०१९ वनवासप्रतिज्ञा

तदप्रियममित्रघ्नो वचनं मरणोपमम्।
श्रुत्वा न विव्यथे रामः कैकेयीं चेदमब्रवीत् ॥ 2.19.1 ॥
एवमस्तु गमिष्यामि वनं वस्तुमहं त्वितः।
जटाजिनधरो राज्ञः प्रतिज्ञामनुपालयन् ॥ 2.19.2 ॥
इदं तु ज्ञातुमिच्छामि किमर्थं मां महीपतिः।
नाभिनन्दति दुर्द्धर्षो यथापुरमरिन्दमः ॥ 2.19.3 ॥
मन्युर्न च त्वया कार्यो देवि ब्रूमि तवाग्रतः।
यास्यामि भव सुप्रीता वनं चीरजटाधरः ॥ 2.19.4 ॥
हितेन गुरुणा पित्रा कृतज्ञेन नृपेण च।
नियुज्यमानो विस्रब्धः किं न कुर्यामहं प्रियम् ॥ 2.19.5 ॥
अलीकं मानसं त्वेकं हृदयं दहतीव मे।
स्वयं यन्नाह मां राजा भरतस्याभिषेचनम् ॥ 2.19.6 ॥
अहं हि सीतां राज्यं च प्राणानिष्टान् धनानि च।
हृष्टो भ्रात्रे स्वयं दद्यां भरतायाप्रचोदितः ॥ 2.19.7 ॥
किं पुनर्मनुजेन्द्रेण स्वयं पित्रा प्रचोदितः।
तव च प्रियकामार्थं प्रतिज्ञामनुपालयन् ॥ 2.19.8 ॥
तदाश्वासय हीमं त्वं किं न्विदं यन्महीपतिः।
वसुधासक्तनयनो मन्दमश्रूणि मुञ्चति ॥ 2.19.9 ॥
गच्छन्तु चैवानयितुं दूताः शीघ्रजवैर्हयैः।
भरतं मातुलकुलादद्यैव नृपशासनात् ॥ 2.19.10 ॥
दण्डकारण्यमेषोऽहमितो गच्छामि सत्वरः।
अविचार्य पितुर्वाक्यं समा वस्तुं चतुर्दश ॥ 2.19.11 ॥
सा हृष्टा तस्य तद्वाक्यं श्रुत्वा रामस्य कैकयी।
प्रस्थानं श्रद्दधाना हि त्वरयामास राघवम् ॥ 2.19.12 ॥
एवं भवतु यास्यन्ति दूताः शीघ्रजवैर्हयैः।
भरतं मातुलकुलादुपावर्त्तयितुं नराः ॥ 2.19.13 ॥
तव त्वहं क्षमं मन्ये नोत्सुकस्य विलम्बनम्।
राम तस्मादितः शीघ्रं वनं त्वं गन्तुमर्हसि ॥ 2.19.14 ॥
व्रीडान्वितः स्वयं यच्च नृपस्त्वां नाभिभाषते।
नैतत्किञ्चिन्नरश्रेष्ठ मन्युरेषोपनीयताम् ॥ 2.19.15 ॥
यावत्त्वं न वनं यातः पुरादस्मादभित्वरन्।
पिता तावन्न ते राम स्नास्यते भोक्ष्यतेऽपि वा ॥ 2.19.16 ॥
धिक्कष्टमिति निश्वस्य राजा शोकपरिप्लुतः।
मूर्च्छितो न्यपतत्तस्मिन् पर्यङ्के हेमभूषिते ॥ 2.19.17 ॥
रामोप्युत्थाप्य राजानं कैकेय्याभिप्रचोदितः।
कशये वाहतो वाजी वनं गन्तुं कृतत्वरः ॥ 2.19.18 ॥
तदप्रियमनार्याया वचनं दारुणोदयम्।
श्रुत्वा गतव्यथो रामः कैकेयीं वाक्यमब्रवीत् ॥ 2.19.19 ॥
नाहमर्थपरो देवि लोकमावस्तुमुत्सुहे।
विद्धि मामृषिभिस्तुल्यं केवलं धर्ममास्थितम् ॥ 2.19.20 ॥
यदत्रभवतः किञ्चिच्छक्यं कर्तुं प्रियं मया।
प्राणानपि परित्यज्य सर्वथा कृतमेव तत् ॥ 2.19.21 ॥
न ह्यतो धर्मचरणं किञ्चिदस्ति महत्तरम्।
यथा पितरि शुश्रूषा तस्य वा वचनक्रिया ॥ 2.19.22 ॥
अनुक्तोप्यत्रभवता भवत्या वचनादहम्।
वने वत्स्यामि विजने वर्षाणीह चतुर्दश ॥ 2.19.23 ॥
न नूनं मयि कैकेयि किञ्चिदाशंससे गुणम्।
यद्राजानमवोचस्त्वं ममेश्वरतरा सती ॥ 2.19.24 ॥
यावन्मातरमापृच्छे सीतां चानुनयाम्यहम्।
ततोऽद्यैव गमिष्यामि दण्डकानां महद्वनम् ॥ 2.19.25 ॥
भरतः पालयेद्राज्यं शुश्रूषेच्च पितुर्यथा।
तथा भवत्या कर्त्तव्यं स हि धर्मस्सनातनः ॥ 2.19.26 ॥
स रामस्य वचः श्रुत्वा भृशं दुःखहतः पिता।
शोकादशक्नुवन् बाष्पं प्ररुरोद महास्वनम् ॥ 2.19.27 ॥
वन्दित्वा चरणौ रामो विसञ्ज्ञस्य पितुस्तथा।
कैकेय्याश्चाप्यनार्याया निष्पपात महाद्युतिः ॥ 2.19.28 ॥
स रामः पितरं कृत्वा कैकेयीं च प्रदक्षिणम्।
निष्क्रम्यान्तः पुरात्तस्मात् स्वं ददर्श सुहृज्जनम् ॥ 2.19.29 ॥
तं बाष्पपरिपूर्णाक्षः पृष्ठतोऽनुजगाम ह।
लक्ष्मणः परमक्रुद्धः सुमित्रानन्दवर्द्धनः ॥ 2.19.30 ॥
आभिषेचनिकं भाण्डं कृत्वा रामः प्रदक्षिणम्।
शनैर्जगाम सापेक्षो हृष्टिं तत्राविचालयन् ॥ 2.19.31 ॥
न चास्य महतीं लक्ष्मीं राज्यनाशोऽपकर्षति।
लोककान्तस्य कान्तत्वाच्छीतरश्मेरिव क्षपा ॥ 2.19.32 ॥
न वनं गन्तुकामस्य त्यजतश्च वसुन्धराम्।
सर्वलोकातिगस्येव लक्ष्यते चित्तविक्रिया ॥ 2.19.33 ॥
प्रतिषिध्य शुभं छत्रं व्यजने च स्वलङ्कृते।
विसर्जयित्वा स्वजनं रथं पौरांस्तथा जनान् ॥ 2.19.34 ॥
धारयन् मनसा दुःखमिन्द्रियाणि निगृह्य च।
प्रविवेशात्मवान् वेश्म मातुरप्रियशंसिवान् ॥ 2.19.35 ॥
सर्वो ह्यभिजनः श्रीमान् श्रीमतः सत्यवादिनः।
नालक्षयत रामस्य किञ्चिदाकारमानने ॥ 2.19.36 ॥
उचितं च महाबाहुर्न जहौ हर्षमात्मनः।
शारदः समुदीर्णांशुश्चन्द्रस्तेज इवात्मजम् ॥ 2.19.37 ॥
वाचा मधुरनया रामः सर्वं सम्मानयन् जनम्।
मातुः समीपं धीरात्मा प्रविवेश महायशाः ॥ 2.19.38 ॥
तं गुणैः समतां प्राप्तो भ्राता विपुलविक्रमः।
सौमित्रिरनुवव्राज धारयन् दुःखमात्मजम् ॥ 2.19.39 ॥
प्रविश्य वेश्मातिभृशं मुदान्वितं समीक्ष्य तां चार्थविपत्तिमागताम्।
न चैव रामोऽत्र जगाम विक्रियां सुहृज्जनस्यात्मविपत्तिशङ्कया ॥ 2.19.40 ॥