०१२ कैकेय्युपलम्भः

ततः श्रुत्वा महाराजः कैकेय्या दारुणं वचः।
चिन्तामभिसमापेदे मुहूर्त्तं प्रतताप च ॥ 2.12.1 ॥
अनुभूतोपसर्गो वा मनसो वाप्युपद्रवः।
इति सञ्चिन्त्य तद्राजा नाभ्यगच्छत्तदा सुखम् ॥ 2.12.2 ॥
प्रतिलभ्य चिरात् सञ्ज्ञां कैकेयीवाक्यताडितः।
व्यथितो विक्लवश्चैव व्याघ्रीं दृष्ट्वा यथा मृगः ॥ 2.12.3 ॥
असंवृतायामासीनो जगत्यां दीर्घमुच्छ्वसन्।
मण्डले पन्नगो रुद्धो मन्त्रैरिव महाविषः ॥ 2.12.4 ॥
अहो धिगिति सामर्षो वाचमुक्त्वा नराधिपः।
मोहमापेदिवान् भूयः शोकोपहतचेतनः ॥ 2.12.5 ॥
चिरेण तु नृपः सञ्ज्ञां प्रतिलभ्य सुदुःखितः।
कैकेयीमब्रवीत् क्रुद्धः प्रदहन्निव चक्षुषा ॥ 2.12.6 ॥
नृशंसे दुष्टचारित्रे कुलस्यास्य विनाशिनि।
किं कृतं तव रामेण पापे पापं मयापि वा ॥ 2.12.7 ॥
यदा ते जननीतुल्यां वृत्तिं वहति राघवः।
तस्यैव त्वमनर्थाय किन्निमित्तमिहोद्यता ॥ 2.12.8 ॥
त्वं मयात्मविनाशार्थं भवनं स्वं प्रवेशिता।
अविज्ञानान्नृपसुता व्याली तीक्ष्णविषा यथा ॥ 2.12.9 ॥
जीवलोको यथा सर्वो रामस्याह गुणस्तवम्।
अपराधं कमुद्दिश्य त्यक्ष्यामीष्टमहं सुतम् ॥ 2.12.10 ॥
कौसल्यां वा सुमित्रां वा त्यजेयमपि वा श्रियम्।
जीवितं वात्मनो रामं न त्वेव पितृवत्सलम् ॥ 2.12.11 ॥
परा भवति मे प्रीतिर्दृष्ट्वा तनयमग्रजम्।
अपश्यतस्तु मे रामं नष्टा भवति चेतना ॥ 2.12.12 ॥
तिष्ठेल्लोको विना सूर्यं सस्यं वा सलिलं विना।
न तु रामं विना देहे तिष्ठेत्तु मम जीवितम् ॥ 2.12.13 ॥
तदलं त्यज्यतामेष निश्चयः पापनिश्चये।
अपि ते चरणौ मूर्ध्ना स्पृशाम्येष प्रसीद मे ॥ 2.12.14 ॥
किमिदं चिन्तितं पापे त्वया परमदारुणम् ॥ 2.12.15 ॥
अथ जिज्ञाससे मां त्वं भरतस्य प्रियाप्रिये।
अस्तु यत्तत्त्वया पूर्वं व्याहृतं राघवं प्रति ॥ 2.12.16 ॥
स मे ज्येष्ठः सुतः श्रीमान् धर्मज्येष्ठ इतीव मे।
तत्त्वया प्रियवादिन्या सेवार्थं कथितं भवेत् ॥ 2.12.17 ॥
तच्छ्रुत्वा शोकसन्तप्ता सन्तापयसि मां भृशम्।
आविष्टासि गृहं शून्यं सा त्वं परवशं गता ॥ 2.12.18 ॥
इक्ष्वाकूणां कुले देवि सम्प्राप्तस्सुमहानयम्।
अनयो नयसम्पन्ने यत्र ते विकृता मतिः ॥ 2.12.19 ॥
न हि किञ्चिदयुक्तं वा विप्रियं वा पुरा मम।
अकरोस्त्वं विशालाक्षि तेन न श्रद्दधाम्यहम् ॥ 2.12.20 ॥
ननु ते राघवस्तुल्यो भरतेन महात्मना।
बहुशो हि सुबाले त्वं कथाः कथयसे मम ॥ 2.12.21 ॥
तस्य धर्मात्मनो देवि वने वासं यशस्विनः।
कथं रोचयसे भीरु नव वर्षाणि पञ्च च ॥ 2.12.22 ॥
अत्यन्तसुकुमारस्य तस्य धर्मे धृतात्मनः।
कथं रोचयसे वासमरण्ये भृशदारुणे ॥ 2.12.23 ॥
रोचयस्यभिरामस्य रामस्य शुभलोचने।
तव शुश्रूषमाणस्य किमर्थं विप्रवासनम् ॥ 2.12.24 ॥
रामो हि भरताद्भूयस्तव शुश्रूषते सदा।
विशेषं त्वयि तस्मात्तु भरतस्य न लक्षये ॥ 2.12.25 ॥
शश्रूषां गौरवं चैव प्रमाणं वचनक्रियाम्।
कस्ते भूयस्तरं कुर्यादन्यत्र मनुजर्षभात् ॥ 2.12.26 ॥
बहूनां स्त्रीसहस्राणां बहूनां चोपजीविनाम्।
परिवादोऽपवादो वा राघवे नोपपद्यते ॥ 2.12.27 ॥
सान्त्वयन् सर्वभूतानि रामः शुद्धेन चेतसा।
गृह्णाति मनुजव्याघ्रः प्रियैर्विषयवासिनः ॥ 2.12.28 ॥
सत्येन लोकान् जयति दीनान् दानेन राघवः।
गुरून् शुश्रूषया वीरो धनुषा युधि शात्रवान् ॥ 2.12.29 ॥
सत्यं दानं तपस्त्यागो मित्रता शौचमार्जवम्।
विद्या च गुरुशुश्रूषा ध्रुवाण्येतानि राघवे ॥ 2.12.30 ॥
तस्मिन्नार्जवसम्पन्ने देवि देवोपमे कथम्।
पापमाशंससे रामे महर्षिसमतेजसि ॥ 2.12.31 ॥
न स्मराम्यप्रियं वाक्यं लोकस्य प्रियवादिनः।
स कथं त्वत्कते रामं वक्ष्यामि प्रियमप्रियम् ॥ 2.12.32 ॥
क्षमा यस्मिन् दमस्त्यागः सत्यं धर्मः कृतज्ञता।
अप्यहिंसा च भूतानां तमृते का गतिर्मम ॥ 2.12.33 ॥
मम वृद्धस्य कैकेयि गतान्तस्य तपस्विनः।
दीनं लालप्यमानस्य कारुण्यं कर्तुमर्हसि ॥ 2.12.34 ॥
पृथिव्यां सागरान्तायां यत्किञ्चिदधिगम्यते।
तत्सर्वं तव दास्यामि मा च त्वां मन्युराविशेत् ॥ 2.12.35 ॥
अञ्जलिं कुर्मि कैकेयि पादौ चापि स्पृशामि ते।
शरणं भव रामस्य माधर्मो मामिह स्पृशेत् ॥ 2.12.36 ॥
इति दुःखाभिसन्तप्तं विलपन्तमचेतनम्।
घूर्णमानं महाराजं शोकेन समभिप्लुतम् ॥ 2.12.37 ॥
पारं अन्तम्, रामाभिषेकमिति यावत्।अथ कृत्स्नम्।इति वचोविशेषणम्।
“आरम्भप्रश्नकार्त्स्न्येष्€वथो अथ” इत्यमरः।रौद्रा भयङ्करविकारा।रामाभिषेकनिवर्तनविषये यद्यद्वक्तव्यं तत्सर्वमुवाचेत्यर्थः ॥ 2.12.38 ॥
धार्मिकत्वं कथं वीर पृथिव्यां कथयिष्यसि।
धार्मिकत्वं स्वीयमिति शेषः ॥ 2.12.39 ॥
यदा समेता बहवस्त्वया राजर्षयः सह।
कथयिष्यन्ति धर्मज्ञास्तत्र किं प्रतिवक्ष्यसि ॥ 2.12.40 ॥
यस्याः प्रसादे जीवामि या च मामभ्यपालयत्।
तस्याः कृतं मया मिथ्या €कैकेय्या इति वक्ष्यसि ॥ 2.12.41 ॥
किल्बिषत्वं नरेन्द्राणां करिष्यसि नराधिप।
यो दत्त्वा वरमद्यैव पुनरन्यानि भाषसे ॥ 2.12.42 ॥
शैब्यः श्येनकपोतीये स्वमांसं पक्षिणे ददौ।
अलर्कश्चक्षुषी दत्त्वा जगाम गतिमुत्तमाम् ॥ 2.12.43 ॥
सागरः समयं कृत्वा न वेलामतिवर्त्तते।
समयं मानृतं कार्षीः पूर्वं वृत्तमनुस्मरन् ॥ 2.12.44 ॥
स त्वं धर्मं परित्यज्य रामं राज्येऽभिषिच्य च।
सह कौसल्यया नित्यं रन्तुमिच्छसि दुर्म€ते ॥ 2.12.45 ॥
भवत्वधर्मो धर्मो वा सत्यं वा यदि वानृतम्।
यत्त्वया संश्रुतं मह्यं तस्य नास्ति व्यतिक्रमः ॥ 2.12.46 ॥
अहं हि विषमद्यैव पीत्वा बहु तवाग्रतः।
पश्यतस्ते मरिष्यामि रामो यद्यभिषिच्यते ॥ 2.12.47 ॥
एकाहमपि पश्येयं यद्यहं राममातरम्।
अञ्जलिं प्रतिगृह्णन्तीं श्रेयो ननु मृतिर्मम ॥ 2.12.48 ॥
भरतेनात्मना चाहं शपे ते मनुजाधिप।
यथा नान्येन तुष्येयमृते रामविवासनात् ॥ 2.12.49 ॥
एतावदुक्त्वा वचनं कैकेयी विरराम ह।
विलपन्तं च राजानं न प्रतिव्याजहार सा ॥ 2.12.50 ॥
श्रुत्वा च राजा कैकेय्या वृतं परमशोभनम्।
रामस्य च वने वासमैश्वर्यं भरतस्य च ॥ 2.12.51 ॥
नाभ्यभाषत कैकेयीं मुहूर्त्तं व्याकुलेन्द्रियः।
प्रैक्षतानिमिषो देवीं प्रियामप्रियवादिनीम् ॥ 2.12.52 ॥
तां हि वज्रसमां वाचमाकर्ण्य हृदयाप्रियाम्।
दुःखशोकमयीं घोरां राजा न सुखितोऽभवत् ॥ 2.12.53 ॥
स देव्या व्यवसायं च घोरं च शपथं कृतम्।
ध्यात्वा रामेति निश्वस्य च्छिन्नस्तरुरिवापतत् ॥ 2.12.54 ॥
नष्टचित्तो यथोन्मत्तो विपरीतो यथातुरः।
हृततेजा यथा सर्पो बभूव जगतीपतिः ॥ 2.12.55 ॥
दीनया तु गिरा राजा इति होवाच कैकयीम् ॥ 2.12.56 ॥
अनर्थमिममर्थाभं केन त्वमुपदर्शिता।
भूतोपहतचित्तेव ब्रुवन्ती मां न लज्जसे ॥ 2.12.57 ॥
शीलव्यसनमेतत्ते नाभिजानाम्यहं पुरा।
बालायास्तत्त्विदानीं ते लक्षये विपरीतवत् ॥ 2.12.58 ॥
कुतो वा ते भयं जातं या त्वमेवंविधं वरम् ॥ 2.12.59 ॥
विरमैतेन भावेन त्वमेतेनानृतेन वा।
यदि भर्तुः प्रियं कार्यं लोकस्य भरतस्य च ॥ 2.12.60 ॥
नृशंसे पापसङ्कल्पे क्षुद्रे दुष्कृतकारिणि।
किन्नु दुःखमलीकं वा मयि रामे च पश्यसि ॥ 2.12.61 ॥
न कथञ्चिदृते रामाद्भरतो राज्यमावसेत्।
रामादपि हितं मन्ये धर्मतो बलवत्तरम् ॥ 2.12.62 ॥
कथं द्रक्ष्यामि रामस्य वनं गच्छेति भाषिते।
मुखवर्णं विवर्णं तं यथैवेन्दुमुपप्लुतम् ॥ 2.12.63 ॥
तां हि मे सुकृतां बुद्धिं सुहृद्भिः सह निश्चिताम्।
कथं द्रक्ष्याम्यपावृत्तां परैरिव हतां चमूम् ॥ 2.12.64 ॥
किं मां वक्ष्यन्ति राजानो नानादिग्भ्यः समागताः।
बालो बतायमैक्ष्वाकश्चिरं राज्यमकारयत् ॥ 2.12.65 ॥
यदा तु बहवो वृद्धा गुणवन्तो बहुश्रुताः।
परिप्रक्ष्यन्ति काकुत्स्थं वक्ष्यामि किमहं तदा ॥ 2.12.66 ॥
कैकेय्या क्लिश्यमानेन पुत्रः प्रव्राजितो मया।
यदि सत्यं ब्रवीम्येतत्तदसत्यं भविष्यति ॥ 2.12.67 ॥
किं मां वक्ष्यति कौसल्या राघवे वनमास्थिते।
किञ्चैनां प्रतिवक्ष्यामि कृत्वा विप्रियमीदृशम् ॥ 2.12.68 ॥
यदा यदा हि कौसल्या दासीवच्च सखीव च।
भार्यावद्भगिनीवच्च मातृवच्चोपतिष्ठति ॥ 2.12.69 ॥
सततं प्रियकामा मे प्रियपुत्रा प्रियंवदा।
न मया सत्कृता देवी सत्कारार्हा कृते तव ॥ 2.12.70 ॥
इदानीं तत्तपति मां यन्मया सुकृतं त्वयि।
अपथ्यव्यञ्जनोपेतं भुक्तमन्नमिवातुरम् ॥ 2.12.71 ॥
विप्रकारं च रामस्य सम्प्रयाणं वनस्य च।
सुमित्रा प्रेक्ष्य वै भीता कथं मे विश्वसिष्यति ॥ 2.12.72 ॥
कृपणं बत वैदेही श्रोष्यति द्वयमप्रियम्।
मां च पञ्चत्वमापन्नं रामं च वनमाश्रितम् ॥ 2.12.73 ॥
वैदेही बत मे प्राणान् शोचन्ती क्षपयिष्यति।
हीना हिमवतः पार्श्वे किन्नरेणेव किन्नरी ॥ 2.12.74 ॥
न हि राममहं दृष्ट्वा प्रविशन्तं महावने।
चिरं जीवितुमाशंसे रुदन्तीं चापि मैथिलीम् ॥ 2.12.75 ॥
सा नूनं विधवा राज्यं सपुत्रा कारयिष्यसि।
न हि प्रव्राजिते रामे देवि जीवितुमुत्सहे ॥ 2.12.76 ॥
सतीं त्वामहमत्यन्तं व्यवस्याम्यसतीं सतीम्।
रूपिणीं विषसंयुक्तां पीत्वेव मदिरां नरः ॥ 2.12.77 ॥
अनृतैर्बहु मां सान्त्वैः सान्त्वयन्ती स्म भाषसे।
गीतशब्देन संरुद्ध्य लुब्धो मृगमिवावधीः ॥ 2.12.78 ॥
अनार्य इति मामार्याः पुत्रविक्रायिकं ध्रुवम्।
धिक्करिष्यन्ति रथ्यासु सुरापं ब्राह्मणं यथा ॥ 2.12.79 ॥
अहो दुःखमहो कृच्छ्रं यत्र वाचः क्षमे तव।
दुःखमेवंविधं प्राप्तं पुराकृतमिवाशुभम् ॥ 2.12.80 ॥
चिरं खलु मया पापे त्वं पापेनाभिरक्षिता।
अज्ञानादुपसम्पन्ना रज्जुरुद्बन्धिनी यथा ॥ 2.12.81 ॥
रममाणस्त्वया सार्द्धं मृत्युं त्वां नाभिलक्षये।
बालो रहसि हस्तेन कृष्णसर्पमिवास्पृशम् ॥ 2.12.82 ॥
मया ह्यपितृकः पुत्रः स महात्मा दुरात्मना।
तं तु मां जीव लोकोऽयं नूनमाक्रोष्टुमर्हति ॥ 2.12.83 ॥
बालिशो बत कामात्मा राजा दशरथो भृशम्।
स्त्रीकृते यः प्रियं पुत्रं वनं प्रस्थापयिष्यति ॥ 2.12.84 ॥
व्रतैश्च ब्रह्मचर्यैश्चगुरुभिश्चोपकर्शितः।
भोगकाले महत्कृच्छ्रं पुनरेव प्रपत्स्यते ॥ 2.12.85 ॥
नालं द्वितीयं वचनं पुत्रो मां प्रतिभाषितुम्।
स वनं प्रव्रजेत्युक्तो बाढमित्येव वक्ष्यति ॥ 2.12.86 ॥
यदि मे राघवः कुर्याद्वनं गच्छेति चोदितः।
प्रतिकूलं प्रियं मे स्यान्न तु वत्सः करिष्यति ॥ 2.12.87 ॥
शुद्धभावो हि भावं मे न तु ज्ञास्यति राघवः।
स वनं प्रव्रजेत्युक्तो बाढमित्येव वक्ष्यति ॥ 2.12.88 ॥
राघवे हि वनं प्राप्ते सर्वलोकस्य धिक्कृतम्।
मृत्युरक्षमणीयं मां नयिष्यति यमक्षयम् ॥ 2.12.89 ॥
मृते मयि गते रामे वनं मनुजपुङ्गवे।
इष्टे मम जने शेषे किं पापं प्रतिपत्स्यसे ॥ 2.12.90 ॥
कौसल्यां मां च रामं च पुत्रौ च यदि हास्यति।
दुःखान्यसहती देवी मामेवानुमरिष्यति ॥ 2.12.91 ॥
कौसल्यां च सुमित्रां च मां च पुत्रैस्त्रिभिः सह।
प्रक्षिप्य नरके सा त्वं कैकेयि सुखिता भव ॥ 2.12.92 ॥
मया रामेण च त्यक्तं शाश्वतं सत्कृतं गुणैः।
इक्ष्वाकुकुलमक्षोभ्यमाकुलं पालयिष्यसि ॥ 2.12.93 ॥
प्रियं चेद्भ्€ारतस्यैतद्रामप्रवाजनं भवेत्।
मा स्म मे भरतः का€र्षीत् प्रेतकृत्यं गतायुषः ॥ 2.12.94 ॥
हन्तानार्ये ममा मित्रे सकामा भव कैकयि।
मृते मयि गते रामे वनं पुरुषपुङ्गवे ॥ 2.12.95 ॥
सेदानीं विधवा राज्यं सपुत्रा कारयिष्यसि ॥ 2.12.96 ॥
अकीर्त्तिश्चातुला लोके ध्रुवः परिभवश्च मे।
सर्वभूतेषु चावज्ञा यथा पापकृतस्तथा ॥ 2.12.97 ॥
कथं रथैर्विभुर्यात्वा गजाश्वैश्च मुहुर्मुहुः।
पद्भ्यां रामो महारण्ये वत्सो मे विचरिष्यति ॥ 2.12.98 ॥
यस्य त्वाहारसमये सूदाः कुण्डलधारिणः।
अहम्पूर्वाः पचन्ति स्म प्रशस्तं पानभोजनम् ॥ 2.12.99 ॥
स कथं नु कषायाणि तिक्तानि कटुकानि च।
भक्षयन् वन्यमाहारं सुतो मे वर्त्तयिष्यति ॥ 2.12.100 ॥
महार्हवस्त्रसंवीतो भूत्वा चिरसुखोषितः।
काषायपरिधानस्तु कथं भूमौ निवत्स्यति ॥ 2.12.101 ॥
कस्यैतद्दारुणं वाक्यमेवंविधमचिन्तितम्।
रामस्यारण्यगमनं भरतस्याभिषेचनम् ॥ 2.12.102 ॥
धिगस्तु योषितो नाम शठाः स्वार्थपरास्सदा।
न ब्रवीमि स्त्रियः सर्वा भरतस्यैव मातरम् ॥ 2.12.103 ॥
अनर्थभावेऽर्थपरे नृशंसे ममानुतापाय निविष्टभावे।
किमप्रियं पश्यसि मन्निमित्तं हितानुकारिण्यथवापि रामे ॥ 2.12.104 ॥
परित्यजेयुः पितरो हि पुत्रान् भार्याः पतींश्चापि कृतानुरागाः।
कृत्स्नं हि सर्वं कुपितं जगत् स्याद्दृष्ट्वैव रामं व्यसने निमग्नम् ॥ 2.12.105 ॥
अहं पुनर्देवकुमाररूपमलङ्कृतं तं सुतमाव्रजन्तम्।
नन्दामि पश्यन्नपि दर्शनेन भवामि दृष्ट्वा च पुनर्युवेव ॥ 2.12.106 ॥
विनापि सूर्येण्€ा भवेत्प्रवृत्तिरवर्षता वज्रधरेण वापि।
रामं तु गच्छन्तमितः समीक्ष्य जीवेन्न कश्चित्त्विति चेतना मे ॥ 2.12.107 ॥
विनाशकामामहिताममित्रामावासयं मृत्युमिवात्मनस्त्वाम्।
चिरं बताङ्केन धृतासि सर्पी महाविषा तेन हतोऽस्मि मोहात् ॥ 2.12.108 ॥
मया च रामेण च लक्ष्मणेन प्रशास्तु हीनो भरतस्त्वया सह।
पुरं च राष्ट्रं च निहत्य बान्धवान् ममाहितानां च भवाभिहर्षिणी ॥ 2.12.109 ॥
नृशंसवृत्ते व्यसनप्रहारिणि प्रसह्य वाक्यं यदिहाद्य भाषसे।
न नाम ते केन मुखात्पतन्त्यधो विशीर्यमाणा दशनाः सहस्रधा ॥ 2.12.110 ॥
न च किञ्चिदाहाहितमप्रियं वचो न वेत्ति रामः परुषाणि भाषितुम्।
कथं नु रामे ह्यभिरामवादिनि ब्रवीषि दोषान् गुणनित्यसम्मते ॥ 2.12.111 ॥
प्रताम्य वा प्रज्वल वा प्रणश्य वा सहस्रशो वा स्फुटिता महीं व्रज।
न ते करिष्यामि वचः सुदारुणं ममाहितं केकयराजपांसनि ॥ 2.12.112 ॥
क्षुरोपमां नित्यमसत्प्रियंवदां प्रदुष्टभावां स्वकुलोपघातिनीम्।
न जीवितुं त्वां विषहेऽमनोरमां दिधक्षमाणां हृदयं सबन्धनम् ॥ 2.12.113 ॥
न जीवितं मेऽस्ति कुतः पुनः सुखं विनात्मजेनात्मवतः कुतो रतिः।
ममाहितं देवि न कर्तुमर्हसि स्पृशामि पादावपि ते प्रसीद मे ॥ 2.12.114 ॥
स भूमिपलो विलपन्ननाथवत् स्त्रिया गृहीतो हृदयेऽतिमात्रया।
पपात देव्याश्चरणौ प्रसारितावुभावसंस्पृश्य यथातुरस्तथा ॥ 2.12.115 ॥