पुत्रशोकार्दितं पापा विसञ्ज्ञं पतितं भुवि।
विवेष्टमानमुद्वीक्ष्य सैक्ष्वाकमिदमब्रवीत् ॥ 2.14.1 ॥
पापं कृत्वैव किमिदं मम संश्रुत्य संश्रवम्।
शेषे क्षितितले सन्नः स्थित्यां स्थातुं त्वमर्हसि ॥ 2.14.2 ॥
आहुः सत्यं हि परमं धर्मं धर्मविदो जनाः।
सत्यमाश्रित्य हि मया त्वं च धर्मप्रचोदितः ॥ 2.14.3 ॥
संश्रुत्य शैब्यः श्येनाय स्वां तनुं जगतीपतिः।
प्रदाय पक्षिणे राजन् जगाम गतिमुत्तमाम् ॥ 2.14.4 ॥
तथा ह्यलर्कस्तेजस्वी ब्राह्मणे वेदपारगे।
याचमाने स्वके नेत्रे उद्धृत्या विमना ददौ ॥ 2.14.5 ॥
सरितां तु पतिः स्वल्पां मर्यादां सत्यमन्वितः।
सत्यानुरोधात्समये वेलां स्वां नातिवर्त्तते ॥ 2.14.6 ॥
सत्यमेकपदं ब्रह्म सत्ये धर्मः प्रतिष्ठितः।
सत्यमेवाक्षया वेदाः सत्येनैवाप्यते परम् ॥ 2.14.7 ॥
सत्यं समनुवर्त्तस्व यदि धर्मे धृता मतिः।
स वरः सफलो मेऽस्तु वरदो ह्यसि सत्तम ॥ 2.14.8 ॥
धर्मस्येहाभिकामार्थं मम चैवाभ्यचोदनात्।
प्रव्राजय सुतं रामं त्रिः खलु त्वां ब्रवीम्यहम् ॥ 2.14.9 ॥
समयं च ममाद्येमं यदि त्वं न करिष्यसि।
अग्रतस्ते परित्यक्ता परित्यक्ष्यामि जीवितम् ॥ 2.14.10 ॥
एवं प्रचोदितो राजा कैकेय्या निर्विशङ्कया।
नाशकत् पाशमुन्मोक्तुं बलिरिन्द्रकृतं यथा ॥ 2.14.11 ॥
उद्भ्रान्तहृदयश्चापि विवर्णवदनोऽभवत्।
स धुर्यो वै परिस्पन्दन् युगचक्रान्तरं यथा ॥ 2.14.12 ॥
विह्वलाभ्यां च नेत्राभ्यामपश्यन्निव भूमिपः।
कृच्छ्राद्धैर्येण संस्तभ्य कैकेयीमिदमब्रवीत् ॥ 2.14.13 ॥
यस्ते मन्त्रकृतः पाणिरग्नौ पापे मया धृतः।
तं त्यजामि स्वजं चैव तव पुत्रं सह त्वया ॥ 2.14.14 ॥
प्रयाता रजनीदेवि सूर्यस्योदयनं प्रति।
अभिषेकं गुरुजनस्त्वरयिष्यति मां ध्रुवम् ॥ 2.14.15 ॥
रामाभिषेकसम्भारैस्तदर्थमुपकल्पितैः।
रामः कारयितव्यो मे मृतस्य सलिलक्रियाम् ॥ 2.14.16 ॥
त्वया सपुत्रया नैव कर्त्तव्या सलिलक्रिया।
व्याहन्तास्यशुभाचारे यदि रामाभिषेचनम् ॥ 2.14.17 ॥
न च शक्नोम्यहं द्रष्टुं दृष्ट्वा पूर्वं तथासुखम्।
हतहर्षं निरानन्दं पुनर्जनमवाङ्मुखम् ॥ 2.14.18 ॥
तां तथा ब्रुवतस्तस्य भूमिपस्य महात्मनः।
प्रभाता शर्वरी पुण्या चन्द्रनक्षत्रशालिनी ॥ 2.14.19 ॥
ततः पापसमाचारा कैकेयी पार्थिवं पुनः।
उवाच परुषं वाक्यं वाक्यज्ञा रोषमूर्च्छिता ॥ 2.14.20 ॥
किमिदं भाषसे राजन् वाक्यं गररुजोपमम्।
आनाययितुमक्लिष्टं पुत्रं राममिहार्हसि ॥ 2.14.21 ॥
स्थाप्य राज्ये मम सुतं कृत्वा रामं वनेचरम्।
निस्सपत्नां च मां कृत्वा कृतकृत्यो भविष्यसि ॥ 2.14.22 ॥
स नुन्न इव तीक्ष्णेन प्रतोदेन हयोत्तमः।
राजा प्रयोदितोऽभीक्ष्णं कैकेयीमिदमब्रवीत् ॥ 2.14.23 ॥
धर्मबन्धेन बद्धोऽस्मि नष्टा च मम चेतना।
ज्येष्ठं पुत्रं प्रियं रामं द्रष्टुमिच्छामि धार्मिकम् ॥ 2.14.24 ॥
ततः प्रभातां रजनीमुदिते च दिवाकरे।
पुण्ये नक्षत्रयोगे च मुहूर्त्ते च समाहिते ॥ 2.14.25 ॥
वसिष्ठो गुणसम्पन्नः शिष्यैः परिवृतस्तदा।
उपगृह्याशु सम्भारान् प्रविवेश पुरोत्तमम् ॥ 2.14.26 ॥
सिक्तसम्मार्जितपथां पताकोत्तमभूषिताम्।
विचित्रकुसुमाकीर्णां नानास्रग्भिर्विराजिताम् ॥ 2.14.27 ॥
संहृष्टमनुजोपेतां समृद्धविपणापणाम्।
महोत्सवसमाकीर्णां राघवार्थे समुत्सुकाम् ॥ 2.14.28 ॥
चन्दनागरुधूपैश्च सर्वतः परिधूपिताम्।
तां पुरीं समतिक्रम्य पुरन्दरपुरोपमाम् ॥ 2.14.29 ॥
पौरजानपदाकीर्णं ब्राह्मणैरुपशोभितम्।
यज्ञविद्भिः सुसम्पूर्णं सदस्यैः परमद्विजैः ॥ 2.14.30 ॥
तदन्तःपुरमासाद्य व्यतिचक्राम तु जनम्।
वसिष्ठः परमप्रीतः परमर्षिर्विवेश च ॥ 2.14.31 ॥
स त्वपश्यद्विनिष्क्रान्तं सुमन्त्रं नाम सारथिम्।
द्वारे तु राजसिंहस्य सचिवं प्रियदर्शनम् ॥ 2.14.32 ॥
तमुवाच महातेजाः सूतपुत्रं विशारदम्।
वसिष्ठः क्षिप्रमाचक्ष्व नृपतेर्मामिहागतम् ॥ 2.14.33 ॥
इमे गङ्गोदकघटाः सागरेभ्यश्च काञ्चनाः।
औदुम्बरं भद्रपीठमभिषेकार्थमाहृतम् ॥ 2.14.34 ॥
सर्वबीजानि गन्धाश्च रत्नानि विविधानि च।
क्षौद्रं दधि धृतं लाजा दर्भाः सुमनसः पयः ॥ 2.14.35 ॥
अष्टौ च कन्यारुचिरा मत्तश्च वरवारणः।
चतुरश्वो रथः श्रीमान् निस्त्रिंशो धनुरुत्तमम् ॥ 2.14.36 ॥
वाहनं नरसंयुक्तं छत्रं च शशिसन्निभम्।
श्वेते च वालव्यजने भृङ्गारश्च हिरण्मयः ॥ 2.14.37 ॥
हेमदामपिनद्धश्च ककुद्मान् पाण्डरो वृषः।
केसरी च चतुर्दंष्ट्रो हरिश्रेष्ठो महाबलः ॥ 2.14.38 ॥
सिंहासनं व्याघ्रतनुः समिद्धश्च हुताशनः।
सर्ववादित्रसङ्घाश्च वेश्याश्चालङ्कृताः स्त्रियः ॥ 2.14.39 ॥
आचार्या ब्राह्मणां गावः पुण्याश्च मृगपक्षिणः।
पौरजानपदश्रेष्ठा नैगमाश्च गणैः सह ॥ 2.14.40 ॥
एते चान्ये च बहवः प्रीयमाणाः प्रियम्वदाः।
अभिषेकाय रामस्य सह तिष्ठन्ति पार्थिवैः ॥ 2.14.41 ॥
त्वरयस्व महाराजं यथा समुदितेऽहनि।
पुण्ये नक्षत्रयोगे च रामो राज्यमवाप्नुयात् ॥ 2.14.42 ॥
इति तस्य वचः श्रुत्वा सूतपूत्रो महात्मनः।
स्तुवन्नृपतिशार्दूलं प्रविवेश निवेशनम् ॥ 2.14.43 ॥
तं तु पूर्वोदितं वृद्धं द्वारस्था राजसम्मतम्।
न शेकुरभिसंरोद्धुं राज्ञः प्रियचिकीर्षवः ॥ 2.14.44 ॥
स समीपस्थितो राज्ञस्तामवस्थामजज्ञिवान्।
वाग्भिः परमतुष्टाभिरभिष्टोतुं प्रचक्रमे ॥ 2.14.45 ॥
ततः सूतो यथाकालं पार्थिवस्य निवेशने।
सुमन्त्रः प्राञ्जलिर्भूत्वा तुष्टाव जगतीपतिम् ॥ 2.14.46 ॥
यथा नन्दति तेजस्वी सागरो भास्करोदये।
प्रीतः प्रीतेन मनसा तथानन्दघनः स्वतः ॥ 2.14.47 ॥
इन्द्रमस्यां तु वेलायामभितुष्टाव मातलिः।
सोऽजयद्दानवान् सर्वांस्तथा त्वां बोधयाम्यहम् ॥ 2.14.48 ॥
वेदाः सहाङ्गविद्याश्च यथा ह्यात्मभुवं विभुम्।
ब्रह्माणं बोधयन्त्यद्य तथा त्वां बोधयाम्यहम् ॥ 2.14.49 ॥
आदित्यः सह चन्द्रेण यथा भूतधरां शुभाम्।
बोधयत्यद्य पृथिवीं तथा त्वां बोधयाम्यहम् ॥ 2.14.50 ॥
उत्तिष्ठाशु महाराज कृत कौतुकमङ्गलः।
विराजमानो वपुषा मेरोरिव दिवाकरः ॥ 2.14.51 ॥
सोमसूर्यौ च काकुत्स्थ शिववैश्रवणावपि।
वरुणश्चाग्निरिन्द्रश्च विजयं प्रदिशन्तु ते ॥ 2.14.52 ॥
गता भगवती रात्रिः कृतं कृत्यमिदं तव।
बुध्यस्व नृपशार्दूल कुरु कार्यमनन्तरम् ॥ 2.14.53 ॥
उदतिष्ठत रामस्य समग्रमभिषेचनम्।
पौरजानपदैश्चापि नैगमैश्च कृताञ्जलिः ॥ 2.14.54 ॥
स्वयं वसिष्ठो भगवान् ब्राह्मणैः सह तिष्ठति।
क्षिप्रमाज्ञाप्यतां राजन् राघवस्याभिषेचनम् ॥ 2.14.55 ॥
यथा ह्यपालाः पशवो यथा सेना ह्यनायका।
यथा चन्द्रं विना रात्रिर्यथा गावो विना वृषम् ॥ 2.14.56 ॥
एवं हि भवता राष्ट्रं यत्र राजा न दृश्यते ॥ 2.14.57 ॥
इति तस्य वचः श्रुत्वा सान्त्वपूर्वमिवार्थवत्।
अभ्यकीर्यत शोकेन भूय एव महीपतिः ॥ 2.14.58 ॥
शोकरक्तेक्षणः श्रीमान् उद्वीक्ष्योवाच धार्मिकः।
वाक्यैस्तु खलु मर्माणि मम भूयो निकृन्तसि ॥ 2.14.59 ॥
सुमन्त्रः करुणं श्रुत्वा दृष्ट्वा दीनं च पार्थिवम्।
प्रगृहीताञ्जलिः किञ्चित्तस्माद्देशादपाक्रमत् ॥ 2.14.60 ॥
यदा वक्तुं स्वयं दैन्यान्न शशाक महीपतिः।
तदा सुमन्त्रं मन्त्रज्ञा कैकेयी प्रत्युवाच ह ॥ 2.14.61 ॥
सुमन्त्र राजा रजनीं रामहर्षसमुत्सुकः।
प्रजागरपरिश्रान्तो निद्रावया वशमेयिवान् ॥ 2.14.62 ॥
तद्गच्छ त्वरितं सूत राजपुत्रं यशस्विनम्।
राममानय भद्र ते नात्र कार्या विचारणा ॥ 2.14.63 ॥
स मन्यमानः कल्याणं हृदयेन ननन्द च।
निर्जगाम च सम्प्रीत्या त्वरितो राजशासनात् ॥ 2.14.64 ॥
सुमन्त्रश्चिन्तयामास त्वरितं चोदितस्तया।
व्यक्तं रामाभिषेकार्थमिहायास्यति धर्मवित् ॥ 2.14.65 ॥
इति सूतो मतिं कृत्वा हर्षेण महता वृतः।
निर्जगाम महाबाहू राघवस्य दिदृक्षया ॥ 2.14.66 ॥
सागरह्रदसङ्काशात् सुमन्त्रोऽन्तःपुराच्छुभात्।
निष्क्रम्य जनसम्बाधं ददर्श द्वारमग्रतः ॥ 2.14.67 ॥
ततः पुरस्तात् सहसा विनिर्गतो महीपतीन् द्वारगतो विलोकयन्।
ददर्श पौरान् विविधान् महाधनानुपस्थितान् द्वारमुपेत्य विष्ठितान् ॥ 2.14.68 ॥