०१३ दशरथस्य वैक्लव्यम्

अतदर्हं महाराजं शयानमतथोचितम्।
ययातिमिव पुण्यान्ते देवलोकात्परिच्युतम् ॥ 2.13.1 ॥
अनर्थरूपा सिद्धार्थाह्यभीता भयदर्शिनी।
पुनराकारयामास तमेव वरमङ्गना ॥ 2.13.2 ॥
त्वं कत्थसे महाराज सत्यवादी दृढव्रतः।
मम चेमं वरं कस्माद्विधारयितुमिच्छसि ॥ 2.13.3 ॥
एवमुक्तस्तु कैकेय्या राजा दशरथस्तदा।
प्रत्युवाच ततः क्रुद्धो मुहूत्त विह्वलन्निव ॥ 2.13.4 ॥
मृते मयि गते रामे वनं मनुजपुङ्गवे।
हन्तानार्ये ममामित्रे सकामा सुखिनी भव ॥ 2.13.5 ॥
स्वर्गेपि खलु रामस्य कुशलं दैवतैरहम्।
प्रत्यादेशादभिहितं धारयिष्€ये कथं बत ॥ 2.13.6 ॥
कैकेय्याः प्रियकामेन रामः प्रव्राजितो मया।
यदि सत्यं ब्रवीम्येतत्तदसत्यं भविष्यति ॥ 2.13.7 ॥
अपुत्रेण मया पुत्रः श्रमेण महता महान्।
रामो लब्धो महाबाहुः स कथं त्यज्यते मया ॥ 2.13.8 ॥
शूरश्च कृतविद्यश्च जितक्रोधः क्षमापरः।
कथं कमलपत्राक्षो मया रामो विवास्यते ॥ 2.13.9 ॥
कथमिन्दीवरश्यामं दीर्घबाहुं महाबलम्।
अभिराममहं रामं प्रेषयिष्यामि दण्डकान् ॥ 2.13.10 ॥
सुखानामुचितस्यैव दुःखैरनुचितस्य च।
दुःखं नामानुपश्येयं कथं रामस्य धीमतः ॥ 2.13.11 ॥
यदि दुःखमकृत्वाद्य मम सङ्क्रमणं भवेत्।
अदुःखार्हस्य रामस्य ततः सुखमवाप्नुयाम् ॥ 2.13.12 ॥
नृशंसे पापसङ्कल्पे रामं सत्यपराक्रमम्।
किं विप्रियेण कैकेयि प्रियं योजयसे मम ॥ 2.13.13 ॥
अकीर्तिरतुला लोके ध्रुवः परिभवश्च मे ॥ 2.13.14 ॥
तथा विलपतस्तस्य परभ्रमितचेतसः।
अस्तमभ्यागमत् सूर्योरजनी चाभ्यवर्त्तत ॥ 2.13.15 ॥
सा त्रियामा तथार्त्तस्य चन्द्रमण्डलमण्डिता।
राज्ञो विलपमानस्य न व्यभासत शर्वरी ॥ 2.13.16 ॥
तथैवोष्णं विनिश्वस्य वृद्धो दशरथो नृपः।
विललापार्त्तद्दुःखं गगनासक्तलोचनः ॥ 2.13.17 ॥
न प्रभातं त्वयेच्छामि निशे नक्षत्रभूषणे।
क्रियतां मे दया भद्रे मयायं रचितोऽञ्जलिः ॥ 2.13.18 ॥
अथवा गम्यतां शीघ्रं नाहमिच्छामि निर्घृणाम्।
नृशंसां कैकयीं द्रष्टुं यत्कृते व्यसनं महत् ॥ 2.13.19 ॥
एवमुक्त्वा ततो राजा कैकेयीं संयताञ्जलिः।
प्रसादयामास पुनः कैकेयीं चेदमब्रवीत् ॥ 2.13.20 ॥
साधुवृत्तस्य दीनस्य त्वद्गतस्य गतायुषः।
प्रसादः क्रियतां देवि भद्रे राज्ञो विशेषतः ॥ 2.13.21 ॥
शून्ये न खलु सुश्रोणि मयेदं समुदाहृतम्।
कुरु साधु प्रसादं मे बाले सहृदया ह्यसि ॥ 2.13.22 ॥
प्रसीद देवि रामो मे त्वद्दत्तं राज्यमव्ययम्।
लभतामसितापाङ्गे यशः परमवाप्नुहि ॥ 2.13.23 ॥
मम रामस्य लोकस्य गुरूणां भरतस्य च।
प्रियमेतद्गुरुश्रोणि कुरु चारुमुखेक्षणे ॥ 2.13.24 ॥
विशुद्धभावस्य हि दुष्टभावा ताम्रेक्षणस्याश्रुकलस्य राज्ञः।
श्रुत्वा विचित्रं करुणं विलापं भर्तुर्नृशंसा न चकार वाक्यम् ॥ 2.13.25 ॥
ततः स राजा पुनरेव मूर्च्छितः प्रियामदुष्टां प्रतिकूलभाषिणीम्।
समीक्ष्य पुत्रस्य विवासनं प्रति क्षितौ विसञ्ज्ञो निपपात दुःखितः ॥ 2.13.26 ॥
इतीव राज्ञो व्यथितस्य सा निशा जगाम घोरं श्वसतो मनस्विनः।
विबोध्यमानः प्रतिबोधनं तदा निवारयामास स राजसत्तमः ॥ 2.13.27 ॥