तथा तु विलपन्तीं तां कौसल्यां राममातरम्।
उवाच लक्ष्मणो दीनस्तत्कालसदृशं वचः ॥ 2.21.1 ॥
न रोचते ममाप्येतदार्ये यद्राघवो वनम्।
त्यक्त्वा राज्यश्रियं गच्छेत् स्त्रिया वाक्यवशं गतः ॥ 2.21.2 ॥
विपरीतश्च वृद्धश्च विषयैश्च प्रधर्षितः।
नृपः किमिव न ब्रूयाच्चोद्यमानः समन्मथः ॥ 2.21.3 ॥
नास्यापराधं पश्यामि नापि दोषं तथाविधम्।
येन निर्वास्यते राष्ट्राद्वनवासाय राघवः ॥ 2.21.4 ॥
न तं पश्याम्यहं लोके परोक्षमपि यो नरः।
स्वमित्रोपि निरस्तोपि योऽस्य दोषमुदाहरेत् ॥ 2.21.5 ॥
देवकल्पमृजुं दान्तं रिपूणामपि वत्सलम्।
अवेक्षमाणः को धर्मं त्यजेत् पुत्रमकारणात् ॥ 2.21.6 ॥
तदिदं वचनं राज्ञः पुनर्बाल्यमुपेयुषः।
पुत्रः को हृदये कुर्याद्राजवृत्तमनुस्मरन् ॥ 2.21.7 ॥
यावदेव न जानाति कश्चिदर्थमिमं नरः।
तावदेव मया सार्द्धमात्मस्थं कुरु शासनम् ॥ 2.21.8 ॥
मया पार्श्वे सधनुषा तव गुप्तस्य राघव।
कः समर्थोऽधिकं कर्तुं कृतान्तस्येव तिष्ठतः ॥ 2.21.9 ॥
निर्मनुष्यामिमां सर्वामयोध्यां मनुजर्षभ।
करिष्यामि शरैस्तीक्ष्णैर्यदि स्थास्यति विप्रिये ॥ 2.21.10 ॥
भरतस्याथ पक्ष्यो वा यो वाऽस्य हितमिच्छति।
सर्वानेतान् वधिष्यामि मृदुर्हि परिभूयते ॥ 2.21.11 ॥
प्रोत्साहितोऽयं कैकेय्या स दुष्टो यदि नः पिता।
अमित्रभूतो निस्सङ्गं वध्यतां बध्यतामपि ॥ 2.21.12 ॥
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः।
उत्पथं प्रतिपन्नस्य कार्यं भवति शासनम् ॥ 2.21.13 ॥
बलमेष किमाश्रित्य हेतुं वा पुरुषर्षभ।
दातुमिच्छति कैकेय्यै राज्यं स्थितमिदं तव ॥ 2.21.14 ॥
त्वया चैव मया चैव कृत्वा वैरमनुत्तमम्।
कास्य शक्तिः श्रियं दातुं भरतायारिशासन ॥ 2.21.15 ॥
अनुरक्तोऽस्मि भावेन भ्रातरं देवि तत्त्वतः।
सत्येन धनुषा चैव दत्तेनेष्टेन ते शपे ॥ 2.21.16 ॥
दीप्तमग्निमरण्यं वा यदि रामः प्रवेक्ष्यति।
प्रविष्टं तत्र मां देवि त्वं पूर्वमवधारय ॥ 2.21.17 ॥
हरामि वीर्याद्दुःखं ते तमः सूर्य इवोदितः।
देवी पश्यतु मे वीर्यं राघवश्चैव पश्यतु ॥ 2.21.18 ॥
एतत्तु वचनं श्रुत्वा लक्ष्मणस्य महात्मनः।
उवाच रामं कौसल्या रुदन्ती शोकलालसा ॥ 2.21.19 ॥
भ्रातुस्ते वदतः पुत्र लक्ष्मणस्य श्रुतं त्वया।
यदत्रानन्तरं कार्यं कुरुष्व यदि रोचते ॥ 2.21.20 ॥
न चाधर्म्यं वचः श्रुत्वा सपत्न्या मम भाषितम्।
विहाय शोकसन्तप्तां गन्तुमर्हसि मामितः ॥ 2.21.21 ॥
धर्मज्ञ यदि धर्मिष्ठो धर्मं चरितुमिच्छसि।
शुश्रूष मामिहस्थस्त्वं चर धर्ममनुत्तमम् ॥ 2.21.22 ॥
शुश्रूषुर्जननीं पुत्रः स्वगृहे नियतो वसन्।
परेण तपसायुक्तः काश्यपस्त्रिदिवं गतः ॥ 2.21.23 ॥
यथैव राजा पूज्यस्ते गौरवेण तथा ह्यहम्।
त्वां नाहमनुजानामि न गन्तव्यमितो वनम् ॥ 2.21.24 ॥
त्वद्वियोगान्न मे कार्यं जीवितेन सुखेन वा।
त्वया सह ममश्रेयस्तृणानामपि भक्षणम् ॥ 2.21.25 ॥
यदि त्वं यास्यसि वनं त्यक्त्वा मां शोकलालसाम्।
अहं प्रायमिहासिष्ये न हि शक्ष्यामि जीवितुम् ॥ 2.21.26 ॥
ततस्त्वं प्राप्स्यसे पुत्र निरयं लोकविश्रुतम्।
ब्रह्महत्यामिवाधर्मात् समुद्रः सरितां पतिः ॥ 2.21.27 ॥
विलपन्तीं तदा दीनां कौसल्यां जननीं ततः।
उवाच रामो धर्मात्मा वचनं धर्मसंहितम् ॥ 2.21.28 ॥
नास्ति शक्तिः पितुर्वाक्यं समतिक्रमितुं मम।
प्रसादये त्वां शिरसा गन्तुमिच्छाम्यहं वनम् ॥ 2.21.29 ॥
ऋषिणा च पितुर्वाक्यं कुर्वता व्रतचारिणा।
गौर्हता जानता धर्मं कण्डुनापि विपश्चिता ॥ 2.21.30 ॥
अस्माकं च कुले पूर्वं सगरस्याज्ञया पितुः।
खनद्भिः सागरैर्भूमिमवाप्तः सुमहान् वधः ॥ 2.21.31 ॥
जामदग्न्येन रामेण रेणुका जननी स्वयम्।
कृत्ता परशुनाऽरण्ये पितुर्वचनकारिणा ॥ 2.21.32 ॥
एतैरन्यैश्च बहुभिर्देवि देवसमैः कृतम्।
पितुर्वचनमक्लीबं करिष्यामि पितुर्हितम् ॥ 2.21.33 ॥
न खल्वेतन्मयैकेन क्रियते पितृशासनम्।
एतैरपि कृतं देवि ये मया तव कीर्त्तिताः ॥ 2.21.34 ॥
नाहं धर्ममपूर्वं ते प्रतिकूलं प्रवर्त्तये।
पूर्वैरयमभिप्रेतो गतो मार्गोऽनुगम्यते ॥ 2.21.35 ॥
तदेतत्तु मया कार्यं क्रियते भुवि नान्यथा।
पितुर्हि वचनं कुर्वन्न कश्चिन्नाम हीयते ॥ 2.21.36 ॥
तामेवमुक्त्वा जननीं लक्ष्मणं पुनरब्रवीत्।
वाक्यं वाक्यविदां श्रेष्ठः श्रेष्ठः सर्वधनुष्मताम् ॥ 2.21.37 ॥
तव लक्ष्मण जानामि मयि स्नेहमनुत्तमम्।
विक्रमं चैव सत्त्वं च तेजश्च सुदुरासदम् ॥ 2.21.38 ॥
मम मातुर्महद्दुःखमतुलं शुभलक्षण।
अभिप्रायमवि(भि)ज्ञाय सत्यस्य च शमस्य च ॥ 2.21.39 ॥
धर्मो हि परमो लोके धर्मे सत्यं प्रतिष्ठितम्।
धर्मसंश्रितमेतच्च पितुर्वचनमुत्तमम् ॥ 2.21.40 ॥
संश्रुत्य च पितुर्वाक्यं मातुर्वा ब्राह्मणस्य वा।
न कर्त्तव्यं वृथा वीर ध्ार्ममाश्रित्य तिष्ठता ॥ 2.21.41 ॥
सोहं न शक्ष्यामि पितुर्नियोगमतिवर्तितुम्।
पितुर्हि वचनाद्वीर कैकेय्याऽहं प्रचोदितः ॥ 2.21.42 ॥
तदेनां विसृजानार्यां क्षत्रधर्माश्रितां मतिम्।
धर्ममाश्रय मा तैक्ष्ण्यं मद्बुद्धिरनुगम्यताम् ॥ 2.21.43 ॥
तमेवमुक्त्वा सौहार्दादभ्रातरं लक्ष्मणाग्रजः।
उवाच भूयः कौसल्यां प्राञ्जलिः शिरसा नतः ॥ 2.21.44 ॥
अनुमन्यस्व मां देवि गमिष्यन्तमितो वनम्।
शापितासि मम प्राणैः कुरु स्वस्त्ययनानि मे ॥ 2.21.45 ॥
तीर्णप्रतिज्ञश्च वनात् पुनरेष्याम्यहं पुरीम्।
ययातिरिव राजर्षिः पुरा हित्वा पुनर्दिवम् ॥ 2.21.46 ॥
शोकः सन्धार्यतां मातर्हृदये साधुमा शुचः।
वनवासादिहैष्यामि पुनः कृत्वा पितुर्वचः ॥ 2.21.47 ॥
त्वया मया च वैदेह्या लक्ष्मणेन सुमित्रया।
पितुर्नियोगे स्थातव्यमेष धर्मः सनातनः ॥ 2.21.48 ॥
अम्ब संहृत्य सम्भारान् दुःखं हृदि निगृह्य च।
वनवासकृता बुद्धिर्मम धर्म्यानुवर्त्त्यताम् ॥ 2.21.49 ॥
एतद्वचस्तस्य निशम्य माता सुधर्म्यमव्यग्रमविक्लवं च।
मृतेव सञ्ज्ञां प्रतिलभ्य देवी समीक्ष्य रामं पुनरित्युवाच ॥ 2.21.50 ॥
यथ्ौव ते पुत्र पिता तथाहं गुरुः स्वधर्मेण सुहृत्तया च।
न त्वानुजानामिन मां विहाय सुदुःखितामर्हसि गन्तुमेवम् ॥ 2.21.51 ॥
किं जीवितेनेह विना त्वया मे लोकेन वा किं स्वधयाऽमृतेन।
श्रेयो मुहूर्त्तं तव सन्निधानं ममेह कृत्स्नादपि जीवलोकात् ॥ 2.21.52 ॥
नरैरिवोल्काभिरपोह्यमानो महागजोऽध्वानमनुप्रविष्टः।
भूयः प्रजज्वाल विलापमेनं निशम्य रामः करुणं जनन्याः ॥ 2.21.53 ॥
स मातरं चैव विसञ्ज्ञकल्पामर्त्तं च सौमित्रिमभिप्रतप्तम्।
धर्मे स्थितो धर्म्यमुवाच वाक्यं यथा स एवार्हति तत्र वक्तुम् ॥ 2.21.54 ॥
अहं हि ते लक्ष्मण नित्यमेव जानामि भक्तिं च पराक्रमं च।
मम त्वभिप्रायमसन्निरीक्ष्य मात्रा सहाभ्यर्दसि मां सुदुःखम् ॥ 2.21.55 ॥
धर्मार्थकामाः किल तात लोके समीक्षिता धर्मफलोदयेषु।
ते तत्र सर्वे स्युरसंशयं मे भार्येव वश्याभिमता सुपुत्रा ॥ 2.21.56 ॥
यस्मिंस्तु सर्वे स्युरसन्निविष्टा धर्मो यतः स्यात्तदुपक्रमेत।
द्वेष्यो भवत्यर्थपरो हि लोके कामात्मता खल्वपि न प्रशस्ता ॥ 2.21.57 ॥
गुरुश्च राजा च पिता च वृद्धः क्रोधात् प्रहर्षाद् यदि वापि कामात्।
यद्व्यादिशेत् कार्यमवेक्ष्य धर्मं कस्तं न कुर्यादनृशंसवृत्तिः ॥ 2.21.58 ॥
स वै न शक्नोमि पितुः प्रतिज्ञामिमामकर्तुं सकलां यथावत्।
स ह्यावयोस्तात गुरुर्नियोगे देव्याश्च भर्त्ता स गतिः स धर्मः ॥ 2.21.59 ॥
तस्मिन् पुनर्जीवति धर्मराजे विशेषतः स्वे पथि वर्त्तमाने।
देवी मया सार्द्धमितोऽपगच्छेत् कथंस्विदन्या विधवेव नारी ॥ 2.21.60 ॥
सा माऽनुमन्यस्व वनं व्रजन्तं कुरुष्व नः स्वस्त्ययनानि देवि।
यथा समाप्ते पुनराव्रजेयं यथा हि सत्येव पुनर्ययातिः ॥ 2.21.61 ॥
यशो ह्यहं केवलराज्यकारणन्न पृष्ठतः कर्तुमलं महोदयम्।
अदीर्घकाले न तु देवि जीविते वृणेऽवरामद्य महीमधर्मतः ॥ 2.21.62 ॥
प्रसादयन्नरवृषभः स्वमातरं पराक्रमाज्जिगमिषुरेव दण्डकान्।
अथानुजं भृशमनुशास्य दर्शनं चकार तां हृदि जननीं प्रदक्षिणम् ॥ 2.21.63 ॥