०१८ रामेण दशरथसान्त्वनम्

स ददर्शासने रामो निषण्णं पितरं शुभे।
कैकेयीसहितं दीनं मुखेन परिशुष्यता ॥ 2.18.1 ॥
स पितुश्चरणौ पूर्वमभिवाद्य विनीतवत्।
ततो ववन्दे चरणौ कैकेय्याः सुसमाहितः ॥ 2.18.2 ॥
रामेत्युक्त्वा च वचनं बाष्पपर्याकुलेक्षणः।
शशाक नृपतिर्दीनो नेक्षितुं नाभिभाषितुम् ॥ 2.18.3 ॥
तदपूर्वं नरपतेर्दृष्ट्वा रूपं भयावहम्।
रामोऽपि भयमापन्नः पदा स्पृष्ट्वेव पन्नगम् ॥ 2.18.4 ॥
इन्द्रियैरप्रहृष्टैस्तं शोकसन्तापकर्शितम्।
निश्वसन्तं महाराजं व्यथिताकुलचेतसम् ॥ 2.18.5 ॥
ऊर्मिमालिनमक्षोभ्यं क्षुभ्यन्तमिव सागरम्।
उपप्लुतमिवादित्यमुक्तानृतमृषिं यथा ॥ 2.18.6 ॥
अचिन्त्यकल्पं हि पितुस्तं शोकमुपधारयन्।
बभूव संरब्धतरः समुद्र इव पर्वणि ॥ 2.18.7 ॥
चिन्तयामास च तदा रामः पितृहितेरतः।
किं स्विदद्यैव नृपतिर्न मां प्रत्यभिनन्दति ॥ 2.18.8 ॥
अन्यदा मां पिता दृष्ट्वा कुपितोऽपि प्रसीदति।
तस्य मामद्य सम्प्रेक्ष्य किमायासः प्रवर्तते ॥ 2.18.9 ॥
स दीन इव शोकार्त्तो विषण्णवदनद्युतिः।
कैकेयीमभिवाद्यैव रामो वचनमब्रवीत् ॥ 2.18.10 ॥
कच्चिन्मया नापराद्धमज्ञानाद्येन मे पिता।
कुपितस्तन्ममाचक्ष्व त्वं चैवैनं प्रसादय ॥ 2.18.11 ॥
अप्रसन्नमनाः किं नु सदा मां प्रति वत्सलः।
विवर्णवदनो दीनो न हि मामभिभाषते ॥ 2.18.12 ॥
शारीरो मानसो वापि कच्चिदेनं न बाधते।
सन्तापो वाभितापो वा दुर्ल्लभं हि सदा सुखम् ॥ 2.18.13 ॥
कच्चिन्न किञ्चिद्भरते कुमारे प्रियदर्शने।
शत्रुध्ने वा महासत्त्वे मातॄणां वा ममाशुभम् ॥ 2.18.14 ॥
अतोषयन्महाराजमकुर्वन् वा पितुर्वचः।
मुहूर्त्तमपि नेच्छेयं जीवितुं कुपिते नृपे ॥ 2.18.15 ॥
यतोमूलं नरः पश्येत् प्रादुर्भावमिहात्मनः।
कथं तस्मिन्न वर्त्तेत प्रत्यक्षे सति दैवते ॥ 2.18.16 ॥
कच्चित्ते परुषं किञ्चिदभिमानात् पिता मम।
उक्तो भवत्या कोपेन यत्रास्य लुलितं मनः ॥ 2.18.17 ॥
एतदाचक्ष्व मे देवि तत्त्वेन परिपृच्छतः।
किन्निमित्तमपूर्वोऽयं विकारो मनुजाधिपे ॥ 2.18.18 ॥
एवमुक्ता तु कैकेयी राघवेण महात्मना।
उवाचेदं सुनिर्लज्जा धृष्टमात्महितं वचः ॥ 2.18.19 ॥
न राजा कृपितो राम व्यसनं नास्य किञ्चन।
किञ्चिन्मनोगतं त्वस्य त्वद्भयान्नाभिभाषते ॥ 2.18.20 ॥
प्रियं त्वामप्रियं वक्तुं वाणी नास्योपवर्तते।
तदवश्यं त्वया कार्यं यदनेनाश्रुतं मम ॥ 2.18.21 ॥
एष मह्यं वरं दत्त्वा पुरा मामभिपूज्य च।
स पश्चात्तप्यते राजा यथान्यः प्राकृतस्तथा ॥ 2.18.22 ॥
अतिसृज्य ददानीति वरं मम विशाम्पतिः।
स निरर्थं गतजले सेतुं बन्धितुमिच्छति ॥ 2.18.23 ॥
धर्ममूलमिदं राम विदितं च सतामपि।
तत्सत्यं न त्यजेद्राजा कुपितस्त्वत्कृते यथा ॥ 2.18.24 ॥
यदि तद्वक्ष्यते राजा शुभं वा यदि वाशुभम्।
करिष्यसि ततः सर्वमाख्यास्यामि पुनस्त्वहम् ॥ 2.18.25 ॥
यदि त्वभिहितं राज्ञा त्वयि तन्न विपत्स्यते।
ततोऽहमभिधास्यामि न ह्येष त्वयि वक्ष्यति ॥ 2.18.26 ॥
एतत्तु वचनं श्रुत्वा कैकेय्या समुदाहृतम्।
उवाच व्यथितो रामस्तां देवीं नृपसन्निधौ ॥ 2.18.27 ॥
अहं हि वचनाद्राज्ञः पतेयमपि पावके।
भक्षयेयं विषं तीक्ष्णं मज्जेयमपि चार्णवे ॥ 2.18.28 ॥
नियुक्तो गुरुणा पित्रा नृपेण च हितेन च ॥ 2.18.29 ॥
तद्ब्रूहि वचनं देवि राज्ञो यदभिकाङ्क्षितम्।
करिष्ये प्रतिजाने च रामोद्विर्नाभिभाषते ॥ 2.18.30 ॥
तमार्जवसमायुक्तमनार्या सत्यवादिनम्।
उवाच रामं कैकेयी वचनं भृशदारुणम् ॥ 2.18.31 ॥
पुरा दैवासुरे युद्धे पित्रा ते मम राघव।
रक्षितेन वरौ दत्तौ सशल्येन महारणे ॥ 2.18.32 ॥
तत्र मे याचितो राजा भरतस्याभिषेचनम्।
गमनं दण्डकारण्ये तव चाद्यैव राघव ॥ 2.18.33 ॥
यदि सत्यप्रतिज्ञां त्वं पितरं कर्तुमिच्छसि।
आत्मानं नरश्रेष्ठ मम वाक्यमिदं शृणु ॥ 2.18.34 ॥
सन्निदेशे पितुस्तिष्ठ यथाऽनेन प्रतिश्रुतम्।
त्वयारण्यं प्रवेष्टव्यं नव वर्षाणि पञ्च च ॥ 2.18.35 ॥
भरतस्त्वभिषिच्येत यदेतदभिषेचनम्।
त्वदर्थे विहितं राज्ञा तेन सर्वेण राघव ॥ 2.18.36 ॥
सप्त सप्त च वर्षाणि दण्डकारण्यमाश्रितः।
अभिषेकमिमं त्यक्त्वा जटाजिनधरो वस ॥ 2.18.37 ॥
भरतः कोसलपुरे प्रशास्तु वसुधामिमाम्।
नानारत्नसमाकीर्णां सवाजिरथकुञ्जराम् ॥ 2.18.38 ॥
एतेन त्वां नरेन्द्रोऽयं कारुण्येन समाप्लुतः।
शोकसङ्क्लिष्टवदनो न शक्नोति निरीक्षितुम् ॥ 2.18.39 ॥
एतत् कुरु नरेन्द्रस्य वचनं रघुनन्दन।
सत्येन महता राम तारयस्व नरेश्वरम् ॥ 2.18.40 ॥
इतीव तस्यां परुषं वदन्त्यां न चैव रामः प्रविवेश शोकम्।
प्रविव्यथे चापि महानुभावो राजा तु पुत्रव्यसनाभितप्तः ॥ 2.18.41 ॥