विदर्शिता यदा देवी कुब्जया पापया भृशम्।
तदा शेते स्म सा भूमौ दिग्धविद्धेव किन्नरी ॥ 2.10.1 ॥
निश्चित्य मनसा कृत्यं सा सम्यगिति भामिनी।
मन्थरायै शनैः सर्वमाचचक्षे विचक्षणा ॥ 2.10.2 ॥
नागकन्येव निश्वस्य दीर्घमुष्णं च भामिनी।
मुहूर्त्तं चिन्तयामास मार्गमात्ममुखावहम् ॥ 2.10.3 ॥
सा सुहृच्चार्थकामा च तन्निशम्य सुनिश्चयम्।
बभूव परमप्रीता सिद्धिं प्राप्येव मन्थरा ॥ 2.10.4 ॥
अथ सा मर्षिता देवी सम्यक् कृत्वा विनिश्चयम्।
संविवेशाबला भूमौ निवेश्य भ्रुकुटीं मुखे ॥ 2.10.5 ॥
ततश्चित्राणि माल्यानि दिव्यान्याभरणानि च।
अपविद्धानि कैकेय्या तानि भूमिं प्रपेदिरे ॥ 2.10.6 ॥
तया तान्यपविद्धानि माल्यान्याभरणानि च।
अशोभयन्त वसुधां नक्षत्राणि यथा नभः ॥ 2.10.7 ॥
क्रोधागारे निपतिता सा बभौ मलिनाम्बरा।
एकवेणीं दृढं बध्वा गतसत्त्वेव किन्नरी ॥ 2.10.8 ॥
आज्ञाप्य तु महाराजो राघवस्याभिषेचनम्।
उपस्थानमनुज्ञाप्य प्रविवेश निवेशनम् ॥ 2.10.9 ॥
अद्य रामाभिषेको वै प्रसिद्ध इति जज्ञिवान्।
प्रियार्हां प्रियमाख्यातुं विवेशान्तःपुरं वशी ॥ 2.10.10 ॥
स कैकेय्या गृहं श्रेष्ठं प्रविवेश महायशाः।
पाण्डराभ्रमिवाकाशं राहुयुक्तं निशाकरः ॥ 2.10.11 ॥
शुकबर्हिणसङ्घुष्टं क्रौञ्चहंसरुतायुतम्।
वादित्ररवसङ्घुष्टं कुब्जावामनिकायुतम् ॥ 2.10.12 ॥
लतागृहैश्चित्रगृहैश्चम्पकाशोकशोभितैः।
दान्तराजतसौवर्णवेदिकाभिः समायुतम् ॥ 2.10.13 ॥
नित्यपुष्पफलैर्वृक्षैर्वापीभिश्चोपशोभितम्।
दान्तराजतसौवर्णैः संवृतं परमासनैः ॥ 2.10.14 ॥
विविधैरन्नपानैश्च भक्ष्यैश्च विविधैरपि।
उपपन्नं महार्हैश्च भूषितैस्त्रिदिवोपमम् ॥ 2.10.15 ॥
तत् प्रविश्य महाराजः स्वमन्तःपुरमृद्धिमत्।
न ददर्श प्रियां राजा कैकेयीं शयनोत्तमे ॥ 2.10.16 ॥
स कामबलसंयुक्तो रत्यर्थं मनुजाधिपः।
अपश्यन् दयितां भार्यां पप्रच्छ विषसाद च ॥ 2.10.17 ॥
न हि तस्य पुरा देवी तां वेलामत्यवर्त्तत।
न च राजा गृहं शून्यं प्रविवेश कदाचन ॥ 2.10.18 ॥
ततो गृहगतो राजा कैकेयीं पर्यपृच्छत।
यथापुरमविज्ञाय स्वार्थलिप्सुमपण्डिताम् ॥ 2.10.19 ॥
प्रतिहारी त्वथोवाच सन्त्रस्ता सुकृताञ्जलिः।
देव देवी भृशं क्रुद्धा क्रोधागारमभिद्रुता ॥ 2.10.20 ॥
प्रतिहार्या वचः श्रुत्वा राजा परमदुर्मनाः।
विषसाद पुनर्भूयो लुलितव्याकुलेन्द्रियः ॥ 2.10.21 ॥
तत्र तां पतितां भूमौ शयानामतथोचिताम्।
प्रतप्त इव दुःखेन सोपश्यज्जगतीपतिः ॥ 2.10.22 ॥
स वृद्धस्तरुणीं भार्यां प्राणेभ्योऽपि गरीयसीम्।
अपापः पापसङ्कल्पं ददर्श धरणीतले ॥ 2.10.23 ॥
लतामिव विनिष्कृत्तां पतितां देवतामिव।
किन्नरीमिव निर्धूतां च्युतामप्सरसं यथा ॥ 2.10.24 ॥
मायामिव परिभ्रष्टां हरिणीमिव संयुताम्।
करेणुमिव दिग्धेन विद्धां मृगयुना वने** ॥ 2.10.25 ॥
महागज इवारण्ये स्नेहात्परिममर्श ताम्।
परिमृश्य च पाणिभ्यामभिसन्त्रस्तचेतनः ॥ 2.10.26 ॥
कामी कमलपत्राक्षीमुवाच वनितामिदम् ॥ 2.10.27 ॥
न तेऽहमभिजानामि क्रोधमात्मनि संश्रितम्।
देवि केनाभिशप्तासि केन वासि विमानिता ॥ 2.10.28 ॥
यदिदं मम दुःखाय शेषे कल्याणि पांसुषु।
भूमौ शेषे किमर्थं त्वं मयि कल्याणचेतसि ॥ 2.10.29 ॥
भूतोपहतचित्तेव मम चित्तप्रमाथिनी ॥ 2.10.30 ॥
सन्ति मे कुशला वैद्यास्त्वभितुष्टाश्च सर्वशः।
सुखितां त्वां करिष्यन्ति व्याधिमाचक्ष्व भामिनि ॥ 2.10.31 ॥
कस्य वा ते प्रियं कार्यं केन वा विप्रियं कृतम्।
कः प्रियं लभतामद्य को वा सुमहदप्रियम् ॥ 2.10.32 ॥
मा रोदीर्मा च कार्षीस्त्वं देवि सम्परिशोषणम्।
अवध्यो वध्यतां को वा को वा वध्यो विमुच्यताम् ॥ 2.10.33 ॥
दरिद्रः को भवत्वाढ्यो द्रव्यवान् वाप्यकिञ्चनः ॥ 2.10.34 ॥
अहं चैव मदीयाश्च सर्वे तव वशानुगाः।
न ते किञ्चिदभिप्रायं व्याहन्तुमहमुत्सहे ॥ 2.10.35 ॥
आत्मनो जीवितेनापि ब्रूहि यन्मनसेच्छसि।
बलमात्मनि जानन्ती न मां शङ्कितुमर्हसि ॥ 2.10.36 ॥
करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे ॥ 2.10.37 ॥
यावदावर्त्तते चक्रं तावती मे वसुन्धरा।
प्राचीनाः सिन्धुसौवीराः सौराष्ट्रा दक्षिणापथाः ॥ 2.10.38 ॥
वङ्गाङ्गमगध मत्स्याः समृद्धाः काशिकोसलाः।
तत्र जातं बहुद्रव्यं धनधान्यमजाविकम् ॥ 2.10.39 ॥
ततो वृणीष्व कैकेयि यद्यत्त्वं मनसेच्छसि ॥ 2.10.40 ॥
किमायासेन ते भीरु उत्तिष्ठोत्तिष्ठ शोभने।
तत्त्वं मे ब्रूहि कैकेयि यतस्ते भयमागतम् ॥ 2.10.41 ॥
तत्ते व्यपनयिष्यामि नीहारमिव रश्मिवान् ॥ 2.10.42 ॥
तथोक्ता सा समाश्वस्ता वक्तुकामा तदप्रियम्।
परिपीडयितुं भूयो भर्त्तारमुपचक्रमे ॥ 2.10.43 ॥