०१५ सुमन्त्रस्य रामगृहगमनम्

ते तु तां रजनीमुष्य ब्राह्मणा वेदपारगाः।
उपतस्थुरुपस्थानं सह राजपुरोहिताः ॥ 2.15.1 ॥
अमात्या बलमुख्याश्च मुख्या ये निगमस्य च।
राघवस्याभिषेकार्थे प्रीयमाणास्तु सङ्गताः ॥ 2.15.2 ॥
लग्ने कर्कटके प्राप्ते जन्म रामस्य च स्थिते।
अभिषेकाय रामस्य द्विजेन्द्रैरुपकल्पितम् ॥ 2.15.3 ॥
काञ्चनाजलकुम्भाश्च भद्रपीठं स्वलङ्कृतम्।
रथश्च सम्यगास्तीर्णो भास्वता व्याघ्रचर्मणा ॥ 2.15.4 ॥
गङ्गायमुनयोः पुण्यात् सङ्गमादाहृतं जलम्।
याश्चान्याः सरितः पुण्या ह्रदाः कूपाः सरांसि च ॥ 2.15.5 ॥
प्राग्वाहाश्चोर्ध्ववाहाश्च तिर्यग्वाहास्समाहिताः।
ताभ्यश्चैवाहृतं तोयं समुद्रेभ्यश्च सर्वशः ॥ 2.15.6 ॥
सलाजाः क्षीरिभिश्छन्ना घटाः काञ्चनराजताः।
पद्मोत्पलयुता भान्ति पूर्णाः परमवारिणा ॥ 2.15.7 ॥
क्षौद्रं दधि घृतं लाजा दर्भाः सुमनसः पयः।
वेश्याश्चैव शुभाचाराः सर्वाभरणभूषिताः ॥ 2.15.8 ॥
चन्द्रांशुविकचप्रख्यं काञ्चनं रत्नभूषितम्।
सज्जं तिष्ठति रामस्य वालव्यजनमुत्तमम् ॥ 2.15.9 ॥
चन्द्रमण्डलसङ्काशमातपत्रं च पाण्डरम्।
सज्जं द्युतिकरं श्रीमदभिषेकपुरस्कृतम् ॥ 2.15.10 ॥
पाण्डरश्च वृषः सज्जः पाण्डरोऽश्वश्च संस्थितः।
प्रसृतश्च गजः श्रीमानौपवाह्यः प्रतीक्षते ॥ 2.15.11 ॥
अष्टौ च कन्या माङ्गल्याः सर्वाभरणभूषिताः।
वादित्राणि च सर्वाणि वन्दिनश्च तथा परे ॥ 2.15.12 ॥
इक्ष्वाकूणां यथा राज्ये सम्भ्रियेताभिषेचनम्।
तथा जातीयमादाय राजपुत्राभिषेचनम् ॥ 2.15.13 ॥
ते राजवचनात्तत्र समवेता महीपतिम्।
अपश्यन्तोऽब्रुवन् को नु राज्ञो नः प्रतिवेदयत् ॥ 2.15.14 ॥
न पश्यामश्च राजानमुदितश्च दिवाकरः।
यौवराज्याभिषेकश्च सज्जो रामस्य धीमतः ॥ 2.15.15 ॥
इति तेषु ब्रुवाणेषु सार्वभौमान् महीपतीन्।
अब्रवीत्तानिदं सर्वान् सुमन्त्रो राजसत्कृतः ॥ 2.15.16 ॥
रामं राज्ञो नियोगेन त्वरया प्रस्थितोऽस्म्यहम्।
पूज्या राज्ञो भवन्तस्तु रामस्य च विशेषतः ॥ 2.15.17 ॥
अयं पृच्छामि वचनात्सुखमायुष्मतामहम्।
राज्ञः सम्प्रतिबुद्धस्य यच्चागमनकारणम् ॥ 2.15.18 ॥
इत्युक्त्वान्तःपुरद्वारमाजगाम पुराणवित्।
सदासक्तं च तद्वेश्म सुमन्त्रः प्रविवेशह ॥ 2.15.19 ॥
तुष्टावास्य तदा वंशं प्रविश्य स विशाम्पतेः।
शयनीयं नरेन्द्रस्य तदासाद्य व्यतिष्ठत ॥ 2.15.20 ॥
सोऽत्यासाद्य तु तद्वेश्म तिरस्करणिमन्तरा।
आशीर्भिर्गुणयुक्ताभिरभितुष्टाव राघवम् ॥ 2.15.21 ॥
सोमसूर्यौ च काकुत्स्थ शिववैश्रवणावपि।
वरुणश्चाग्निरिन्द्रश्च विजयं प्रदिशन्तु ते ॥ 2.15.22 ॥
गता भगवती रात्रिः कृतं कृत्यमिदं तव।
बुध्यस्व नृपशार्दूल कुरु कार्य्यमनन्तरम् ॥ 2.15.23 ॥
ब्राह्मणा बलमुख्याश्च नैगमाश्चागता नृप।
दर्शनं प्रतिकाङ्क्षन्ते प्रतिबुध्यस्व राघव ॥ 2.15.24 ॥
वस्तुवन्तं तं तदा सूतं सुमन्त्रं मन्त्रकोविदम्।
प्रतिबुध्य ततो राजा इदं वचनमब्रवीत् ॥ 2.15.25 ॥
राममानय सूतेति यदस्यभिहितोऽनया।
किमिदं कारणं येन ममाज्ञा प्रतिहन्यते ॥ 2.15.26 ॥
न चैव सम्प्रसुप्तोऽहमानयेहाशु राघवम्।
इति राजा दशरथः सूतं तत्रान्वशात् पुनः ॥ 2.15.27 ॥
स राजवचनं श्रुत्वा शिरसा प्रतिपूज्य तम्।
निर्जगाम नृपावासान्मन्यमानः प्रियं महत् ॥ 2.15.28 ॥
प्रपन्नो राजमार्गं च पताकाध्वजशोभितम्।
हृष्टः प्रमुदितः सूतो जगामाशु विलोकयन् ॥ 2.15.29 ॥
स सूतस्तत्र शुश्राव रामाधिकरणाः कथाः।
अभिषेचनसंयुक्ताः सर्वलोकस्य हृष्टवत् ॥ 2.15.30 ॥
ततो ददर्श रुचिरं कैलासशिखरप्रभम्।
रामवेश्म सुमन्त्रस्तु शक्रवेश्मसमप्रभम् ॥ 2.15.31 ॥
महाकवाटविहितं वितर्दिशतशोभितम्।
काञ्चनप्रतिमैकाग्रं मणिविद्रुमतोरणम् ॥ 2.15.32 ॥
शारदाभ्रघनप्रख्यं दीप्तमेरुगुहोपमम्।
मणिभिर्वरमाल्यानां सुमहद्भिरलङ्कृतम् ॥ 2.15.33 ॥
मुक्तामणिभिराकीर्णं चन्दनागरुधूपितम्।
गन्धान्मनोज्ञान् विसृजद्दार्दुरं शिखरं यथा ॥ 2.15.34 ॥
सारसैश्च मयूरैश्च विनदद्भिर्विराजितम्।
सुकृतेहामृगाकीर्णं सुकीर्णं भक्तिभिस्तथा ॥ 2.15.35 ॥
मनश्चक्षुश्च भूतानामाददत्तिग्मतेजसा।
चन्द्रभास्करसङ्काशं कुबेरभवनोपमम् ॥ 2.15.36 ॥
महेन्द्रधामप्रतिमं नानापक्षिसमाकुलम्।
मेरुश्रृङ्गसमं सूतो रामवेश्म ददर्श ह ॥ 2.15.37 ॥
उपस्थितैः समाकीर्णं जनैरञ्जलिकारिभिः।
उपादाय समाक्रान्तैस्तथा जानपदैर्जनैः ॥ 2.15.38 ॥
रामाभिषेकसुमुखैरुन्मुखैः समलङ्कृतम्।
महामेघसमप्रख्यमुदग्रं सुविभूषितम् ॥ 2.15.39 ॥
नानारत्नसमाकीर्णं कुब्जकैरातकावृतम् ॥ 2.15.40 ॥
स वाजियुक्तेन रथेन सारथिर्नराकुलं राजकुलं विलोकयन्।
वरूथिना रामगृहाभिपातिना पुरस्य सर्वस्य मनांसि रञ्जयत् ॥ 2.15.41 ॥
ततः समासाद्य महाधनं महत् प्रहृष्टरोमा स बभूव सारथिः।
मृगैर्मयूरैश्च समाकुलोल्बणं गृहं वरार्हस्य शचीपतेरिव ॥ 2.15.42 ॥
स तत्र कैलासनिभाः स्वलङ्कृताः प्रविश्य कक्ष्यास्त्रिदशालयोपमाः।
प्रियान्नरान् राममते स्थितान् बहूनपोह्य शुद्धान्तमुपस्थितो रथी ॥ 2.15.43 ॥
स तत्र शुश्राव च हर्षयुक्ता रामाभिषेकार्थकृता जनानाम्।
नरेन्द्रसूनोरभिमङ्गलार्थास्सर्वस्य लोकस्य गिरः प्रहृष्टः ॥ 2.15.44 ॥
महेन्द्रसद्मप्रतिमं तु वेश्म रामस्य रम्यं मृगपक्षिजुष्टम्।
ददर्श मेरोरिव शृङ्गमुच्चं विभ्राजमानं प्रभया सुमन्त्रः ॥ 2.15.45 ॥
उपस्थितैरञ्जलिकारकैश्च सोपायनैर्जानपदैश्च मर्त्यैः।
कोट्या परार्द्धैश्च विमुक्तयानैः समाकुलं द्वारपथं ददर्श ॥ 2.15.46 ॥
ततो महामेघमहीधराभं प्रभिन्नमत्यङ्कुशमप्रसह्यम्।
रामौपवाह्यं रुचिरं ददर्श शत्रुञ्जयं नागमुदग्रकायम् ॥ 2.15.47 ॥
स्वलङ्कृतान् साश्वरथान् सकुञ्जरानमात्यमुख्यान् शतशश्च वल्लभान्।
व्यापोह्य सूतः सहितान् समन्ततः समृद्धमन्तःपुरमाविवेश ॥ 2.15.48 ॥
तदद्रिकूटाचलमेघसन्निभं महाविमानोत्तमवेश्मसङ्घवत्।
अवार्यमाणः प्रविवेश सारथिः प्रभूतरत्नं मकरो यथार्णवम् ॥ 2.15.49 ॥