०२२ दैवप्रभावः

अथ तं व्यथया दीनं सविशेषममर्षितम्।
श्वसन्तमिव नागेन्द्रं रोषविस्फारितेक्षणम् ॥ 2.22.1 ॥
आसाद्य रामः सौमित्रिं सुहृदं भ्रातरं प्रियम्।
उवाचेदं स धैर्येण धारयन् सत्त्वमात्मवान् ॥ 2.22.2 ॥
निगृह्य रोषं शोकं च धैर्यमाश्रित्य केवलम्।
अवमानं निरस्येमं गृहीत्वा हर्षमुत्तमम् ॥ 2.22.3 ॥
उपक्लृप्तं हि यत्किञ्चिदभिषेकार्थमद्य मे।
सर्वं विसर्जयक्षिप्रं पुरु कार्यं निरत्ययम् ॥ 2.22.4 ॥
सौमित्रे योऽभिषेकार्थे मम सम्भारसम्भ्रमः।
अभिषेकनिवृत्त्यर्थे सोऽस्तु सम्भारसम्भ्रमः ॥ 2.22.5 ॥
यस्या मदभिषेकार्थे मानसं परितप्यते।
माता मे सा यथा न स्यात् सविशङ्का तथा कुरु ॥ 2.22.6 ॥
तस्याः शङ्कामयं दुःखं मुहूर्त्तमपि नोत्सहे।
मनसि प्रतिसञ्जातं सौमित्रेऽहमुपेक्षितुम् ॥ 2.22.7 ॥
न बुद्धिपूर्वं नाबुद्धंस्मरामीह कदाचन।
मातॄणां वा पितुर्वाहं कृतमल्पं च विप्रियम् ॥ 2.22.8 ॥
सत्यः सत्याभिसन्धश्च नित्यं सत्यपराक्रमः।
परलोकभयाद्भीतो निर्भयोऽस्तु पिता मम ॥ 2.22.9 ॥
तस्यापि हि भवेदस्मिन् कर्मण्यप्रतिसंहृते।
सत्यं नेति मनस्तापस्तस्य तापस्तपेच्च माम् ॥ 2.22.10 ॥
अभिषेकविधानं तु तस्मात् संहृत्य लक्ष्मण।
अन्वगेवाहमिच्छामि वनं गन्तुमितः पुनः ॥ 2.22.11 ॥
मम प्रव्राजनादद्य कृतकृत्या नृपात्मजा।
सुतं भरतमव्यग्रमभिषेचयिता ततः ॥ 2.22.12 ॥
मयि चीराजिनधरे जटामण्डलधारिणि।
गतेऽरण्यं च कैकेय्या भविष्यति मनस्सुखम् ॥ 2.22.13 ॥
बुद्धिः प्रणीता येनेयं मनश्च सुसमाहितम्।
तं तु नार्हामि सङ्क्लेष्टुं प्रव्रजिष्यामि माचिरम् ॥ 2.22.14 ॥
कृतान्तस्त्वेव सौमित्रे द्रष्टव्यो मत्प्रवासने।
राज्यस्य च वितीर्णस्य पुनरेव निवर्तने ॥ 2.22.15 ॥
कैकेय्याः प्रतिपत्तिर्हि कथं स्यान्मम पीडने।
यदि भावो न दैवोऽयं कृतान्तविहितो भवेत् ॥ 2.22.16 ॥
जानासि हि यथा सौम्य न मातृषु ममान्तरम्।
भूतपूर्वं विशेषो वा तस्या मयि सुतेऽपि वा ॥ 2.22.17 ॥
सोभिषेकनिवृत्त्यर्थैः प्रवासार्थैश्च दुर्वचैः।
उग्रैर्वाक्यैरहं तस्या नान्यद्दैवात्समर्थये ॥ 2.22.18 ॥
कथं प्रकृतिसम्पन्ना राजपुत्री तथागुणा।
ब्रूयात् सा प्राकृतेव स्त्री मत्पीडां भर्तृसन्निधौ ॥ 2.22.19 ॥
यदचिन्त्यं तु तद्दैवं भूतेष्वपि न हन्यते।
व्यक्तं मयि च तस्यां च पतितो हि विपर्ययः ॥ 2.22.20 ॥
कश्च दैनेव सौमित्रे योद्धुमुत्सहते पुमान्।
यस्य न ग्रहणं किञ्चित् कर्मणोऽन्यत्र दृश्यते ॥ 2.22.21 ॥
सुखदुःखे भयक्रोधौ लाभालाभौ भवाभवौ।
यच्च किञ्चित्तथाभूतं ननु दैवस्य कर्म तत् ॥ 2.22.22 ॥
ऋषयोप्युग्रतपसो दैवेनाभिप्रपीडिताः।
उत्सृज्य नियमांस्तीव्रान् भ्रश्यन्ते काममन्युभिः ॥ 2.22.23 ॥
असङ्कल्पितमेवेह यदकस्मात् प्रवर्त्तते।
निवर्त्त्यारम्भमारब्धं ननु दैवस्य कर्म तत् ॥ 2.22.24 ॥
एतया तत्त्वया बुद्ध्या संस्तभ्यात्मानमात्मना।
व्याहतेऽप्यभिषेके मे परितापो न विद्यते ॥ 2.22.25 ॥
तस्मादपरितापः संस्त्वमप्यनुविधाय माम्।
प्रतिसंहारय क्षिप्रमाभिषेचनिकीं क्रियाम् ॥ 2.22.26 ॥
एभिरेव घटैः सर्वैरभिषेचनसम्भृतैः।
मम लक्ष्मण तापस्ये व्रतस्नानं भविष्यति ॥ 2.22.27 ॥
अथवा किं ममैतेन राजद्रव्यमतेन तु।
उद्धृतं मे स्वयं तोयं व्रतादेशं करिष्यति ॥ 2.22.28 ॥
मा च लक्ष्मण सन्तापं कार्षिर्लक्ष्म्या विपर्यये।
राज्यं वा वनवासो वा वनवासो महोदयः ॥ 2.22.29 ॥
न लक्ष्मणास्मिन् खलु कर्मविघ्ने माता यवीयस्यतिशङ्कनीया।
दैवाभिपन्ना हि वदत्यनिष्टं जानासि दैवं च तथा प्रभावम् ॥ 2.22.30 ॥