तस्मिंस्तु पुरुषव्याघ्रे निष्क्रामति कृताञ्जलौ।
आर्त्तशब्दो महान् जज्ञे स्त्रीणामतःपुरे तदा ॥ 2.20.1 ॥
कृत्येष्वचोदितः पित्रा सर्वस्यान्तःपुरस्य च।
गतिर्यः शरणं चापि स रामोऽद्य प्रवत्स्यति ॥ 2.20.2 ॥
कौसल्यायां यथा युक्तो जनन्यां वर्त्तते सदा।
तथैव वर्ततेऽस्मासु जन्मप्रभृति राघवः ॥ 2.20.3 ॥
न क्रुध्यत्यभिशप्तोऽपि क्रोधनीयानि वर्ज्जयन्।
क्रुद्धान् प्रसादयन् सर्वान् स इतोऽद्य प्रवत्स्यति ॥ 2.20.4 ॥
अबुद्धिर्बत नो राजा जीवलोकं चरत्ययम्।
यो गतिं सर्वलोकानां परित्यजति राघवम् ॥ 2.20.5 ॥
इति सर्वा महिष्यस्ता विवत्सा इव धेनवः।
पतिमाचुक्रुशुश्चैव सस्वरं चापि चुक्रुशुः ॥ 2.20.6 ॥
स हि चान्तःपुरे घोरमार्त्तशब्दं महीपतिः।
पुत्रशोकाभिसन्तप्तः श्रुत्वा व्यालीयतासने ॥ 2.20.7 ॥
रामस्तु भृशमायस्तो निश्वसन्निव कुञ्जरः।
जगाम सहितो भ्रात्रा मातुरन्तःपुरं वशी ॥ 2.20.8 ॥
सोऽपश्यत्पुरुषं तत्र वृद्धं परमपूजितम्।
उपविष्टं गृहद्वारि तिष्ठतश्चापरान् बहून् ॥ 2.20.9 ॥
दृष्टैव तु तदा रामं ते सर्वे सहसोत्थिताः।
जयेन जयतां श्रेष्ठं वर्द्धयन्ति स्म राघवम् ॥ 2.20.10 ॥
प्रविश्य प्रथमां कक्ष्यां द्वितीयायां ददर्श सः।
ब्राह्मणान् वेदसम्पन्नान् वृद्धान् राज्ञाभिसत्कृतान् ॥ 2.20.11 ॥
प्रणम्य रामस्तान् वृद्धांस्तृतीयायां ददर्श सः।
स्त्रियो वृद्धाश्च बालाश्च द्वाररक्षणतत्पराः ॥ 2.20.12 ॥
वर्द्धयित्वा प्रहृष्टास्ताः प्रविश्य च गृहं स्त्रियः।
न्यवेदयन्त त्वरिता रामामतुः प्रियं तदा ॥ 2.20.13 ॥
कौसल्यापि तदा देवी रात्रिं स्थित्वा समाहिता।
प्रभाते त्वकरोत् पूजां विष्णोः पुत्रहितैषिणी ॥ 2.20.14 ॥
सा क्षौमवसना हृष्टा नित्यं व्रतपरायणा।
अग्निं जुहोति स्म तदा मन्त्रवत् कृतमङ्गला ॥ 2.20.15 ॥
ददर्श मातरं तत्र हावयन्तीं हुताशनम्।
देवकार्यनिमित्तं च तत्रापश्यत् समुद्यतम् ॥ 2.20.16 ॥
दध्यक्षतं घृतं चैव मोदकान् हविषस्तथा ॥ 2.20.17 ॥
लाजान् माल्यानि शुक्लानि पायसं कृसरं तथा।
समिधः पूर्णकुम्भाश्च ददर्श रघुनन्दनः ॥ 2.20.18 ॥
तां शुक्लक्षौमसंवीतां व्रतयोगेन कर्शिताम्।
तर्पयन्तीं ददर्शाद्भिर्देवतां देववर्णिनीम् ॥ 2.20.19 ॥
सा चिरस्यात्मजं दृष्ट्वा मातृनन्दनमागतम्।
अभिचक्राम संहृष्टा किशोरं वडवा यथा ॥ 2.20.20 ॥
स मातरमभिक्रान्तामुपसङ्गृह्य राघवः।
परिष्वक्तश्च बाहुभ्यामुपाघ्रातश्च मूर्द्धनि ॥ 2.20.21 ॥
तमुवाच दुराधर्षं राघवं सुतमात्मनः।
कौसल्यां पुत्रवात्सल्यादिदं प्रियहितं वचः ॥ 2.20.22 ॥
वृद्धानां धर्मशीलानां राजर्षीणां महात्मनाम्।
प्राप्नुह्यायुश्च कीर्तिं च धर्मं चोपहितं कुले ॥ 2.20.23 ॥
सत्यप्रतिज्ञं पितरं राजानं पश्य राघव।
अद्यैव हि त्वां धर्मात्मा यौवराज्येऽभिषेक्ष्यति ॥ 2.20.24 ॥
दत्तमासनमालभ्य भोजनेन निमन्त्रितः।
मातरं राघवः किञ्चिद्व्रीडात्प्राञ्जलिरब्रवीत् ॥ 2.20.25 ॥
स स्वभावविनीतश्च गौरवाच्च तदानतः।
प्रस्थितो दण्डकारण्यमाप्रष्टुमुपचक्रमे ॥ 2.20.26 ॥
देवि नूनं न जानीषे महद्भयमुपस्थितम्।
इदं तव च दुःखाय वैदेह्या लक्ष्मणस्य च ॥ 2.20.27 ॥
गमिष्ये दण्डकारण्यं किमनेनासनेन मे।
विष्टरासनयोग्यो हि कालोऽयं मामुपस्थितः ॥ 2.20.28 ॥
चतुर्दश हि वर्षाणि वत्स्यामि विजने वने।
मधुमूलफलैर्जीवन् हित्वा मुनिवदामिषम् ॥ 2.20.29 ॥
भरताय महाराजो यौवराज्यं प्रयच्छति।
मां पुनर्दण्डकारण्ये विवासयति तापसम् ॥ 2.20.30 ॥
स षट् चाष्टौ च वर्षाणि वत्स्यामि विजने वने।
आसेवमानो वन्यानि फलमूलैश्च वर्त्तयन् ॥ 2.20.31 ॥
सा निकृत्तेव सालस्य यष्टिः परशुना वने।
पपात सहसा देवी देवतेव दिवश्च्युता ॥ 2.20.32 ॥
तामदुःखोचितां दृष्ट्वा पतितां कदलीमिव।
रामस्तूत्थापयामास मातरं गतचेतसम् ॥ 2.20.33 ॥
उपावृत्त्योत्थितां दीनां वडवामिव वाहिताम्।
पांसुकुण्ठितसर्वाङ्गीं विममर्श च पाणिना ॥ 2.20.34 ॥
सा राघवमुपासीनमसुखार्त्ता सुखोचिता।
उवाच पुरुषव्यार्घमुपशृण्वति लक्ष्मणे ॥ 2.20.35 ॥
यदि पुत्र न जायेथा मम शोकाय राघव।
न स्म दुःखमतो भूयः पश्येयमहमप्रजाः ॥ 2.20.36 ॥
एक एव हि वन्ध्यायाः शोको भवति मानसः।
अप्रजास्मीति सन्तापो न ह्यन्यः पुत्र विद्यते ॥ 2.20.37 ॥
न दृष्टपूर्वं कल्याणं सूखं वा पतिपौरुषे।
अपि पुत्रे तु पश्येयमिति राम स्थितं मया ॥ 2.20.38 ॥
सा बहून्यमनोज्ञानि वाक्यानि हृदयच्छिदाम्।
अहं श्रोष्ये सपत्नीनामवराणां वरा सती ॥ 2.20.39 ॥
अतो दुःखतरं किन्नु प्रमदानां भविष्यति।
मम शोको विलापश्च यादृशोऽयमनन्तकः ॥ 2.20.40 ॥
त्वयि सन्निहितेप्येवमहमासं निराकृता।
किं पुनः प्रोषिते तात ध्रुवं मरणमेवमे ॥ 2.20.41 ॥
अत्यन्तं निगृहीतास्मि भर्तुर्नित्यमतन्त्रिता।
परिवारेण कैकेय्याः समा वाप्यथवा वरा ॥ 2.20.42 ॥
यो हि मां सेवते कश्चिदथवाप्यनुवर्त्तते।
कैकेय्याः पुत्रमन्वीक्ष्य स जनो नाभिभाषते ॥ 2.20.43 ॥
नित्यक्रोधतया तस्याः कथं नु खरवादि तत्।
कैकेय्या वदनं द्रष्टुं पुत्र शक्ष्यामि दुर्गता ॥ 2.20.44 ॥
दश सप्त च वर्षाणि तव जातस्य राघव।
आसितानि प्रकाङ्क्षन्त्या मया दुःखपरिक्षयम् ॥ 2.20.45 ॥
तदक्षयमहं दुःखं नोत्सहे सहितुं चिरम्।
विप्रकारं सपत्नीनामेवं जीर्णापि राघव ॥ 2.20.46 ॥
अपश्यन्ती तव मुखं परिपूर्णशशिप्रभम्।
कृपणा वर्तयिष्यामि कथं कृपणजीविकाम् ॥ 2.20.47 ॥
उपवासैश्च योगैश्च बहुभिश्च परिश्रमैः।
दुःखसंवर्द्धितो मोघं त्वं हि दुर्गतया मया ॥ 2.20.48 ॥
स्थिरं तु हृदयं मन्ये ममेदं यन्न दीर्यते।
प्रावृषीव महानद्याः स्पृष्टं कूलं नवाम्भसा ॥ 2.20.49 ॥
ममैव नूनं मरणं न विद्यते न चावकाशोऽस्ति यमक्षये मम।
यदन्तकोऽद्यैव न मां जिहीर्षति प्रसह्य सिंहो रुदतीं मृगीमिव ॥ 2.20.50 ॥
स्थिरं हि नूनं हृदयं ममायसं न भिद्यते यद्भुवि नावदीर्यते।
अनेन दुःखेन च देहमर्पितं ध्रुवं ह्यकाले मरणं न विद्यते ॥ 2.20.51 ॥
इदं तु दुःखं यदनर्थकानि मे व्रतानि दानानि न संयमाश्च हि।
तपश्च तप्तं यदपत्यकारणात् सुनिष्फलं बीजमिवोप्तमूषरे ॥ 2.20.52 ॥
यदि ह्यकाले मरणं स्वयेच्छया लभेत कश्चिद्गुरुदुःखकर्शितः।
गताहमद्यैव परेतसंसदं विना त्वया धेनुरिवात्मजेन वै ॥ 2.20.53 ॥
अथापि किञ्जीवितमद्य मे वृथा त्वया विना चन्द्रनिभाननप्रभ।
अनुव्रजिष्यामि वनं त्वयैव गौः सुदुर्बला वत्समिवानुकाङ्क्षया ॥ 2.20.54 ॥
भृशमसुखममर्षिता तदा बहु विललाप समीक्ष्य राघवम्।
व्यसनमुपनिशाम्य सा महत् सुतमिव बद्धमवेक्ष्य किन्नरी ॥ 2.20.55 ॥