एवमुक्ता तु कैकेयी कोपेन ज्वलितानना।
दीर्घमुष्णं विनिश्वस्य मन्थरामिदमब्रवीत् ॥ 2.9.1 ॥
अद्य राममितः क्षिप्रं वनं प्रस्थापयाम्यहम्।
यौवराज्ये च भरतं क्षिप्रमेवाभिषेचये ॥ 2.9.2 ॥
इदं त्विदानीं सम्पश्ये केनोपायेन मन्थरे।
भरतः प्राप्नुयाद्राज्यं न तु रामः कथञ्चन ॥ 2.9.3 ॥
एवमुक्ता तया देव्या मन्थरा पापदर्शिनी।
रामार्थमुपहिंसन्ती कैकेयीमिदमब्रवीत् ॥ 2.9.4 ॥
हन्तेदानीं प्रवक्ष्यामि कैकेयि श्रूयतां च मे।
यथा ते भरतो राज्यं पुत्रः प्राप्स्यति केवलम् ॥ 2.9.5 ॥
किं न स्मरसि कैकेयि स्मरन्ती वा निगूहसे।
यदुच्यमानमात्मार्थं मत्तस्त्वं श्रोतुमिच्छसि ॥ 2.9.6 ॥
मयोच्यमानं यदि ते श्रोतुं छन्दो विलासिनि।
श्रूयतामभिधास्यामि श्रुत्वा चापि विमृश्यताम् ॥ 2.9.7 ॥
श्रुत्वैवं वचनं तस्या मन्थरायास्तु कैकयी।
किञ्चिदुत्थाय शयनात् स्वास्तीर्णादिदमब्रवीत् ॥ 2.9.8 ॥
कथय त्वं ममोपायं केनोपायेन मन्थरे।
भरतः प्राप्नुयाद्राज्यं न तु रामः कथञ्चन ॥ 2.9.9 ॥
एवमुक्ता तया देव्या मन्थरा पापदर्शिनी।
रामार्थमुपहिंसन्ती कुब्जा वचनमब्रवीत् ॥ 2.9.10 ॥
तव दैवासुरे युद्धे सह राजर्षिभिः पतिः।
अगच्छत्त्वामुपादाय देवराजस्य साह्यकृत् ॥ 2.9.11 ॥
दिशमास्थाय वै देवि दक्षिणां दण्डकान् प्रति।
वैजयन्तमिति ख्यातं पुरं यत्र तिमिध्वजः ॥ 2.9.12 ॥
स शम्बर इति ख्यातः शतमायो महासुरः।
ददौ शक्रस्य सङ्ग्रामं देवसङ्घैरनिर्जितः ॥ 2.9.13 ॥
तस्मिन् महति सङ्ग्रामे पुरुषान् क्षतविक्षतान्।
रात्रौ प्रसुप्तान् घ्नन्ति स्म तरसासाद्य राक्षसाः ॥ 2.9.14 ॥
तत्राकरोन्महद्युद्धं राजा दशरथस्तदा।
असुरैश्च महाबाहुः शस्त्रैश्च शकलीकृतः ॥ 2.9.15 ॥
अपवाह्य त्वयादवि सङ्ग्रामान्नष्टचेतनः।
तत्रापि विक्षितः शस्त्रैः पतिस्ते रक्षितस्त्वया ॥ 2.9.16 ॥
तृष्टेन तेन दत्तौ ते द्वौ वरौ शुभदर्शने ॥ 2.9.17 ॥
सत्वयोक्तः पतिर्देवि यदेच्छेयं तदा वरौ।
गृह्णीयामिति तत्तेन तथेत्युक्तं महात्मना ॥ 2.9.18 ॥
अनभिज्ञा ह्यहं देवि त्ययैव कथिता पुरा।
कथैषा तव तु स्नेहान्मनसा धार्यते मया ॥ 2.9.19 ॥
तौ वरौ याच भर्तारं भरतस्याभिषेचनम्।
प्रव्राजनं तु रामस्य त्वं वर्षाणि चतुर्दश ॥ 2.9.20 ॥
चतुर्दश हि वर्षाणि रामे प्रव्राजिते वनम्।
प्रजाभावगतस्नेहः स्थिरः पुत्रो भविष्यति ॥ 2.9.21 ॥
क्रोधागारं प्रविश्याद्य क्रुद्धेवाश्वपतेः सुते।
शेष्वानन्तर्हितायां त्वं भूमौ मलिनवासिनी ॥ 2.9.22 ॥
मा स्मैनं प्रत्युदीक्षथा मा चैनमभिभाषथाः।
रुदन्ती चापि तु दृष्ट्वा जगत्यां शोकलालसा ॥ 2.9.23 ॥
दयितां त्वं सदा भर्त्तुरत्र मे नास्ति संशयः।
त्वत्कृते स महाराजो विशेदपि हुताशनम् ॥ 2.9.24 ॥
न त्वां क्रोधयितुं शक्तो न क्रुद्धां प्रत्युदीक्षितुम्।
तव प्रियार्थं राजा हि प्राणानपि परित्यजेत् ॥ 2.9.25 ॥
न ह्यतिक्रमितुं शक्तस्तववाक्यं महीपतिः।
मन्दस्वभावे बुद्ध्यस्व सौभाग्यबलमात्मनः ॥ 2.9.26 ॥
मणिमुक्तं सुवर्णानि रत्नानि विविधानि च।
दद्याद्दशरथो राजा मा स्म तेषु मनः कृथाः ॥ 2.9.27 ॥
यौ तौ दैवासुरे युद्धे वरौ दशरथोऽददात्।
तौ स्मारय महाभागे सौऽर्थो मा त्वामतिक्रमेत् ॥ 2.9.28 ॥
यदा तु ते वरं द्यात् स्वयमुत्थाप्य राघवः।
व्यवस्थाप्य महाराजं त्वमिमं वृणुया वरम् ॥ 2.9.29 ॥
रामं प्रव्राजयारण्ये नव वर्षाणि पञ्च च।
भरतः क्रियतां राजा पृथिव्याः पार्थिवर्षभः ॥ 2.9.30 ॥
चतुर्दश हि वर्षाणि रामे प्रव्राजिते वनम्।
रूढश्च कृतमूलश्च शेषं स्थास्यति ते सुतः ॥ 2.9.31 ॥
रामप्रवाजनं चैव देवि याचस्व तं वरम्।
एवं सिद्ध्यन्ति पुत्रस्य सर्वार्थास्तव भामिनि ॥ 2.9.32 ॥
एव प्रव्राजितश्चैव रामोऽरामो भविष्यति।
भरतश्च हतामित्रस्तव राजा भविष्यति ॥ 2.9.33 ॥
तेन कालेन पुत्रस्ते कृतमूलो भविष्यति।
सङ्गृहीतमनुष्यश्च सुहृद्भिः सार्द्धमात्मवान् ॥ 2.9.34 ॥
प्राप्तकालं तु ते मन्ये राजानं वीतसाध्वसा।
रामाभिषेकसम्भारान्निगृह्य विनिवर्त्तय ॥ 2.9.35 ॥
अनर्थमर्थरूपेण ग्राहिता सा ततस्तया।
हृष्टा प्रतीता कैकेयी मन्थरामिदमब्रवीत् ॥ 2.9.36 ॥
सा हि वाक्येन कुब्जायाः किशोरीवोत्पथङ्गता।
कैकेयी विस्मयं प्राप्ता परं परमदर्शना ॥ 2.9.37 ॥
कुब्जे त्वां नाभिजानामि श्रेष्ठां श्रेष्ठाभिधायिनीम्।
पृथिव्यामसि कुब्जानामुत्तमा बुद्धिनिश्चये ॥ 2.9.38 ॥
त्वमेव तु ममार्थेषु नित्ययुक्ता हितैषिणी।
नाहं समवबुद्ध्येयं कुब्जे राज्ञः चिकीर्षितम् ॥ 2.9.39 ॥
सन्ति दुस्संस्थिताः कुब्जा वक्राः परमपापिकाः।
त्वं पद्ममिव वातेन सन्नता प्रियदर्शना ॥ 2.9.40 ॥
उरस्तेऽभिनिविष्टं वै यावत्स्कन्धात् समुन्नतम्।
अधस्ताच्चोदरं शातं सुनाभमिव लज्जितम् ॥ 2.9.41 ॥
परिपूर्णं तु जघनं सुपीनौ च पयोधरौ।
विमलेन्दु समं वक्त्रमहो राजसि मन्थरे ॥ 2.9.42 ॥
जघनं तव निर्घुष्टं रशनादामशोभितम्।
जङ्घे भृशमुपन्यस्ते पादौ चाप्यायतावुभौ ॥ 2.9.43 ॥
त्वमायताभ्यां सक्थिभ्यां मन्थरे क्षौमवासिनी।
अग्रतो मम गच्छन्ती राजहंसीव राजसे ॥ 2.9.44 ॥
आसन् याः शम्बरे मायाः सहस्रमसुराधिपे।
सर्वास्त्वयि निविष्टास्ता भूयश्चान्याः सहस्रशः ॥ 2.9.45 ॥
तवेदं स्थगु यद्दीर्घं रथघोणमिवायतम्।
मतयः क्षत्रविद्याश्च मायाश्चात्र वसन्ति ते ॥ 2.9.46 ॥
अत्र ते प्रतिमोक्ष्यामि मालां कुब्जे हिरण्मयीम्।
अभिषिक्ते च भरते राघवे च वनं गते ॥ 2.9.47 ॥
जात्येन च सुवर्णे सुनिष्टप्तेन मन्थरे।
लब्धार्था च प्रतीता च लेपयिष्यामि ते स्थगु ॥ 2.9.48 ॥
मुखे च तिलकं चित्रं जातरूपमयं शुभम्।
कारयिष्यामि ते कुब्जे शुभान्याभरणानि च ॥ 2.9.49 ॥
परिधाय शुभे वस्त्रे देवतेव चरिष्यसि ॥ 2.9.50 ॥
चन्द्रमाह्वयमानेन मुखेनाप्रतिमानना।
गमिष्यसि गतिं मुख्या गर्वयन्ती द्विषज्जनम् ॥ 2.9.51 ॥
तवापि कुब्जाः कुब्जायाः सर्वाभरणभूषिताः।
पादौ परिचरिष्यन्ति यथैव त्वं सदा मम ॥ 2.9.52 ॥
इति प्रशस्यमाना सा कैकेयीमिदमब्रवीत्।
शयानां शयने शुभ्रे वेद्यामग्निशिखामिव ॥ 2.9.53 ॥
गतोदके सेतुबन्धो न कल्याणि विधीयते।
उत्तिष्ठ कुरु कल्याणि राजानमनुदर्शय ॥ 2.9.54 ॥
तथा प्रोत्साहिता देवी गत्वा मन्थरया सह।
क्रोधागारं विशालाक्षी सौभाग्यमदगर्विता ॥ 2.9.55 ॥
अनेकशतसाहस्रं मुक्ताहारं वराङ्गना।
अवमुच्य वरार्हाणि शुभान्याभरणानि च ॥ 2.9.56 ॥
ततो हेमोपमा तत्र कुब्जावाक्यवशङ्गता।
संविश्य भूमौ कैकेयी मन्थरामिदमब्रवीत् ॥ 2.9.57 ॥
इह वा मां मृतां कुब्जे नृपायावेदयिष्यसि।
वनं तु राघवे प्राप्ते भरतः प्राप्स्यति क्षितिम् ॥ 2.9.58 ॥
न सुवर्णेन मे ह्यर्थो न रत्नैर्न च भूषणैः।
एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते ॥ 2.9.59 ॥
अथो पुनस्तां महिषीं महीक्षितो वचोभिरत्यर्थमहापराक्रमैः।
उवाच कुब्जा भरतस्य मातरं हितं वचो राममुपेत्य चाहितम् ॥ 2.9.60 ॥
प्रपत्स्यते राज्यमिदं हि राघवो यदि ध्रुवं त्वं ससुता च तप्स्यसे।
अतो हि कल्याणि यतस्व तत्तथा यथा सुतस्ते भरतोऽभिषेक्ष्यते ॥ 2.9.61 ॥
तथातिविद्धा महिषी तु कुब्जया समाहता वागिषुभिर्मुहुर्मुहुः।
निधाय हस्तौ हृदयेऽतिविस्मिता शशंस कुब्जां कुपिता पुनः पुनः ॥ 2.9.62 ॥
यमस्य वा मां विषयं गतामितो निशाम्य कुब्जे प्रतिवेदयिष्यसि।
वनं गते वा सुचिराय राघवे समृद्धकामो भरतो भविष्यति ॥ 2.9.63 ॥
अहं हि नैवास्तरणानि न स्रजो न चन्दनं नाञ्जनपानभोजनम्।
न किञ्चिदिच्छामि न चेह जीवितं न चेदितो गच्छति राघवो वनम् ॥ 2.9.64 ॥
अथैतदुक्त्वा वचनं सुदारुणं निधाय सर्वाभरणानि भामिनी।
असंवृतामास्तरणेन मेदिनीं तदाधिशिश्ये पतितेव किन्नरी ॥ 2.9.65 ॥
उदीर्णसंरम्भतमोवृतानना तथावमुक्तोत्तममाल्यभूषणा।
नरेन्द्रपत्नी विमला बभूव सा तमोवृता द्यौरिव मग्नतारका ॥ 2.9.66 ॥