ॥ 2.23.15 ॥
विक्लवो वीर्यहीनो यः स दैवमनुवर्त्तते।
वीराः सम्भावितात्मानो न दैवं पर्युपासते ॥ 2.23.16 ॥
दैवं पुरुषकारेण यः समर्थः प्रबाधितुम्।
न दैवेन विपन्नार्थः पुरुषः सोऽवसीदति ॥ 2.23.17 ॥
द्रक्ष्यन्ति त्वद्य दैवस्य पौरुषं पुरुषस्य च।
दैवमानुषयोरद्य व्यक्ता व्यक्तिर्भविष्यति ॥ 2.23.18 ॥
अद्य मत्पौरुषहतं दैवं द्रक्ष्यन्ति वै जनाः।
यद्दैवादाहतं तेऽद्य दृष्टं राज्याभिषेचनम् ॥ 2.23.19 ॥
अत्यङ्कुशमिवोद्दामं गजं मदबलोद्धतम्।
प्रधावितमहं दैवं पौरुषेण निवर्त्तये ॥ 2.23.20 ॥
लोकपालास्समस्तास्ते नाद्य रामाभिषेचनम्।
न च कृत्स्नास्त्रयो लोका विहन्युः किं पुनः पिता ॥ 2.23.21 ॥
यैर्विवासस्तवारण्ये मिथो राजन् समर्थितः।
अरण्ये ते विवत्स्यन्ति चतुर्दश समास्तथा ॥ 2.23.22 ॥
अहं तदाशां छेत्स्यामि पितुस्तस्याश्च या तव।
अभिषेकविघातेन पुत्रराज्याय वर्तते ॥ 2.23.23 ॥
मद्बलेन विरुद्धाय न स्याद्दैवबलं तथा।
प्रभविष्यति दुःखाय यथोग्रं पौरुषं मम ॥ 2.23.24 ॥
ऊर्ध्वं वर्षसहस्रान्ते प्रजापाल्यमनन्तरम्।
आर्यपुत्राः करिष्यन्ति वनवासं गते त्वयि ॥ 2.23.25 ॥
पूर्वं राजर्षिवृत्त्या हि वनवासो विधीयते।
प्रजा निक्षिप्य पुत्रेषु पुत्रवत्परिपालने ॥ 2.23.26 ॥
स चेद्राजन्यनेकाग्रे राज्यविभ्रमशङ्कया।
नैवमिच्छसि धर्मात्मन् राज्यं राम त्वमात्मनि ॥ 2.23.27 ॥
प्रतिजाने च ते वीर माभूवं वीरलोकभाक्।
राज्यं च तव रक्षेयमहं वेलेव सागरम् ॥ 2.23.28 ॥
मङ्गलैरभिषिञ्चस्व तत्र त्वं व्यापृतो भव।
अहमेको महीपालानलं वारयितुं बलात् ॥ 2.23.29 ॥
नासिराबन्धनार्थाय न शरास्तम्भहेतवः।
अमित्रदमनार्थं मे सर्वमेतच्चतुष्टयम् ॥ 2.23.30 ॥
असिना तीक्ष्णधारेण विद्युच्चलितवर्चसा।
प्रगृहीतेन वै शत्रुं वज्रिणं वा न कल्पये ॥ 2.23.31 ॥
खड्गनिष्पेषनिष्पिष्टैर्गहना दुश्चरा च मे।
हस्त्यश्वनरहस्तोरुशिरोभिर्भविता मही ॥ 2.23.32 ॥
खड्गधाराहता मेऽद्य दीप्यमाना इवाद्रयः।
पतिष्यन्ति द्विपा भूमौ मेधा इव सविद्युतः ॥ 2.23.33 ॥
बद्धगोधाङ्गुलित्राणे प्रगृहीतशरासने।
कथं पुरुषमानी स्यात् पुरुषाणां मयि स्थिते ॥ 2.23.34 ॥
बहुभिश्चैकमत्यस्यन्नेकेन च बहून् जनान्।
विनियोक्ष्याम्यहं बाणान् नृवाजिगजमर्मसु ॥ 2.23.35 ॥
अद्य मेऽस्त्रप्रभावस्य प्रभावः प्रभविष्यति।
राज्ञश्चाप्रभुतां कर्त्तुं प्रभुत्वं च तव प्रभो ॥ 2.23.36 ॥
अद्य चन्दनसारस्य केयुरामोक्षणस्य च।
वसूनां च विमोक्षस्य सुहृदां पालनस्य च ॥ 2.23.37 ॥
अनुरूपाविमौ बाहू राम कर्म करिष्यतः।
अभिषेचनविघ्नस्य कर्तॄणां ते निवारणे ॥ 2.23.38 ॥
ब्रवीहि कोऽद्यैव मया वियुज्यतां तवासुहृत्प्राणयशः सुहृज्जनैः।
यथा तवेयं वसुधा वशे भवेत्तथैव मां शाधि तवास्मि किङ्करः ॥ 2.23.39 ॥
विमृज्य बाष्पं परिसान्त्व्य चासकृत् स लक्ष्मणं राघववंशवर्द्धनः।
उवाच पित्र्ये वचने व्यवस्थितं निबोध मामेव हि सौम्य सत्पथे ॥ 2.23.40 ॥