पताकाध्वजसम्पन्नं महार्हागरुधूपितम्।
अपश्यन्नगरं श्रीमान्नानाजनसमाकुलम् ॥ 2.17.1 ॥
स गृहैरभ्रसङ्काशैः पाण्डरैरुपशोभितम्।
राजमार्गं ययौ रामो मध्येनागरुधूपितम् ॥ 2.17.2 ॥
चन्दनानां च मुख्यानामगरूणां च सञ्चयैः।
उत्तमानां च गन्धानां क्षौमकौशाम्बरस्य च ॥ 2.17.3 ॥
अविद्धाभिश्च मुक्ताभिरुत्तमैः स्फाटिकैरपि।
शोभमानमसम्बाधैस्तं राजपथमुत्तमम् ॥ 2.17.4 ॥
संवृतं विविधैः पण्यैर्भक्ष्यैरुच्चावचैरपि।
ददर्श तं राजपथं दिवि देवपथं यथा ॥ 2.17.5 ॥
दध्यक्षतहविर्लाजैर्धूपैरगरुचन्दनैः।
नानामाल्योपगन्धैश्च सदाभ्यर्चितचत्वरम् ॥ 2.17.6 ॥
आशीर्वादान् बहून् शृण्वन् सुहृद्भिः समुदीरितान्।
यथार्हं चापि सम्पूज्य सर्वानेव नरान् ययौ ॥ 2.17.7 ॥
पितामहैराचरितं तथैव प्रपितामहैः।
अद्योपादाय तं मार्गमभिषिक्तोऽनुपालय ॥ 2.17.8 ॥
यथा स्म लालिताः पित्रा यथा पूर्वैः पितामहैः।
ततः सुखतरं रामे वत्स्यामस्सति राजनि ॥ 2.17.9 ॥
अलमद्य हि भुक्तेन परमार्थैरलं च नः।
यथा पश्याम निर्यान्तं रामं राज्ये प्रतिष्ठितम् ॥ 2.17.10 ॥
ततो हि नः प्रियतरं नान्यत् किञ्चिद्भविष्यति।
यथाभिषेको रामस्य राज्येनामिततेजसः ॥ 2.17.11 ॥
एताश्चान्याश्च सुहृदामुदासीनः कथाः शुभाः।
आत्मसम्पूजनीः शृण्वन् ययौ रामो महापथम् ॥ 2.17.12 ॥
न हि तस्मान्मनः कश्चिच्चक्षुषी वा नरोत्तमात्।
नरः शक्नोत्यपाक्रष्टुमतिक्रान्तेऽपि राघवे ॥ 2.17.13 ॥
यश्च रामं न पश्येत्तु यं च रामो न पश्यति।
निन्दितः स वसेल्लोके स्वात्माप्येनं विगर्हते ॥ 2.17.14 ॥
सर्वेषां हि स धर्मात्मा वर्णानां कुरुते दयाम्।
चतुर्णां हि वयस्स्थानां तेन ते तमनुव्रताः ॥ 2.17.15 ॥
चतुष्पथान् देवपथांश्चैत्यान्यायतनानि च।
प्रदक्षिणं परिहरन् जगाम नृपतेः सुतः ॥ 2.17.16 ॥
स राजकुलमासाद्य मेघसङ्घोपमैः शुभैः।
प्रासादश्रृङ्गैर्विविधैः कैलासशिखरोपमैः ॥ 2.17.17 ॥
आवारयद्भिर्गगनं विमानैरिव पाण्डरैः।
वर्द्धमानगृहैश्चापि रत्नजालपरिष्कृतैः ॥ 2.17.18 ॥
तत्पृथिव्यां गृहवरं महेन्द्रभवनोपमम्।
राजपुत्रः पितुर्वेश्म प्रविवेश श्रिया ज्वलन् ॥ 2.17.19 ॥
स कक्ष्या धन्विभिर्गुप्तास्तिस्रोऽतिक्रम्य वाजिभिः।
पदातिरपरे कक्ष्ये द्वे जगाम नरोत्तमः ॥ 2.17.20 ॥
स सर्वाः समतिक्रम्य कक्ष्यादशरथात्मजः।
सन्निवर्त्त्य जनं सर्वं शुद्धान्तं पुनरभ्यगात् ॥ 2.17.21 ॥
ततः प्रविष्टे पितुरन्तिकं तदा जनः स सर्वोमुदितो नृपात्मजे।
प्रतीक्षते तस्य पुनर्विनिर्गमं यथोदयं चन्द्रमसः सरित्पतिः ॥ 2.17.22 ॥