०१६ रामप्रस्थानम्

स तदन्तःपुरद्वारं समतीत्य जनाकुलम्।
प्रविविक्तां ततः कक्ष्यामाससाद पुराणवित् ॥ 2.16.1 ॥
प्रासकार्मुकबिभ्रद्भिर्युवभिर्मृष्टकुण्डलैः।
अप्रमादिभिरेकाग्रैः स्वनुरक्तैरधिष्ठिताम् ॥ 2.16.2 ॥
तत्र काषायिणो वृद्धान् वेत्रपाणीन् स्वलङ्कृतान्।
ददर्श विष्ठितान् द्वारि स्त्र्यध्यक्षान् सुसमाहितान् ॥ 2.16.3 ॥
ते समीक्ष्य समायान्तं रामप्रियचिकीर्षवः।
सह सोत्पतिताः सर्वे स्वासनेभ्यः ससम्भ्रमाः ॥ 2.16.4 ॥
तानुवाच विनीतात्मा सूतपुत्रः प्रदक्षिणः।
क्षिप्रमाख्यात रामायसुमन्त्रो द्वारि तिष्ठति ॥ 2.16.5 ॥
ते राममुपसङ्गम्य भर्त्तुः प्रियचिकीर्षवः।
सहभार्याय रामाय क्षिप्रमेवाचचक्षिरे ॥ 2.16.6 ॥
प्रतिवेदितमाज्ञाय सूतमभ्यन्तरं पितुः।
तत्रैवानाययामास राघवप्रियकाम्यया ॥ 2.16.7 ॥
तं वैश्रवणसङ्काशमुपविष्टं स्वलङ्कृतम्।
ददर्श सूतः पर्य्यङ्के सौवर्णे सोत्तरच्छदे ॥ 2.16.8 ॥
वराहरुधिराभेण शुचिना च सुगन्धिना।
अनुलिप्तं परार्ध्येन चन्दनेन परन्तपम् ॥ 2.16.9 ॥
स्थितया पार्श्वतश्चापि वालव्यजनहस्तया।
उपेतं सीतया भूयश्चित्रया शशिनं यथा ॥ 2.16.10 ॥
त तपन्तमिवादित्यमुपपन्नं स्वतेजसा।
ववन्दे वरदं वन्दी विनयज्ञो विनीतवत् ॥ 2.16.11 ॥
प्राञ्जलिस्तु सुखं पृष्ट्वा विहारशयनासने।
राजपुत्रमुवाचेदं सुमन्त्रो राजसत्कृतः ॥ 2.16.12 ॥
कौसल्या सुप्रजा राम पिता त्वां द्रष्टुमिच्छति।
महिष्या सह कैकेय्या गम्यतां तत्र मा चिरम् ॥ 2.16.13 ॥
एवमुक्तस्तु संहृष्टो नरसिंहो महाद्युतिः।
ततः सम्मानयामास सीतामिदमुवाच ह ॥ 2.16.14 ॥
देवि देवश्च देवी च समागम्य मदन्तरे।
मन्त्रयेते ध्रुवं किञ्चिदमिषेचनसंहितम् ॥ 2.16.15 ॥
लक्षयित्वा ह्यभिप्रायं प्रियकामा सुदक्षिणा।
सञ्चोदयति राजानं मदर्थं मदिरेक्षणे ॥ 2.16.16 ॥
सा प्रहृष्टा महाराजं हितकामानुवर्त्तिनी।
जननी चार्थकामा मे केकयाधिपतेः सुता ॥ 2.16.17 ॥
दिष्ट्या खलु महाराजो महिष्या प्रियया सह।
सुमन्त्रं प्राहिणोद्दूतमर्थकामकरं मम ॥ 2.16.18 ॥
यादृशी परिषत्तत्र तादृशो दूत आगतः।
ध्रुवमद्यैव मां राजा यौवराज्येऽभिषेक्ष्यति ॥ 2.16.19 ॥
हन्त शीघ्रमितो गत्वा द्रक्ष्यामि च महीपतिम्।
सह त्वं परिवारेण सुखमास्व रमस्व च ॥ 2.16.20 ॥
पतिसम्मानिता सीता भर्त्तारमसितेक्षणा।
आद्वारमनुवव्राज मङ्गलान्यभिदध्युषी ॥ 2.16.21 ॥
राज्यं द्विजातिभिर्जुष्टं राजसूयाभिषेचनम्।
कर्तुमर्हति ते राजा वासवस्येव लोककृत् ॥ 2.16.22 ॥
दीक्षितं व्रतसम्पन्नं वराजिनधरं शुचिम्।
कुरङ्गश्रृङ्गपाणिं च पश्यन्ती त्वां भजाम्यहम् ॥ 2.16.23 ॥
पूर्वां दिशं वज्रधरो दक्षिणां पातु ते यमः।
वरुणः पश्चिमामाशां धनेशस्तूत्तरां दिशम् ॥ 2.16.24 ॥
अथ सीतामनुज्ञाप्य कृतकौतुकमङ्गलः।
निश्चक्राम सुमन्त्रेण सह रामो निवेशनात् ॥ 2.16.25 ॥
पर्वतादिव निष्क्रम्य सिंहो गिरिगुहाशयः।
लक्ष्मणं द्वारि सोपश्यत् प्रह्वाञ्जिलिपुटं स्थितम् ॥ 2.16.26 ॥
अथ मध्यमकक्ष्यायां समागम्य सुहृज्जनैः।
स सर्वानर्थिनो दृष्ट्वा समेत्य प्रतिनन्द्य च ॥ 2.16.27 ॥
ततः पावकसङ्काशमारुरोह रथोत्तमम्।
वैयाघ्रं पुरुषव्याघ्रो रजतं राजनन्दनः ॥ 2.16.28 ॥
मेघनादमसम्बाधं मणिहेमविभूषितम्।
मुष्णन्तमिव चक्षूंषि प्रभया सूर्यवर्चसम् ॥ 2.16.29 ॥
हरियुक्तं सहस्राक्षो रथमिन्द्र इवाशुगम्।
प्रययौ तूर्णमास्थाय राघवो ज्वलितः श्रिया ॥ 2.16.30 ॥
स पर्जन्य इवाकाशे स्वनवानभिनादयन्।
निकेतान्निर्ययौ श्रीमान् महेन्द्रादिव चन्द्रमाः ॥ 2.16.31 ॥
छत्रचामरपाणिस्तु लक्ष्मणो राघवानुजः।
जुगोप भ्रातरं भ्राता रथमास्थाय पृष्टतः ॥ 2.16.32 ॥
ततो हलहलाशब्दस्तुमुलः समजायत।
तस्य निष्क्रममाणस्य जनौघस्य समन्ततः ॥ 2.16.33 ॥
ततो हयवरा मुख्या नागाश्च गिरिसन्निभाः।
अनुजग्मुस्तदा रामं शतशोऽथ सहस्रशः ॥ 2.16.34 ॥
अग्रतश्चास्य सन्नद्धाश्चन्दनागरुरूषिताः।
खड्गचापधराः शूरा जग्मुराशंसवो जनाः ॥ 2.16.35 ॥
ततो वादित्रशब्दास्तु स्तुतिशब्दास्तु वन्दिनाम्।
सिंहनादाश्च शूराणां तथा शुश्रुविरे पथि ॥ 2.16.36 ॥
हर्म्यवातायनस्थाभिर्भूषिताभिस्समन्ततः।
कीर्य्यमाणः सुपुष्पौघैर्ययौ स्त्रीभिररिन्दमः ॥ 2.16.37 ॥
रामं सर्वानवद्याङ्ग्यो रामपिप्रीषया ततः।
वचोभिरग्र्यैर्हर्म्यस्थाः क्षितिस्थाश्च ववन्दिरे ॥ 2.16.38 ॥
नूनं नन्दति ते माता कौसल्या मातृनन्दन।
पश्यन्ती सिद्धयात्रं त्वां पित्र्यं राज्यमवस्थितम् ॥ 2.16.39 ॥
सर्वसीमन्तिनीभ्यश्च सीतां सीमन्तिनीवराम्।
अमन्यन्त हि ता नार्यो रामस्य हृदयप्रियाम् ॥ 2.16.40 ॥
तया सुचरितं देव्या पुरा नूनं महत्तपः।
रोहिणीव शशाङ्केन रामसंयोगमाप या ॥ 2.16.41 ॥
इति प्रासाद शृङ्गेषु प्रमदाभिर्नरोत्तमः।
शुश्राव राजमार्गस्थः प्रिया वाच उदाहृताः ॥ 2.16.42 ॥
स राघवस्तत्र कथाप्रपञ्चान् शुश्राव लोकस्य समागतस्य।
आत्माधिकारा विविधाश्च वाचः प्रहृष्टरूपस्य पुरो जनस्य ॥ 2.16.43 ॥
एष श्रियं गच्छति राघवोऽद्य राजप्रसादाद्विपुलां गमिष्यन्।
एते वयं सर्वसमृद्धकामा एषामयं नो भविता प्रशास्ता ॥ 2.16.44 ॥
लाभो जनस्यास्य यदेष सर्वं प्रपत्स्यते राष्ट्रमिदं चिराय।
न ह्यप्रियं किञ्चन जातु कश्चित् पश्येन्न दुःखं मनुजाधिपेऽस्मिन् ॥ 2.16.45 ॥
स घोषवद्भिश्च हयैर्मतङ्गजैः पुरस्सरैः स्वस्तिकसूतमागधैः।
महीयमानः प्रवरैश्च वादकैरभिष्टुतो वैश्रवणो यथा ययौ ॥ 2.16.46 ॥
करेणुमातङ्गरथाश्वसङ्कुलं महाजनौघप्रतिपूर्णचत्वरम्।
प्रभूतरत्नं बहुपण्यसञ्चयं ददर्श रामो रुचिरं महापथम् ॥ 2.16.47 ॥