०११ कैकेय्याः वरयाचना

तं मन्मथशरैर्विद्धं कामवेगवशानुगम्।
उवाच पृथिवीपालं कैकेयी दारुणं वचः ॥ 2.11.1 ॥
नास्मि विप्रकृता देव केन चिन्नावमानिता।
अभिप्रायस्तु मे कश्चित्तमिच्छामि त्वया कृतम् ॥ 2.11.2 ॥
प्रतिज्ञां प्रतिज्ञानीष्व यदि त्वं कर्तुमिच्छसि।
अथ तद्व्याहरिष्यामि यदभिप्रार्थितं मया ॥ 2.11.3 ॥
तामुवाच महातेजाः कैकेयीमीषदुत्स्मितः।
कामी हस्तेन सङ्गृह्य मूर्द्धजेषु शुचिस्मिताम् ॥ 2.11.4 ॥
अवलिप्ते न जानासि त्वत्तः प्रियतमा मम।
मनुजो मनुजव्याघ्राद्रामादन्यो न विद्यते ॥ 2.11.5 ॥
तेनाजय्येन मुख्येन राघवेण महात्मना।
शपे ते जीवनार्हेण ब्रूहि यन्मनसेच्छसि ॥ 2.11.6 ॥
यं मुहूर्त्तमपश्यंस्तु न जीवेयमहं ध्रुवम्।
तेन रामेण कैकेयि शपे ते वचनक्रियाम् ॥ 2.11.7 ॥
आत्मना वात्मजैश्चान्यैर्वृणेयं मनुजर्षभम्।
तेन रामेण कैकेयि शपे ते वचनक्रियाम् ॥ 2.11.8 ॥
भद्रे हृदयमप्येतदनुमृश्योद्धरस्व मे।
एतत्समीक्ष्य कैकेयि ब्रूहि यत्साधुमन्यसे ॥ 2.11.9 ॥
बलमात्मनि पश्यन्ती न मां शङ्कितुमर्हसि।
करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे ॥ 2.11.10 ॥
सा तदर्थमना देवी तमभिप्रायमागतम्।
निर्माध्यस्थ्याच्च हर्षाच्च बभाषे दुःसहं वचः ॥ 2.11.11 ॥
तेन वाक्येन संहृष्टा तमभिप्रायमागतम्।
व्याजहार महाघोरमभ्यागतमिवान्तकम् ॥ 2.11.12 ॥
यथा क्रमेण शपसि वरं मम ददासि च।
तच्छृण्वन्तु त्रयस्त्रिंशद्देवाः साग्निपुरोगमाः ॥ 2.11.13 ॥
चन्द्रादित्यौ नभश्चैव ग्रहा रात्र्यहनी दिशः।
जगच्च पृथिवी चैव सगन्धर्वा सराक्षसा ॥ 2.11.14 ॥
निशाचराणि भूतानि गृहेषु गृहदेवताः।
यानि चान्यानि भूतानि जानीयुर्भाषितं तव ॥ 2.11.15 ॥
सत्यसन्धो महातेजा धर्मज्ञः सुसमाहितः।
वरं मम ददात्येष तन्मे श्रृण्वन्तु देवताः ॥ 2.11.16 ॥
इति देवी महेष्वासं परिगृह्याभिशस्य च।
ततः परमुवाचेदं वरदं काममोहितम् ॥ 2.11.17 ॥
स्मर राजन् पुरावृत्तं तस्मिन् दैवासुरे रणे।
तत्र चाच्यावयच्छत्रुस्तव जीवितमन्तरा ॥ 2.11.18 ॥
तत्र चापि मया देव यत्त्वं समभिरक्षितः।
जाग्रत्या यतमानायास्ततो मे प्राददा वरौ ॥ 2.11.19 ॥
तौ तु दत्तौ वरौ देव निक्षेपौ मृगयाम्यहम्।
तवैव पृथिवीपाल सकाशे सत्यसङ्गर ॥ 2.11.20 ॥
तत् प्रतिश्रुत्य धर्मेण न चेद्दास्यसि मे वरम्।
अद्यैव हि प्रहास्यामि जीवितं त्वद्विमानिता ॥ 2.11.21 ॥
वाङ्मात्रेण तदा राजा कैकेय्या स्ववशे कृतः।
प्रचस्कन्द विनाशाय पाशं मृग इवात्मनः ॥ 2.11.22 ॥
ततःपरमुवाचेदं वरदं काममोहितम्।
वरौ यौ मे त्वया देव तदा दत्तौ महीपते ॥ 2.11.23 ॥
तौ तावदहमद्यैव वक्ष्यामि शृणु मे वचः ॥ 2.11.24 ॥
अभिषेकसमारम्भो राघवस्योपकल्पितः।
अनेनैवाभिषेकेण भरतो मेऽभिषेच्यताम् ॥ 2.11.25 ॥
यो द्वितीयो वरो देव दत्तः प्रीतेन मे त्वया।
तदा दैवासुरे युद्धे तस्य कालोऽयमागतः ॥ 2.11.26 ॥
नव पञ्च च वर्षाणि दण्डकारण्यमाश्रितः।
चीराजिनजटाधारी रामो भवतु तापसः ॥ 2.11.27 ॥
भरतो भजतामद्य यौवराज्यमकण्टकम्।
एष मे परमः कामो दत्तमेव वरं वृणे ॥ 2.11.28 ॥
अद्य चैव हि पश्येयं प्रयान्तं राघवं वनम् ॥ 2.11.29 ॥
स राजराजो भव सत्यसङ्गरः कुलं च शीलं च हि रक्ष जन्म च।
परत्रवासे हि वदन्त्यनुत्तमं तपोधनाः सत्यवचो हितं नृणाम् ॥ 2.11.30 ॥